#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00221 Uniform title: tripurārahasya māhatmyakaṇḍham Main title: tripurārahasyam māhatmyakaṇḍham Description: Part 2 of gurumaṇḍalagranthamālāyā vol. 28 part 2 from chapter 51 to end. Notes: Transcribed by the staff of Muktabodha under the supervision of Mark S.G. Dyczkowski. Revision 0: Sept. 18, 2010. Publisher : Publication year : Publication city : Publication country : India #################################################### प्.५१४) एकपञ्चाशत्तमोऽध्यायः ललितामाहात्म्ये यागन तुष्टायाः श्रीदेव्याःसमाविर्भावपुरः सरं तदद्भुतरूपवर्णनम् शृणु कुम्भज ! तेनैवं निरस्ताः सर्वतोऽमराः | दुःखिताः काननेष्वद्रिदरीष्वन्तर्गुहासु च || १ || नदीकुञ्जेषु दैत्येशत्रस्ता दैत्यैरलक्षिताः | ऊषुर्दीर्घतमः कालं क्वचिद्दैत्यैर्विलक्षिताः || २ || आकृष्टास्ताडिताः सेवां कुर्युर्भृत्या यथा तथा | एवं वर्षसहस्राणामतीतं द्विसहस्रकम् || ३ || तदा क्वचित्तु देवेन्द्रो ददर्शाऽङ्गिरसं गुरुम् | प्रणम्य तं प्राह शक्रः बद्धाऽञ्जलिपुटस्तदा || ४ || गुरो! मां पश्य शोचन्तं देवेशं त्वत्समाश्रयम् | चिराय परिदृष्टोऽसि शिष्ये मयि दयां कुरु || ५ || नाऽहं सोढुमितः शक्तः कष्टमेवंविधं विभो | पुरा विधिः प्रार्थितोऽपि मया भूयः स्वयं जगौ || ६ || नाऽधुनाऽस्य प्रतीकारे कालो देवपते शृणु | प्रतीक्ष कालं कालेन विना नो सिध्यतीहितम् || ७ || प्.५१५) तस्याऽद्य वत्सरा वृत्ता असंख्येया युगात्मकाः | न तं कालं प्रपश्यामि लेशतोऽपि सुखावहम् || ८ || पश्य मां मलिनं दीनं क्षामाऽङ्गं सर्वतो भयम् | एष कुञ्जः कण्टकितः स्वर्गो नन्दनमेव च || ९ || सुधर्मा चाऽत्र मशका गन्धर्वाः स्वरमण्डलाः | वन्दिनः करटा एते शालूराः स्तुतिवाचनाः || १० || रम्भाद्याः खद्योतगणा हंसतूलं शिलातलम् | उपधानं गुल्मपादो मन्त्राऽह्वानं शिवाध्वनिः || ११ || परिषद्बककङ्काद्याः पटवासो महीरजः | चामराः कण्टकितरुशाखा वात्याप्रवेपिताः || १२ || एवं समाचारयुतं पश्यंस्तेन द्रुतं मनः | नूनं भाग्यं ममैवैतदित्युक्त्वा मूर्च्छितोऽभवत् || १३ || तं दुःखमूर्च्छितं दृष्ट्वा गुरुः कारुण्यमागतः | समाश्वास्याऽमरपतिः प्रोवाचाऽङ्गिरसो वचः || १४ || शृणु देवर्षभ! बुधा नाऽनुशोचन्ति कुत्रचित् | आपत्सु हर्षकलिताः सम्पत्सु समतां गताः || १५ || प्.५१६) सञ्जना विकृतिं नैव गच्छन्ति विशदाऽशयाः | शोकं जित्वा विमर्शेन सन्धैर्येण महाजनाः || १६ || प्रभवन्ति शुभायैव कालमात्रप्रतीक्षकाः | शृणु तेऽत्राऽभिधास्यामि व्यवसायं फलावहम् || १७ || तपसा तोष्य भूतेशं प्राप्तवान् सर्वतोऽभयम् | न योनिजैर्मानसैर्वा मृत्युस्तस्य शिवेरितः || १८ || द्वैविध्यमन्तरा लोके नाऽस्ति कश्चन कुत्रचित् | देवाद्यैः पुरुषैश्चाऽपि नाऽस्य मृत्युरुदीरितः || १९ || अतोऽमरगणैर्युक्तस्त्रिपुरां परमेश्वरीम् | प्रयाहि शरणं नाऽस्ति रक्षकोऽन्यः कथञ्चन || २० || इत्युक्त्वा मारुतं देवं दध्यौ देवगुरुस्तदा | ध्यातमात्रो जगत्प्राणः प्रणम्य समुपस्थितः || २१ || वाचस्पतिस्तमाहाऽथ शृणु मारुत! मे वचः | त्वं सर्वदागतिः सर्वप्राणश्चाऽपि महाबलः || २२ || नय शक्रं हिमगिरेः शिखरं व्योममार्गतः | शीघ्रमन्यान् सुरान् सर्वान् पावकप्रमुखानपि || २३ || ततस्ततो दैत्यगणैरानयाऽलक्षितो भृशम् | तत्र पौरुषयोगेन साध्यं सर्वसमीहितम् || २४ || प्.५१७) ओमित्युक्त्वा निमेषेण देवान् सर्वान् समानयत् | समेता हिमवच्छृङ्गे शक्राद्याः सर्वतोऽमराः || २५ || अथ वायुं प्रेषयित्वा चाऽनिनाय गुणेश्वरान् | निश्चित्य भण्डदैत्यस्य विजयाय समीहितम् || २६ || त्रिपुरां परमेशानीं विना नेह गतिः क्वचित् | एवं विधिमुखा देवास्त्रिपुरां परमेश्वरीम् || २७ || दध्युः सर्वजगद्धात्रीं निगृहीताऽक्षमारुताः | एवं तेषामगाद्ध्याननिष्ठानां वत्सरं शतम् || २८ || अथ देवा मन्त्रयित्वा त्रिपुराप्रीतिहेतवे | महायागेन त्रिपुरामयजन् तन्त्रमार्गतः || २९ || समाप्तेऽथ महायागे मन्त्रद्रव्यसुसम्भृते | यत्र ब्रह्माऽभवद्ब्रह्मा आचार्यो गुरुरेव च || ३० || ऋत्विजः शिवविष्ण्वाद्या यागे तस्मिंस्तदाऽभवन् | प्राप्तेऽन्त्यदिवसे तस्मिंश्चिद्भावप्रविभाविते || ३१ || यागवन्हौ चिदाकारे महाकुण्डसमेधिते | अयजत् पूर्णयाऽहुत्या गुरुर्ध्यायन् पराम्बिकाम् || ३२ || तदा भक्त्या संस्तुवत्सु देवेषु त्रिपुराम्बिका | प्रादुरासित् कुण्डमध्याच्चिदग्नेर्ज्वलतोऽन्तरात् || ३३ || प्.५१८) पूर्णाऽहुत्यां हुतायां वै कुण्डे जज्वाल पावकः | योजनैकसमुच्छ्राया ज्वालाऽत्यन्तं व्यवर्धत || ३४ || तत्राऽभवन्महाशब्दः पर्वतस्येव भिद्यतः | शताऽशनिनिपातात्मा भिन्दंच्छ्रोत्राणि नाकिनाम् || ३५ || ततोऽमराणां चक्षूंषिं मुष्णन् प्रौढेन तेजसा | सकृत् सुदामिनीकोटिसङ्घट्टसदृशच्छविः || ३६ || महाप्रकाश उदभूद्वह्निज्वालाऽन्तरे तदा | महता ध्वनिना तद्वत्तेजसा च बुधास्तदा || ३७ || बधिराऽन्धीकृताः सर्वे मूर्च्छिता आपतन् भुवि | विना गुरुं त्रिमूर्तिभ्यः पतिताः सर्व एव ते || ३८ || तत्तेजोमध्यतः प्रादुरासीच्छ्रीत्रिपुराऽम्बिका | तरुणाऽरुणपुञ्जाऽङ्गसम्प्रदायतनुच्छविः || ३९ || विद्युल्लतेव विद्योतत्तनूद्यत्तनुवल्लरी | विद्युल्लताविकसितापूर्णचन्द्राऽम्बुजाऽनना || ४० || कवरीतिमिरौघोद्यत्सिन्दूराऽरुणसुप्रभा | तारकाजालवद्व्योमकवरीरत्नभूषणा || ४१ || प्.५१९) दीर्घवेणीभोगिवक्त्रनिर्यत्सीमन्तजिह्विका | सिन्दूराऽरुणलोहित्याऽक्षिप्तकेशनभोऽङ्गणा || ४२ || विपर्यस्ताऽर्धचन्द्राऽङ्कफाले राजद्विशेषिका | कुन्तलाऽलिगणाऽकीर्णविकसद्वदनाऽम्बुजा || ४३ || मुखसौन्दर्यसरसीनीलाऽम्बुजनिभेक्षणा | कन्दर्पकोटिजननमन्त्राऽकूतसमीक्षणा || ४४ || क्षीराऽब्धिकोटिलहरीसम्भवाऽपाङ्गसुन्दरा | चाम्पेयकलिकासम्पत्प्रपोषकसुनासिका || ४५ || कुरुविन्दाऽदर्शशोभाप्रोल्लसद्गण्डमण्डला | अपाङ्गसरिदुन्मज्जत्ताटङ्कमणिनीरजा || ४६ || ताटङ्काऽम्बुजसंस्थानमुक्ताऽवलिमरालिका | कर्णभूषाकान्तिचापकटाक्षशरसन्ततिः || ४७ || पक्वदाडिमबीजात्मदन्तलौहित्यदच्छदा | विकसद्रक्तकुमुदाऽन्तरकिञ्जल्कदच्छविः || ४८ || प्रवालदच्छदोदञ्चद्दन्तकुन्दसुकोरका | मन्दहंसक्षीरनिधिप्रवालरदनच्छदा || ४९ || मुखमाणिक्यकमलवृन्ताऽभचिवुकोज्ज्वला | मणिग्रैवेयकाकल्पलसद्गीवाऽब्जसुन्दरा || ५० || पाणिरत्नमृणालोद्यत्पद्मकोशस्तनद्वयी | माणिक्यदेहलतिकास्तनस्तवकशोभिनी || ५१ || प्.५२०) मुखचन्द्रप्रभाभीतिनिलीनकुचकोकिका | मन्दस्मितसरित्पूरखेलत्कुचमरालिका || ५२ || तनुवल्लीशाखिकोद्यत्पाणिपल्लवलोहिता | करप्रवालाऽग्रजपाकोरकाऽङ्गुलिमण्डिता || ५३ || सृणिपाशधनुर्बाणैर्लसद्बाहुचतुष्टया | वलयाऽङ्गदरत्नोर्मिकूर्पासविलसद्भुजा || ५४ || मुखपद्ममृणालाऽभमुक्ताहारलतोज्ज्वला | रोमाऽलितनुनालोद्यत्कुचद्वन्द्वाऽब्जकुड्मला || ५५ || रोमाऽलिवल्लरीमूलनाभिनिम्नाऽलवालिनी | नाभिसरोन्नीतरोमलताशैवालवल्लिका || ५६ || कौसुम्भरत्नवसनसमाच्छन्ननितम्बिनी | ऊर्ध्वाऽङ्गधारणामात्रनिमित्तप्राप्तमध्यमा || ५७ || सूक्ष्माऽभ्राऽभांऽशुकाऽन्तस्थदृश्यतारकभूषणा | माणिक्यकदलीकाण्डपारिभाव्यूरुमण्डला || ५८ || पद्मरागनिषङ्गाऽभजङ्घायुगसुमण्डिता | कमठीपृष्ठविभवसूचनप्रपदाऽन्विता || ५९ || मणिनूपुरसंराजत्किङ्किणीचारुसिञ्जिता | विकसत्पद्मसौभाग्यवदान्यपदपङ्कजा || ६० || प्.५२१) पादाम्बुजप्रविलसन्मणिहंसकमण्डिता | नखचन्द्रसुधास्यन्दहृतसन्नततप्तता || ६१ || मरालीमन्दगमनकुलाऽचार्यपदद्वयी | भक्तवाञ्छावितरणपदमन्दारपल्लवा || ६२ || एवमाविर्भवन्तीं तां दृष्ट्वा ब्रह्मादयस्तदा | दण्डवत् प्रणता भूत्वा जय देवीति तां जगुः || ६३ || तत्र वाचस्पतिर्नत्वा भूयः प्रोत्थाय तां पराम् | पश्यंस्तद्दर्शनोद्भूतहर्षवारिधिसम्प्लुतः || ६४ || उत्तंसितकरद्वन्द्वसम्पुटोद्यत्सरोरुहः | नेत्राऽम्बुजस्रवद्धर्षवारिपूरपरिप्लुतः || ६५ || अस्तौषीदतिसुप्रेमभरगद्गदमन्थरः | रचनाचातुरीमोदैर्मोदयंस्त्रिपुराम्बिकाम् || ६६ || प्.५२२) तव विभवविलासं वर्णितुं मे न शक्तिर्यदिदमपि मयोक्तं तावकी नैव शक्तिः | न हि भवति ततो मे वाक्पतित्वस्य हानिर्यदि भवति तदा स्यात्त्वत्प्रसादस्य हानिः || ६७ || सुरगुरुरहमेवं वच्मि यत्तत्त्वमेव त्वमहमिदमितीयत्सर्वमम्ब त्वमेव | तत इह न हि मे स्तो हानिलाभौ तरङ्गे मधुरकटुरसौ वा क्षीरसिन्धोरिवाऽन्यौ || ६८ || यदिह विविधभेदं प्रेक्षते मूढदृष्टिर्मुकुरतलविराजच्चित्रवद्भासमानम् | यदिदमिह पुरस्ताद्दर्शितं दिव्यरूपं तदपि च कृपया नः पूर्ववन्माययैव || ६९ || विबुधसमुदयानां स्वं वरं मन्यमानो जननि तव विलासैर्मोहितो मूढबुधिः | तब निरवधिशक्तिं वर्णितुं दृश्यभेदं विहततर्कैस्तैर्थिकस्त्वामजानन् || ७० || विविधवचनजालैरस्ति नास्तीति पक्षैर्विवदनपरमाणां याति कालो वृथैव | प्.५२३) क्षणमपि जगदम्ब त्वत्कलां चिन्मयीं ये निजहृदि विमृशन्तः संस्थितास्ते हि धन्याः || ७१ || विगतविषयतृष्णावासने स्वाऽन्तरङ्गे विमलमुकुरतुल्ये निश्चले स्वात्मनैव | तव जननि कलां तां योगिनः प्रेक्षमाणाः परमसुखपदस्थास्ते हि धन्या जयन्ति || ७२ || इति चिरतरकालं त्वत्स्वरूपं विमृश्याऽन्तरभुवि दृढभावाः स्युर्निसर्गस्वभावाः | तदनु बहिरशेषं त्वत्स्वरूपं मृशन्तः त्वयि परमविलासास्ते हि योगीन्द्रपूज्याः || ७३ || अहमपि ललिते त्वत्पादपद्मस्य कञ्चित् परिचयमभिगम्याऽन्तः सदा सर्वतोऽपि | वचनविरचनानां चिन्तनानामपि त्वामणु किमपि विना नाऽवैमि तत्त्वां नतोऽस्मि || ७४ || इति स्तुत्वाऽमरगुरुः प्रणतो दण्डवद्भुवि | गुणभूता विधिमुखा अपि तुष्टुवुरम्बिकाम् || ७५ || जय जय जननि जगल्लयपालनसर्जनविभवे समाचितिरूपे | सर्वाऽभासनतनुरपि वितता संविदनुत्तरमात्रशरीरा || ७६ || प्.५२४) नैपुण्यमेतद्द्र्पणसदृशं भाहनिरोपेऽप्यतिचित्रं ते | विजयत्येतत्तव दुर्घटनाघटनाशक्तिर्महती सत्ता || ७७ || स्वं रूपं तद्विततमपीश्वरि दुर्घटशक्त्या परिमितरूपम् | कृत्वा दर्शनदृश्यविभेदान् विधिधान् सर्वान् परिभासयसि || ७८ || एवं स्वीयं रूपमनेकं परिमितरूपा पश्यन्ती त्वम् | बन्ध्कं चित्परिमृष्याऽन्तर्यत्नाद्भूयो भासि यथावत् || ७९ || स्वात्माऽदर्शे प्रविततलीलां भावयसीत्थं स्वातन्त्र्यात्त्वम् | दृष्ट्वा कल्पितमेतत्स्वीयं नन्दस्यनिशं देवि ! नमस्ते || ८० || सन्ततलीलामिति यः कश्चन शक्त्या भिन्नस्तव जानीयात् | स च लोकानां त्वमिव महेश्वरि ! लीलाद्रष्टा नन्दति देवः || ८१ || गूढं रूपं तव सविलासं द्रष्टुं शक्ता न हि ये दीनाः | तेषामेतत्परमं रूपं प्रकटितमक्ष्णोः फलसंजननम् || ८२ || प्.५२५) कुङ्कुमशोणं गुरुकुचनम्रं चन्द्रकलाढ्यं सुलिलतरूपम् | सृणिशरचापान् पाशं बिभ्रद्वयमिह भूयः प्रणमामस्तत् || ८३ || स्तुत्वैवमपि ब्रह्माद्याः प्रणेमुः पादसन्निधौ | अथ तान् प्राह परमा वत्सा उत्तिष्ठत द्रुतम् || ८४ || एषाऽहं कृतसन्नाहा प्राप्ता शत्रुवधाय वः | किं वोऽभिलषितं भूयः प्रतीच्छध्वं गुणेश्वराः || ८५ || त्वमप्याङ्गिरस ब्रूहि वाञ्छितं किं ददामि ते | निशम्यैवं वचो देव्याः प्रोचुर्ब्रह्मादयस्तत. || ८६ || इति श्रीमदितिहासोत्तमे त्रिपुरारहस्ये माहात्म्यखण्डे ललितामाहात्म्ये भगवतीललिताऽविर्भाववर्णनं नामैकपञ्चाशत्तमोऽध्यायः || ४२३३ || प्.५२६) द्विपञ्चाशत्तमोऽध्यायः देवेभ्यः समाश्वस्तेभ्यो वृहस्पत्यनुरोधेन देव्या स्वरूपदर्शनार्थं श्रीसुक्तजपविधानवर्णनपुरःसरं मन्त्रिभिः सह मन्त्रणमनुभण्डद्वारा देवगणत्रासाय ससज्जीभवनं त्रिपुराविर्भाववर्णनम् शृणु कुम्भोद्भव ! मुने ! ब्रह्मादिनां वचस्ततः | प्राहुर्ब्रह्ममुखा देवीं भक्तिनम्रसुमूर्तयः || १ || भूय एवं महापत्सु जगतां रक्षणोद्यता | विधेयममराऽरीणां शत्रूणां प्रविहिंसनम् || २ || मातः ! शृणु कथं भण्डदैत्यो भूयस्त्वया हतः | नूनं त्रिलोचनेनाऽसौ सर्वतोऽमरतां गतः || ३ || कथं वाऽमरकार्यं स्यात् कथं चाऽसुरघातनम् | श्रुत्वैवं धातृमुख्यानां वचः सा प्राह शङ्करी || ४ || मा कृथाः पद्मयोने त्वं शङ्कामत्राऽसुराऽहतौ | माऽहं योनिसमुद्भूता मनसा वाऽपि कस्यचित् || ५ || अग्निकुण्डसमुद्भूता स्त्रीस्वरूपाऽस्म्यलौकिकी | अप्रसिद्धेन चाऽस्त्रेण निहन्म्येनं महासुरम् || ६ || शुत्वैवं ललितावाक्यं जहुश्चिन्तां गुणेश्वराः | अथोवाचाऽमरगुरुः पराशक्तिं कृताञ्जलिः || ७ || देवि ! त्वां सर्वजननीमेवंरूपां महेश्वरीम् | पश्यन्तु शक्रप्रमुखा भूयासुस्तेन पाविताः || ८ || प्.५२७) निशाम्याऽङ्गिरसवचः प्राह सा त्रिपुरेश्वरी | शृणु जीवशक्रमुखा नैवं शक्तिमयीं तनुम् || ९ || ममैते द्रष्टुमप्यर्हा नाऽन्यैर्दृष्टमिदं वपुः | न हि साधारणः कश्चिदेवंरूपां प्रपश्यति || १० || यूयं मेऽस्यास्तनोर्भक्ताश्चैतद्ध्यानपराः सदा | अतो वो दर्शितं चैतन्नान्यैर्दृष्टं कदाचन || ११ || रूपान्तरं परिमितं तत् प्रपश्यतु वज्रभृत् | अथ भूयोऽपि बहुधा प्रार्थयामास तां गुरुः || १२ || प्रदर्शयैतच्छक्राय चेति सा गुरुमब्रवीत् | यदि मामीदृशीं शक्रः पश्येत्तच्छृणु वच्मि ते || १३ || मां समाराधयतु स श्रीसूक्तविधिना ततः | दर्शयिष्यामि तस्मै स्वमिदं रूपं न संशयः || १४ || इत्युक्त्वा मूर्च्छितान् देवान् सुधादृष्ट्या प्रबोध्य सा | अन्तर्धानं ययौ तत्र ब्रह्मादीनां प्रपश्यताम् || १५ || अथोत्थिताः शक्रमुखा देवाः सर्वे बृहस्पतेः | श्रुत्वा श्रीत्रिपुरादेव्या आविर्भावं ततो वृषा || १६ || देवैः समेतो गुरुणा विज्ञातोपासनक्रमः | लक्ष्मीसूक्तविधानेन भक्तिश्रधाऽतिनिर्भरः || १७ || आराधयामास परां त्रिपुरां परमेश्वरीम् | एवं तस्याऽराधयतो मासाः षट् पञ्च चाऽत्ययुः || १८ || प्.५२८) तदन्तरे दैत्यगुरुर्ज्ञात्वाऽमरविचेष्टितम् | भण्डासुराय तद्वृत्तं ज्ञापयामास सर्वशः || १९ || शृणु दैत्यपते शत्रुः सुरेशो हिमवद्गिरौ | साम्प्रतं परमां शक्तिमुपतिष्ठति भक्तितः || २० || सा प्रसन्ना क्षणेनैव त्वां सपुत्रं सबान्धावम् | ध्वंसयिष्यति दावाग्निस्तृणदारुचयं यथा || २१ || यतस्व तावदेव त्वं यावन्नाशं न यास्यसि | नाऽत्रोपास्यो दृश्यतेऽन्यः साम्नो बलवदाश्रिते || २२ || दिवं भुवं समर्प्याऽशु सधनं सपरिच्छदम् | इन्द्राय पातालमात्रराज्यस्तां जगदीश्वरीम् || २३ || प्रयाहि शरणं देवीमन्यथा नाशमेष्यसि | इत्युक्त्वा पूजितस्तेन जगामाऽभिमतां गतिम् || २४ || अथ भण्डासुरो दैत्यो मन्त्रिभिर्मन्त्रशिक्षणैः | मन्त्रयामास दैत्योऽसौ सेवितः शून्यके पुरे || २५ || राज्ञाऽज्ञप्ता मन्त्रिणस्ते प्रोचुः स्वस्वमताऽनुगम् | कश्चित् साम भेदमन्यः परोदानमुवाचह || २६ || दण्डमाहुस्तथा केचिदेवं व्याकुलिता सभा | तदन्तरे विशुक्रस्य पुत्रः शुक्रसमो मतः || २७ || प्.५२९) श्रुतवर्मेति विख्यातः प्राह नत्वा सुरेश्वरम् | शृणु राजन्नर्थशास्त्रमर्यादासहितं वचः || २८ || बाह्यदृष्टिर्दोषवती निसर्गेणैव चञ्चला | दृष्ट्या बुद्ध्याख्यया सत्त्वरूपया विमृशेत् कृतिम् || २९ || अविमृश्यकरो वह्नौ पतङ्ग इव नश्यति | सुविमृश्यकरो यस्तु तं सम्पत् प्रवृणोत्यलम् || ३० || मन्त्री वृठाऽभिनिवेशः स्फुटदृष्टिर्द्रतग्रहः | राजाऽहिमतवक्ता च सततं स्वार्थतत्परः || ३१ || नाशयेद्राज्यसहितं राजानं नाऽत्र संशयः | यथा नौरासनच्छिद्रा सपान्थं नाविकं जले || ३२ || तस्माद्दुर्मन्त्रिणस्त्याज्या राज्ञा राज्यं बुभूषता | शृण्वहं तेऽभिधास्यामि कर्तव्याऽनन्तरक्रियाम् || ३३ || महाराज ! त्वया देवात्तपसा तोषितात् पुरा | अप्राप्तमभयं स्त्रीभ्यो मत्वाऽल्पमिति ते मुधा || ३४ || तदत्र न हि विस्रम्भः पुरा महिषदानवः | राज्यं त्रिभुवने प्राप्य स्त्रिया विनिहतो बली || ३५ || पुरा शुम्भनिशुम्भौ च बलिनावतिविक्रमौ | हतौ युद्धे चण्डिकया सबलाविति नः श्रुतम् || ३६ || प्.५३०) जये लिङ्गं न हेतुः स्यान्निमित्तंबुद्धिविक्रमौ | अन्यच्च तेऽभिधास्यामि चिरमेतद्धि संस्थितम् || ३७ || दैत्यदानवरक्षःसु यो यः शुभतरो ह्यभूत् | तं तमुद्धरते विष्णुर्मार्गस्थमिव कण्टकम् || ३८ || तं नः श्रुतं तेन दैत्यरिपुणा हरिणा खलु | तोषिता परमाशक्तिराविर्भूता वधाय ते || ३९ || होमाऽग्निकुण्डाद्यद्योनिमनोभ्यां न च साऽभवत् | अमानसा योनिजेभ्यो नाऽमरत्वं त्वया वृतम् || ४० || आचार्यो भगवान् शुक्रः सर्वबुधिमतां वरः | स यदाह न चाऽल्पं तद्विधि दैत्यगणेश्वर ! || ४१ || तस्माद्गुरूक्तमेवेह युक्तं मे प्रतिभासते | मनीषिणा सर्वयत्नैर्निरस्यं कालजं भयम् || ४२ || अभये विक्रमो वर्यः शान्तिरेव भयाऽगमे | सर्वथा मूलनाशो हि शक्त्याऽपोह्यः प्रजानता || ४३ || कृत्ते मूले फलाशा का मूलगोपे फलोदयः | अत्र मेऽभिमतं राजन् शृणु बुद्ध्या विचारितम् || ४४ || प्.५३१) गुरूक्तरीत्या संशान्तिं सम्पाद्य प्रकृते पुनः | तपसा पूर्ववद्देवान् शेषं भयमपोह्य च || ४५ || ततो भूयस्त्रिजगतीं वशे कुरु सुविक्रमः | इति तेऽभिहितो मन्त्रो नाऽतः क्षेमं भवेत् क्वचित् || ४६ || विमृश्य यदभीष्टं ते तदाचर न ते चिरम् | श्रुतवर्मवचः श्रुत्वा भण्डो दैत्यपतिर्वचः || ४७ || प्राह तं दूषयन्नेव पक्षं दैत्यसभागतः | मर्तुकामस्याऽगदवन्न तत्तस्य ह्यरोचत || ४८ || तदन्तरे मदोन्मत्तो दैत्यः प्रोवाच भूपतिम् | दैत्येश्वर मया प्रोक्तं शृण्वत्राऽतिसुखावहम् || ४९ || न प्रवेश्या मन्त्रगोष्ठ्यां बालाः कातरतां गताः | एष बालस्तव भुजबलं नो वेत्ति किञ्चन || ५० || भीरोर्विप्रस्योशनसो वाक्यादतितरामयम् | राज्ञां युद्धप्रसङ्गेषु का विप्रस्य भवेन्मतिः || ५१ || बिप्रा वैतानधिषणा वेदविद्याविचक्षणाः | निमन्त्रणविधानज्ञास्तेषां युद्धेषु का गतिः || ५२ || स्वधीतेस्तीक्ष्णधाराज्ञाः शूराः कुशसमित्स्तृतौ | न खड्गधारां जानन्ति न शूराः शरसंस्तृतौ || ५३ || प्.५३२) हन्त विप्रैरपि यदि युद्धं मन्त्रेण जीयते | ग्रामसिंहबिभीषितैस्तदेभा मूत्रमुत्सृजुः || ५४ || यदि विप्रा युद्धकृत्यमपि जानीयुरुद्धतम् | तर्हि मत्तेभकुम्भस्य विपाटो जम्बुकैः कृतः || ५५ || उत्तिष्ठैष क्षणो राजन्न विश्रान्तिं समर्हति | योषिद्वा पुरुषो वापि नोपेक्ष्यः शत्रुतां गतः || ५६ || हन्ताऽद्य योषिद्दैत्येन्द्र मेरून्मूलनविक्रमम् | विजेष्यति प्रतापाऽर्कसन्तापितजगत्त्रयम् || ५७ || तदा नीलोत्पलदलैर्निर्भिद्येत महीधरः | कुशाग्रैरपि विद्धः स्याल्लोहशैलो निरन्तरः || ५८ || अथ वा त्वमिहैवाऽस्व कामभोगपरः सुखम् | मामाऽज्ञापय ते भृत्यं गत्वाऽहं तान्निमेषतः || ५९ || ब्रह्मादींस्तां च बद्ध्वा वा हत्वा वोपहरामि ते | श्रुत्वैवं दैत्यवचनं प्रहृष्टो भण्डदानवः || ६० || प्रहस्य श्रुतवर्माणं प्राह कालवशं गतः | वत्स ! किं युद्धवार्ताभिरेव भीतोऽसि वै मुधा || ६१ || प्.५३३) नैवमस्मत्कुले कश्चिज्जातो वा भविताऽपि वा | यः स्त्रियो युद्धवार्ताभिरेव भीतो नपुंसकः || ६२ || बालोऽसि गच्छ कान्ताभिश्चाटुभाषणमर्हसि | धिङ्मां यस्त्वादृशं चक्रे मन्त्रिणं मन्त्रनाशकम् || ६३ || धीराणामपि धैर्याऽद्रिवज्रवाक्कौशलं खलम् | इत्युक्त्वा प्रोत्थितः खड्गहस्तो देवान् विहिंसितुम् || ६४ || कोटिकोट्यसुरैर्युक्तः शूरैश्चित्राऽयुधैर्ययौ | यत्र शक्रमुखा देवास्त्रिपुरां समुपस्थिताः || ६५ || आगतं भण्डदैत्येशं श्रुत्वा शक्रमुखाः सुराः | अत्यन्तभीता देवेशीमुच्चः पाहीति संजगुः || ६६ || भीतान् विदित्वा त्रिपुरा प्राह नित्यां चतुर्दशीम् | गच्छ ज्वालामालिनि त्वं रक्ष भीतान् सुरान् द्रुतम् || ६७ || आज्ञप्तैवं यतो दैत्या आयान्त्यमरहिंसकाः | ज्वालया तान् रुरोधोच्चैर्ज्वालामालिनिका शिवा || ६८ || प्.५३४) दृष्ट्वा ज्वालावृतं देशं मत्वा दावाग्निसम्प्लुतान् | हतान् देवान् प्रहर्षेण भण्डदैत्यः पुनर्ययौ || ६९ || देवाश्च दैत्यसेनानां श्रुत्वा कोलाहलं भृशम् | वित्रस्ता मर्तुकामास्ते छित्त्वाऽङ्गानि समन्ततः || ७० || अग्निकुण्डे देवतायाः प्रीतये जुहवुः पृथक् | अशेषाऽङ्गानि हुत्वैवं पूर्णाहुतितया तनुम् || ७१ || विशिष्टां होतुकामास्ते पेठुर्मन्त्रानुपांशुतः | तदन्तरे सा त्रिपुरा भक्तरक्षापरायणा || ७२ || कुण्डमध्यादाविरासीत्तडित्कोटिसमप्रभा | जातश्चटचटाशब्दः कुण्डमध्यान्महोन्नतः || ७३ || ज्वाला व्यवर्धताऽतीव वह्नेस्ते ददृशुः सुराः | ज्वालामध्ये महादेवीं सर्वसौन्दर्यसन्ततिम् || ७४ || हृष्टा जय जयेत्युच्चैरवोचुर्दण्डवन्नताः | अथोत्थाय शक्रमुखास्तुष्टुवुस्तां महेश्वरीम् || ७५ || आजग्मुर्ब्रह्मविष्ण्वाद्या मुनयश्चर्षयस्तथा | पुष्पवृष्टिरभूद्व्योम्नो नेदुर्दुन्दुभयोऽपि च || ७६ || ववुर्वाताः सुखस्पर्शाः सुगन्धा मृदुसञ्चराः | ब्रह्माद्याः सर्वतस्तस्याः पूजां चक्रुर्यथाविधि || ७७ || प्.५३५) महोपचारमाल्याद्यैरुपहारैर्विशेषतः | विविधैर्भक्ष्यभोज्याद्यैरासवैः पिशितैरपि || ७८ || एवं सम्पूज्य देवेशीं तोषयामासुरुच्चकैः | गायनैर्नृत्यवाद्यार्द्यैरुत्सवैरपि भूरिशः || ७९ || इति श्रीमदितिहासोत्तमे त्रिपुरारहस्ये माहात्म्यखण्डे ललितोपाख्याने देवानामार्त्तप्रार्थनया त्रिपुराविर्भाववर्णनं नाम द्विपञ्चाशत्तमोऽध्यायः || ४३१२ || प्.५३६) त्रिपञ्चाशत्तमोऽध्यायः ललितामाहात्म्ये यागेन तुष्टायाः श्रीदेव्याःसर्वदेवदर्शनार्थं श्रीमेरुपर्वते स्वाधिष्ठानस्थापनवर्णनम् अथ शक्रमुखा देवा दृष्ट्वा तां परमेश्वरीम् | विधातृमुख्यानूचुस्ते देव्याः संस्थानहेतवे || १ || श्रुत्वाऽमरवचो ब्रह्ममुखास्तां जगदीश्वरीम् | प्रणम्य प्रार्थयामासुर्यत्तच्छृणु घटोद्भव ! || २ || परमेश्वरि ! शक्राद्यैस्तव संस्थानमीहितम् | अस्यां जगत्यां यन्नित्यं पश्यामस्त्वां महेश्वरीम् || ३ || वयं गुणेश्वरा नित्यं त्वत्कृपाऽत्तमहित्वतः | प्राप्य त्वदीयं ते लोकं पश्यामस्त्वत्पदाम्बुजम् || ४ || एते शक्रादयो देवा नियत्या नियतास्तव | ब्रह्माण्डभेदं नाऽर्हन्ति तत्त्वां द्रष्टुमभीप्सवः || ५ || तदत्र लोकं निर्माय निवासं कर्तुमर्हसि | प्रार्थितेत्थं ब्रह्ममुखैस्त्रिपुराम्बा महेश्वरी || ६ || मेरुशृङ्गे विश्वकर्मनिर्मिते नगरे शुभे | अवसत् सपरीवारा यथा लोके स्वके तथा || ७ || प्.५३७) अथाऽर्थिता निजाऽर्धांशशविभागपरिकल्पितम् | कामेश्वरं पतिं चक्रे समूढाऽभवदम्बिका || ८ || इत्थं हयाऽस्यगदितं निशम्य घटसम्भवः | पप्रच्छ विभवश्रुत्यां परायां जातकौतुकः || ९ || हयग्रीव ! दयासिन्धो ! कुत्र संस्थं हि तत्पुरम् | कीदृशं किं प्रमाणञ्च यस्मिन् वसति सा परा || १० || इन्द्रादीनामप्रवेश्यं विश्वशिल्पिः कथं नु तम् | ज्ञातवान्नाम किं तस्य संस्थानञ्चाऽपि कीदृशम् || ११ || अथाऽपि शक्रप्रमुखैः श्रीसूक्तविधिना ननु | आराधिता सा त्रिपुरा प्रसन्नाऽभवदम्बिका || १२ || विधानं कीदृशं तस्य सूक्तञ्चाऽपि कथंविधम् | किं माहात्म्यं भवेत् सूक्तमेतन्मे वक्तुमर्हसि || १३ || भक्तस्य तव शिष्यस्य कृपां कुरु हयानन ! | इत्थं पर्यनुयुक्तः स हयास्यो मुनिसत्तमः || १४ || मत्वा योग्यं हि तछ्रुत्वा निजगाद स हर्षितः | शृणु कुम्भज वक्ष्यामि भक्तिश्रधायुतो ह्यसि || १५ || नैतदश्रद्दधानाय चाऽभक्ताय शठाय च | वक्तुमर्हं सर्वथैव धन्योऽसि त्वं महीतले || १६ || प्.५३८) यत्कथाश्रवणोत्साह ईदृशस्तव दृश्यते | एतस्य कारणं वेद्मि नैतदल्पफलं मुने ! || १७ || गुणमूर्तिषु सर्वेषां भक्तिः साधारणी भवेत् | त्रिपुरापादभक्तिस्तु दुर्लभा सर्वतो भवेत् || १८ || यत्र स्यात् त्रिपुराभक्तिस्तञ्जन्म चरमं भवेत् | शिवविष्ण्वादिभक्तिस्तु द्वाअरमत्र प्रकीर्तितम् || १९ || क्रमेणाऽराध्य विष्ण्वादीन् प्राप्य श्रीपादसेवनम् | मुच्यते सर्वथा जन्तुर्नान्यथा कल्पकोटिभिः || २० || अत्रोपपत्तिं वक्ष्यामि संशयस्ते भवेन्न हि | लोके साम्राज्ययुक्तस्य येऽनुगास्तारतम्यतः || २१ || मुख्या मध्यास्तथा हीनास्ते तुष्टाः स्वपदं प्रति | अनिरोधं स्वोपरिस्थप्राप्तौ मार्गं दिशन्ति च || २२ || यथाऽदौ द्वारिकस्तुष्टो द्वारेष्वप्रतिबन्धनम् | प्राङ्गणेशप्राप्तिमाप दिशत्येव घटोद्भव ! || २३ || ब्रह्माद्या गुणसम्भूतास्तत्समाराधका इति | न सन्देहस्तव भवेत् सुप्रसिद्धतयैव च || २४ || प्.५३९) वस्त्वद्वैतेऽपि लौकिक्या दृष्ट्या तन्नियतेः स्फुटम् | मुख्यगौणप्रभेदश्च यथा देहेषु वै शिरः || २५ || नाऽत्राऽश्वासो दुष्कृतिनामन्धानाञ्च प्रपश्यताम् | ये च पादभवा देवाः सदा सेवनतत्पराः || २६ || त्वं महाभाग्यवान् ब्रह्मन् प्राप्तो यच्छ्रीपरारतिम् | एतत् सङ्गस्य माहात्म्यमहो भाग्यमहो तपः || २७ || शृणु ब्रह्मंस्तव परापादभक्तिप्रयोजकम् | यत्ते प्रिया सती लोपामुद्राऽख्या राजकन्यका || २८ || पुरा सा पितृगेहस्था प्राप भक्तिं परापदे | तद्धेतुं ते प्रवक्ष्यामि न तज्जानाति कश्चन || २९ || त्रिपुरामुख्यशक्तिस्तु भगमालिनिकाऽभिधा | तत्सेवनपरो राजा सर्वदा सर्वभावतः || ३० || बाल्यादियं शुद्धचित्ता पितृसेवापरायणा | पितुर्दृष्ट्वोपासनायाः क्रमं देव्या यथाक्रमम् || ३१ || राज्यकर्म करे तस्मिंस्तां समाराधयत्यसौ | एवं चिराऽराधनेन भक्त्या भावनयाऽपि च || ३२ || तुतोष सा भगवती वरेण समच्छन्दयत् | वव्रे चाऽसौ सर्वजगत्पूज्यायाः पादसेवनम् || ३३ || प्.५४०) प्रसन्ना साऽपि सद्विद्यां त्रैपुरीं समलक्षयत् | लक्षिता चाऽपि तां विद्यां वाक्समुद्रपरिप्लुताम् || ३४ || समुद्धरद्रत्नमिव ततस्तस्य प्रसादनात् | विद्या ऋषित्वं सम्प्राप्ता तन्नाम्ना सा स्फुटङ्गता || ३५ || तस्याः सङ्गप्रभावेण तव भक्तिसमुद्गमः | इति श्रुत्वा कुम्भभवः पत्न्या विभवविस्तरम् || ३६ || प्रसन्नः पूजयामास पत्नीं श्रीपादतत्पराम् | अथाऽवदद्धयास्योऽपि प्रसन्नः कुम्भजन्मने || ३७ || शृणु ते सम्प्रवक्ष्यामि कलशीसुत ! संयतः | श्रीसूक्तस्य विधानं यत्पृष्टं परमपावनम् || ३८ || न वक्तव्यमभक्ताय नाऽन्यदेवपराय च | विद्येवैतद्गोपितव्यं सर्वत्राऽतिसुगोपितम् || ३९ || श्रीसूक्तं षोडशर्चं तदादि वेदसमुद्भवम् | पुरा श्रिया सुदृष्टं तद्वेदाऽब्धेः सम्यगुद्धृतम् || ४० || तेनाऽराध्य परां शक्तिं त्रिपुरां सुविधानतः | सम्प्राप्ता लोकमातृत्वं सर्वपूज्यत्वमागता || ४१ || आराधिता वत्सराणामर्बुदान्येकविंशतिः | प्रसन्ना छन्दयामास वरेण त्रिपुरा परा || ४२ || प्.५४१) तया वृतञ्च सायुज्यं ततः प्राह पराम्बिका | वत्से ! त्वया विना विष्णुरप्रभुः परिपालने || ४३ || अपालितं तेन चैतद्विशीर्येत निमेषतः | ततो मे नियतेर्भङ्ग एव नाऽर्हसि सम्प्रति || ४४ || तत् साम्प्रतं दिशाम्येवं त्वदाख्यां सर्वदाऽप्यहम् | धारयामि स्वरूपञ्च तत्ते वक्ष्यामि श्रूयताम् || ४५ || श्रीविद्येत्यहमाख्याता श्रीपुरं मे पुरं भवेत् | श्रीचक्रं मे भवेच्चक्रं श्रीक्रमः स्यान्मम क्रमः || ४६ || श्रीसूक्तमेतद्भूयान्मे विद्या श्रीषोडशी भवेत् | महालक्ष्मीत्यहं ख्याता त्वत्तादात्म्येन संस्थिता || ४७ || त्वं चतुर्धा मत्समीपे पूजां प्राप्स्यसि संस्थिता | यद्यत्तव प्रियं लोके तन्ममाऽपि प्रियं भवेत् || ४८ || पूज्यसे भार्गवे वारे भक्तैस्त्वं सुविधानतः | तत्राऽहमपि पूज्या स्यां भक्तैरपि विशेषतः || ४९ || तत्र सूक्तभवैर्मन्त्रैः पूजिता ह्युपचारकैः | हुताऽपि विविधैर्द्रव्यैः प्रसन्ना वाञ्छिताऽर्थदा || ५० || अभिषिक्ता च सलिलैर्दुग्धाद्यैः फलजैरसैः | सर्वकामप्रदा यन्त्रे मूर्त्यादिकेऽपि वा || ५१ || प्.५४२) नित्ये नैमित्तिके काम्ये पूजनेऽन्यत्र चाऽपि मे | लक्ष्मीसूक्तं षोडशर्चं देव्याः स्नानविधौ पठेत् || ५२ || सकृदावर्तनाल्लक्ष्मीः सदा तस्य गृहे वसेत् | पूजाऽशक्तौ केवलं वा सूक्तन्ते यः पठेत् सदा || ५३ || तस्याऽखिलं कृतं पूर्णं भवेत्तुष्टा भवाम्यहम् | विद्याऽपि त्वत्समायोगाद्भविष्यति मम प्रिया || ५४ || अहं विद्यात्मिका यत्तद्बीजं ते सर्वशोभनम् | पूर्णा तेन समादिष्टा महाश्रीषोडशाक्षरी || ५५ || उपचारेषु पूजाया मन्त्रान् सूक्तभवान् पठेत् | सा पूजा स्यान्महापूजा प्रसन्नाऽहं ततो द्रुतम् || ५६ || सूक्तेऽर्थरूपा गुप्ताऽहं मद्बीजञ्चाऽपि गोपितम् | पूर्णरूपा प्रार्थिताऽहं ऋषिभिः पावकात् पितुः || ५७ || नाऽन्यत् प्रियतरं लोके त्वत्सूक्ताद्भवति क्वचित् | त्वमहं देव्यहं त्वञ्च नावयोरन्तरं भवेत् || ५८ || ईक्षते योऽन्तरं तस्य भवेयुः परमापदः | इति दत्त्वा वरं तस्यै रमायै त्रिपुरा परा || ५९ || जगाम व्योमतां सद्यः प्रोक्तमेतद्घटोद्भव | श्रीसूक्तस्य महित्वं तेनैतद्ब्रूयाः कथञ्चन ||६० || अभक्तेषु शठेष्वन्तःश्रद्धाविरहितेषु च | अथ वक्ष्ये श्रीपुरस्य वृत्तं लोकोत्तरं शृणु || ६१ || यस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते | यदा सा परमा देवी प्रार्थिता विधिमुख्यकैः || ६२ || शक्रादीनां दर्शनार्थं स्थितिं कुर्विति कुम्भज ! | अङ्गीचकार संस्थानं लीलाविग्रहधारिणी || ६३ || ततस्त्वष्टारमाहूय मेरुशृङ्गे महोन्नते | आज्ञापयद्विधिर्देव्याः श्रीपुरस्य विनिर्मितौ || ६४ || विश्वकर्मा तथाऽज्ञतः प्रणम्य प्रपितामहम् | भगवन्न मया ज्ञातं तत्पुरं कुत्र संस्थितम् || ६५ || किं प्रमाणं किमाकारं किम्मां किंविधं स्थितम् | एतन्मे शंस भगवन् विधास्येऽहं निशम्य तत् || ६६ || अथ प्राह जगत्स्त्रष्टा शृणु विश्वकृते ब्रुवे | श्रीपुरस्य प्रमाणञ्च संस्थानं प्रकृतिं तथा || ६७ || रूपञ्चाऽपि स्फुटतरं सावधानमनाः शृणु | यद्च्छ्रुत्वा त्रिपुरापादभक्तिमासादयेच्छुभाम् || ६८ || कनकाद्रिः सुमेर्वाख्यो जगच्चित्रकलेवरः | तस्य मध्ये महाशृङ्गो यश्चतुऽशतयोजनः || ६९ || प्.५४४) तत्र श्रीत्रिपुरादेव्याः पुरं कुरु जगत्कृते | श्रुत्वा मया यथाप्रोक्तं कर्त्व्यं सुविधानतः || ७० || मनोहरं चारुतरं वप्रभेदसुशोभितम् | यथा जगत्प्रतिऋतिस्तन्मे निगदतः शृणु || ७१ || इति श्रीमदितिहासोत्तमे त्रिपुरारहस्ये माहात्म्यखण्डे हयग्रीवागस्त्यसम्वादे श्रीसूक्तविधानपुरःसरं श्रीचक्रसंस्थानविधिवरणनं नाम त्रिपञ्चाशत्तमोऽध्यायः || ४३८३ || प्.५४५) चतुःपञ्चाशत्तमोऽध्यायः श्रीपुरवर्णनम् अनेककोटिसङ्ख्यानां बहिःस्थितः | ऊर्ध्वतोऽनन्तसङ्ख्याकः सुधासिन्धुर्जगत्कुते || १ || सुमेरुसदृशोन्नभ्रनृत्यद्वीचितरङ्गकः | तस्य मध्ये मनिद्वीपः प्रभाक्षिप्ततमस्ततिः || २ || योजनानां कोटिशतैर्विस्तृतोऽतिमनोहरः | कल्पद्रुमवनैश्चित्रैश्चित्रिता परितः स्थली || ३ || तत्र स्थितं पुरं तस्याः सर्वरत्नसमुज्ज्वलम् | योजनानां चतुर्लक्षैर्दीर्घायमसुविस्तृतम् || ४ || तावन्मितस्तस्य सालो लोहसारमयस्थितः | चतुरस्रः सर्वभद्रः समुज्ज्वलितदिक्तटः || ५ || चतुःसहस्रमुन्नम्रो योजनानां सवप्रकः | चतुर्धार्युतो बाह्ये परिखेण विराजितः || ६ || तदन्तः सप्तसाहस्रयोजनाऽन्तरितः स्थितः | प्राकारः कांस्यरचितः प्रोक्तमानोऽतिभासुरः || ७ || तदन्तरे कल्पवृक्षवाटीगणशताऽकुले | दशयोजनविस्तीर्णवापीशतविराजिते || ८ || शतयोजनविस्तीर्णप्रफुल्लकमलाऽकरैः | दिक्ष्वष्टसु युतेस्वर्वायस्मयार्धबहिर्भुवि (???) || ९ || कांस्यकॢप्ताऽन्तरभुवि नानापक्षिमृगैर्युते | कमलाऽकराऽन्तर्भुवि कॢप्तकांस्यगृहाष्टके || १० || अनेकचित्ररचिते पञ्चाऽवरणराजिते | ऽऽशतयोजनविस्तारसमुन्नम्रे सुशोभिते || ११ || महासने महाकालः कालीसंश्लिष्टविग्रहः | त्रिपुराम्बापादसेवाप्राप्तसौभाग्यनिर्भरः || १२ || आत्मानमष्टधा कृत्वा स्थितो गेहाष्टके पृथक् | असंख्यपरिवारैघैः सेवितः सततंस्थितः || १३ || अन्तःकांस्यमयाद्वप्रात् प्रोक्तयोजनदूरतः | प्राकारस्ताम्ररचितस्तरुणाऽरुणसम्प्रभः || १४ || प्रोक्तमानद्वारवापापद्मिनीगृहमध्यभूः | बहिरन्तः कांस्यताम्रमयस्थलयुताऽन्तरः || १५ || तदन्तरं प्रोक्तवत्तु कल्पवृक्षवनैर्युतम् | गृहेषु राजते तेषु वसन्तर्तुः सुपेशलः || १६ || मधुमाधवशक्तिभ्यां सेवमानः पराम्बिकाम् | संयुतः स्वपरीवारैः समेधते निजश्रिया || १७ || प्. ५४७) सालमानं द्वारमपि वापिकाः पद्मिनीभुवः | प्रोक्तरीत्यैव विज्ञेया विशेषः प्रोच्यते क्रमात् || १८ || अथ सीसमयः सालः सन्तानवनमण्डितः | ग्रीष्मर्तुः संस्थितः शुक्रशुचिशक्तिपरीवृतः || १९ || आरकूटमयो वप्रो हरिचन्दनवाटिकः | नभोनभस्यशक्तिभ्यां वर्षर्तुस्तत्र शोभते || २० || पञ्चलोहमयः सालो मन्दारवनमण्डितः | शरदृतुरिषोर्जा (?) भ्यां शक्तिभ्यां तत्र राजते || २१ || ततो राजतसालो वै पारिजातवनाऽवृतः | सहस्सहस्यशक्तिभ्यां हिमन्तस्तत्र राजते || २२ || तपनीयमयस्सालो बालसूर्यशतप्रभः | कदम्बविपिनं तत्र हालाऽमोदसुमेदुरम् || २३ || भृङ्गसङ्गीतमधुरं लास्यगीतर्द्धिसङ्कुलम् | कीरमण्डलचाटूक्तिमधुरध्वनिसुन्दरम् || २४ || तत्र सा मन्त्रिणी देवी संस्थिता लोकमोहनी | सङ्गीतमाटृका देवी मातङ्गीत्यभिविश्रुता || २५ || शौकाद्याश्यामला चान्य शारिकाद्या हसन्तिका | वीणावेणुमुखा तद्वच्छ्यामला लघुपूर्विका || २६ || श्यामला राजपूर्वा स्यात् स्वयं या मन्त्रिणी मता | श्रीमातृका तत्प्रियाऽन्या (इ?) चेत्येवमष्टदिक्स्थिताः || २७ || मातङ्गकन्याकोटीनां कोटिभिः परिवारिता | अथ वप्रः पुष्परागमयः पूर्वोक्तवत् स्थितः || २८ || सिद्धेशः सिद्धसंवीतस्तत्र धायति ताम् पराम् | पद्मरागमयो वप्रस्तदन्तोऽग्निशिखाऽरुणः || २९ || चरणस्त्रिपुराभक्ता वसन्ति युवतीयुताः | सालो गोमेदमणिजस्तत्र भैरवनायकैः || ३० || कालसङ्कर्षिणी देवी वटुकौघसमावृता | कराला कालमेघाभा करवालकृताऽयुधा || ३१ || अष्टकोटिभैरवाणां नाथैरष्टसुभैरवैः | द्वात्रिशत्कोटिबटुकयुतः संसेविता सदा || ३२ || महाराज्ञीपादपद्मं ध्यायन्ती सुविराजते | ततो वज्रमयः सालस्तत्र वज्रा नदी स्थिता || ३३ || परिखावद्वेष्टयित्वा सुधासिन्धुप्रवेशिनी | तटाभ्यां गओमेदवज्रमयाभ्यां प्रविभासिनी || ३४ || तत्र वज्रश्वरी देवी वज्रभूषा समुज्ज्वला | वज्रप्रदानसन्तुष्टा वज्रिप्रमुखपूजिता || ३५ || प्.५४९) वैदूर्यसालस्तस्यान्तस्तत्र नागा दितेः सुताः | निरन्तर. ध्यायमानाः पराम्बापादपङ्कजम् || ३६ || अथेन्द्रनीलसालःस्यात् तत्र मर्त्याः समास्थिताः | मुक्तावप्रस्तदन्तस्था दिक्पाला दिक्षु वै क्रमात् || ३७ || अथ सालो मारकतः स्वर्णतालवनैर्युतः | तालद्रुस्यन्ददत्यन्तहालासौरभसम्भूतः || ३८ || तत्र श्रीदण्डिनी देवी स्वप्ने स्यादेभिरावृता अपराधिजनान् दण्डेयोजयन्ती सुसंस्थिता || ३९ || मधुसेवोन्मिषत्स्वान्तराऽनन्दाब्धिपरिप्लुता | ततो विद्रुमसालः स्याद्वप्रात्तत्राऽन्तरे स्थितः || ४० || अनेकसिद्धमुनिभिर्योगिभिश्च समावृतः | नवरत्नकृतो वप्रस्ततोऽतिरुचिरः शुभः || ४१ || तत्र विष्णुः पार्षदादिसेविताऽङ्घ्रिर्विराजते | ततोऽप्यनेकरत्नौघमयो वप्रोऽतिभासुरः || ४२ || शिवः प्रमथसंसेव्यस्तत्राऽध्यास्ते त्रिलोचनः | ततो मनोमयः सालोऽरुणोरुणसमच्छविः || ४३ || प्.५५०) तन्मध्येऽमृतवापी स्यात् परितः परिखाऽकृतिः | प्रफुल्लपद्मसङ्कीर्णा त्र्यंशेमध्यभुवः स्थिता || ४४ || हंसैः कारण्डवैः कोकैः सारसैः सुविराजिता | तन्मध्ये नवरत्नाढ्यनौकायां सुविराजिते || ४५ || पद्माऽसने समासीना तारा भक्तौघतारिणी | असंख्यरत्नपोतस्थशक्तिभिः परिवारिता || ४६ || दण्डिन्याज्ञां विना कञ्चिन्न सन्तारयति क्वचित् | अथ बुधिमयः सालो विशदश्चन्द्रविम्बवत् || ४७ || आनन्दवापिका तत्र प्रोक्तवत्सर्वशोभना | तत्रऽमृतेशी तरणिसंस्थाना शक्तिभिर्व्टा || ४८ || सुरानन्दमयि तस्यामामोदभरिताऽन्तरा | आज्ञांविनाऽमृतेशान्या नैनत् पिबति कश्चन || ४९ || न सन्तरेद्वापिकाञ्चाऽमृतैश्वर्याभिरक्षिताम् | अहङ्कारमयस्तस्माद्वरणः श्यामलाऽकृतिः || ५० || नीलमेघप्रतीकाशस्तदन्तर्वापिकाऽपि च | मिमर्शाऽख्या ज्ञानरसवहनिश्चलशितला || ५१ || तत्र नौकास्थिता देवी कुरुकुल्ला महेश्वरी तदाज्ञामन्तरा तत्र नैषत् प्राप्नोती तद्रसम् || ५२ || पीत्वा तल्लेशकमपि सम्स्ताऽज्ञानसम्भवम् | त्यजन्ति तापं पऽऽयन्ति जगत्तत्त्वमनावृतम् || ५३ || अथ सूर्यात्मकः सालः प्रकाशनिकरः स्थितः | तत्राऽन्तरे समासीनः सूर्यो जलजविष्टरे || ५४ || प्.५५१) मार्तण्डभैरवाद्यैश्च रविभर्द्वादशात्मभिः | समेतः सूर्यसदृशदेहैर्भक्तैरभिष्टुतः | ५५ || ततः शशाङ्काऽवरणः कोटिचन्द्रसमप्रभः | तत्र सोमः स्थितो राजा किरंस्तत्र सुधांऽशुभिः || ५६ || तदन्तरे तु शृङ्गारसालोऽत्यन्तविचित्रितः | कौस्तुभाऽख्यमणिब्रातनिर्मितो रुचिराऽकृतिः || ५७ || तन्मध्ये परिघा स्वच्छशृङ्गाररससम्भ्ड्र्ता| तत्र कौस्तुभसङ्कॢप्तपोते शृङ्गारनामके || ५८ || कन्दर्पः संस्थितो रत्या प्रीत्या सम्मिलितः स्वयम् | अनेककोटिकन्दरपिरतिप्रीतिगणैरपि || ५९ || सेव्यमानो मोदते श्रीत्रिपुराभक्तशेखरः | तत्पारे तु महापद्मवनमामोदमेदुरम् || ६० || स्थलपद्मवनं तेषाम् काण्डाः पत्राणि केसराः | कर्णिकाश्चापि चाऽत्यन्तदीर्घास्तत्ते ब्रवीम्यहम् || ६१ || सहस्त्रयोजनाऽयामाः काण्डा गव्यूतिपीवराः | विंशतिर्योजनानान्तु पत्राऽयामः प्रकीर्तितः || ६२ || त्रिंशद्योजनदीर्घाणि पत्राणि कलशीसुत ! | योजनानां पञ्चदश केसराणाञ्च दीर्घता || ६३ || कर्णिका योजनदशविस्ताराः सम्प्रकीर्तिताः | तत्र भृङ्गामणिनिभाः शैलशृङ्गमिताः स्थिताः || ६४ || प्.५५२) गृहं श्रीत्रिपुरादेव्यास्तदन्तरतिभसुरम् | चिन्तामणिप्रवेकाऽतिरचितं चित्रचित्रितम् || ६५ || चतुर्द्वारयौतं तत्र दिव्याऽधारसुसम्भृतम् | वह्निमूर्तिमयाऽधारो वर्तुलस्तत्कलायुतः || ६६ || योजनानां पञ्चशतं विस्तारेऽर्धं समुन्नतौ | तत्र सूर्यात्मकं पात्रं कलाद्वादशसम्युतम् || ६७ || योजनानां सहस्रन्तु विस्तारे सार्धमुन्नते | तत्राऽमृताऽसवः पूर्णः स्वाद्यो मञ्जुलसौरभः || ६८ || सुधांशुरूपः संयुक्तः कलाभिः परितो विधुः | तत्र पोतस्थितः खेलंस्तरङ्गेष्वासवाऽमृते || ६९ || श्रीचक्रस्थाः शक्त्यो यास्तासां पानाय कल्पितम् | महापद्माऽटवीसंस्थाश्चाऽपि याः शक्त्योऽमलाः || ७० || मुख्यशक्तिप्रसादन्तु प्राप्य मोदन्ति सन्ततम् | तत्राऽग्नेयं यं महाकुण्डं चिदग्निज्वालमालितम् || ७१ || सहस्रयोजनऽयामं तथा निम्नं त्रिमेखलम् | शतयोजनमुन्नम्रा विस्तृता मेखलाः पृथक् || ७२ || तत्र श्रीत्रिपुरादेव्या जनकश्चिन्मयाऽनलः | द्विसहस्रयोजनोन्नतज्वालामालयाऽवृतः || ७३ || प्.५५३) गृहस्य पश्चिमदिशि स्थितश्चकात्मको रथः | नानामणिगणाऽकीर्णः सहस्रयोजनाऽयतः || ७४ || चतुर्गुणोन्नतो भूमिनवकेनाऽतिसुन्दरः | दशेन्द्रियहयोपेतो मनः सारथिसंयुतः || ७५ || आम्नायचक्रश्चऽङ्गारो योगरश्मिर्मरुध्वजः | नभओ वितानः सुमहान् सर्वलोकमयः स्थितः || ७६ || चिन्तामणिगृहे तस्मिन्मध्ये श्रीचक्रनायकः | नवाऽवरणदेवीभिर्युतः परमशोभनः || ७७ || तन्मध्ये त्रिपुरा देवी पञ्चब्रह्मात्ममञ्च्के | कामेश्वराऽङ्क्संस्थाना ज्योतीरूपा विराजते || ७८ || इति श्रीमदितिहासोत्तमे त्रिपुरारहस्ये माहात्म्यखण्डे श्रीत्रिपुरापाख्याने श्रीपुरवर्णनं नाम चतुःपञ्चाशत्तमोऽध्यायः || ४४६१ || प्.५५४) श्रुत्वैवमद्भुतं वृत्तं विश्वकर्माऽतिविस्मितः | पप्रच्छाऽनन्तरं वाक्यं सर्वलोकपितामहम् || १ || पितामहाऽत्र सन्देहो भगवन् बहुधा मम | हृदि तत् परिपृच्छामि वक्तुं तन्मे त्वमर्हसि || २ || केनेदं निर्मितं स्थानं कदा केन च हेतुना | न गतिस्तत्र चाऽन्येषां गुणजेभ्य इति श्रुतम् || ३ || पुनस्तत्राऽमरा मर्त्या नागाद्याश्चाऽपि वर्णिताः | कथमेतत् स्थितं देव कृपां कुरु मयीश्वर || ४ || आपृष्ट एवं लोकेशः प्राह तं विश्वश्ल्पिनम् | त्वष्टः ! शृणु समाख्यास्ये चैतद्वृत्तं सुगोपितम् || ५ || तदा वयं सृष्टिमुखक्रियाकृतिपरायणाः | सदा समाकुलस्वान्तैस्तोषिताऽस्माभिरम्बिका || ७ || प्.५५५) त्रिपुरा परमाशक्तिः केवला चितिरूपी | निष्कलाऽकाशरुपेण केवलं वङ्मयी शिवा || ८ || आहाऽशरीरिणी वत्साः किं वः समभिवाङ्छितम् | संश्रुत्वैवं वाचं नत्वाऽस्माभिः समीरितम् || ९ || स्तुत्वा तां विविधैस्तओत्रैर्बद्धाऽञ्जलिभिरादरात् | महादेवि वयञ्चाऽस्मिन् जगत्कृत्ये निरन्तरम् || १० || भवत्या विनियुक्ता वै नैषद्विन्दामहेरतिम् | त्वत्स्वरूपस्थितिं त्यक्त्वा न किञ्चिदभिरोचते || ११ || सुधारसाऽस्वदनानां यथा क्षारोदसेवने | तत्कृपां कुरु देवेशि ! न रमामोऽत्र कर्मसु || १२ || एवमुक्ता ब्रह्ममुखैस्त्रिपुरा प्राह नः पुनः | विधिमुख्याः साम्प्रतं नो भवेदेतत् कथञ्चन || १३ || नियतिर्मेऽतिदुर्वारा सङ्कॢप्ता प्राङ्मयैव सा | चिन्तितुं नाऽर्हथैवं वो दास्येऽन्यदभिवाञ्छितम् || १४ || ततोऽस्माभिः प्रार्थिता सा त्रिपुरा लोकभावनी | यद्येवमम्ब तत्त्वञ्च गुणमूर्तिर्महेश्वरी || १५ || प्.५५६) राजराजेश्वरी भूत्वाऽखिलाऽण्डानां प्रशासने | कुरु तत्र वयं नित्यं त्वन्मूर्त्तेरभिषेवणात् || १६ || प्राप्स्यामोऽत्र रतिं लोके त्वदाज्ञापालनादपि | इत्यस्मदीरितं श्रुत्वा प्राह सा त्रिपुरा परा || १७ || अस्त्वेवं वो हितार्थाय दृश्यमूर्तिर्भवाम्यहम् | नाऽट्राऽण्डेषु स्थितिं प्राप्स्ये किन्त्वशेषाऽण्डवर्तिनाम् || १८ || साधारणं सुधाऽम्भोधौ रत्नद्वीपं सृजाम्यहम् | तत्र मां भक्तिभावेन यजन्तु जगदीश्वराः || १९ || तत्र कुण्डे समिध्याऽग्निं चिन्मयं ज्वलिते शुचौ | यथेप्सितं ध्यायत मां स्त्रीपुम्प्रकृतितः शुभाम् || २० || ध्यानाऽनुरूपा वो भूत्वा प्रशासिष्येऽण्डसन्ततिम् | तत्राऽखिलाऽण्डसंस्थानां ब्रह्मादीनां निरन्तरम् || २१ || दिशामि दर्शनं स्त्रीयं स्थूलभावस्य संस्थिता | इत्युक्त्वाऽस्मान् विह्धिमुखानन्तर्धानं जगाम सा || २२ || अथ तस्या वचनतो ब्रह्माण्डान्निर्गता वयम् | पीयूषाऽब्धिं समासाद्य रत्नद्वीपं समन्ततः || २३ || प्.५५७) विचिन्वतश्चिरेणाऽथ मणिद्वीपोऽनुसादितः | नवरत्नमयः |स्वीयच्छविव्यताप्तदिगन्तरः || २४ || तत्र गत्वा विनिर्माय कुण्डं परमशोभनम् | प्रोक्तमानं तत्र वह्नियोजनं स्यात्कथन्त्वति || २५ || चिन्तां प्राप्ता वयं तत्र नाऽग्निरस्ति नचेन्धनम् | अथ देवः शिवः कुण्डे स्वाक्ष्णोऽग्निमनुकल्पयत् || २६ || अनिन्धनन्तु तं दृष्ट्वा प्रशमाऽभिमुखं शुचिम् | विष्णु स्वयं स्वचेर्तोऽशैरेधांसि सम्कल्पयत् || २७ || अथ प्रज्वलिते वह्नौ विधिस्वं समकल्पयम् | मनःपशुं बुद्धिमज्यमहङ्कारं हविस्तथा || २८ || करणानि च पात्राणि अद्धोतुं देवतां पराम् | अभिध्यायमहं स्वाऽन्तर्वह्नौ स्त्रीमूर्तिमीदृशीम् || २९ || ध्यात्वा हविर्हृतं यावत्तावत् सा परमेश्वरी | कुण्डवह्नेः समुदभूत् ध्यानरूपाऽनुसारिणी || ३० || पराशक्तिरियं तत्र ततोऽस्माभिरभिष्टुता | निर्ययौ पावकात्तस्माद्बहिस्त्रैलोक्यसुन्दरी || ३१ || अथाऽवदन्मां परमा क्वाऽसनं मे विनिर्दिश | आदिष्ट एवं परममासनं कल्पितं मया || ३२ || प्.५५८) स्पर्शमात्राद्विशीर्णं तदासनं भूय एव तत् | कल्पितं विविधं सारं स्पर्शाच्छीर्ण बभौ क्षणात् || ३३ || सर्वसामर्थ्यविहितान्यासनान्यपि तानि मे | परःशतं विशीर्णानि तदाऽहं लज्जितोऽभवम् || ३४ || अथाऽविरासीन्निमिषात् सर्वदेवः सदाशिवः | तदिच्छयैव तुर्यश्च तौ तां देवीं प्रणेमतुः || ३५ || तावब्रवीत् परा देवी सा कल्पयतमासनम् | दध्यौ सदाशिवः श्रुत्वा वाक्यं तस्याः क्ष्णादथ || ३६ || अनेककोटिसंख्याता आययुर्गुणमूर्तयः | सदाशिवा ईश्वराश्च तेभ्यः सर्वेभ्यः एव च || ३७ || सारं समाकृष्य पञ्चमूर्तीश्चक्रेऽतिसुन्दरीः | सदाशिवांऽशेन तत्र सिन्दूरनिचयाऽरुणम् || ३८ || फलकं कल्पयत्तस्य मूर्त्या सङ्घटितं शुभम् | ईशरुद्रहरिविधिशक्तिसङ्घचतुष्टयैः || ३९ || पादांस्तन्मूर्तिघटितान्निर्ममे स सदाशिवः | अशेषपृथिवीसारसम्भृताऽस्तरणं ततः || ४० || हंसतूलसंहतिवत् कोमलं तस्य मूर्धनि | आस्तृतं मेरुशिखरिसमुदायसुसाधितम् || ४१ || उपधानं विरचयद्देवदेवः सदाशिवः | प्रणम्य प्राह तां देवीं सिद्धमम्ब! समारुह || ४२ || प्.५५९) तन्मध्ये तं गुणेशानां नमस्कृत्य सदाशिवम् | प्रोचुर्देव नौपयिकं पीठमेतद्धि मन्दिरम् || ४३ || आकाशसंश्रयं तस्मान्मन्दिरं कुरु सुन्दरम् | सदाशिवोऽपि युक्तं तन्मत्वा चक्रे गृहं शुभम् || ४४ || चिन्तामणिगणैः कीर्ण नानारत्नोपभूषितम् | योजनानां द्वे सहस्रे विस्तृतौ गृहराजकः || ४५ || चतुर्द्वारश्चतुर्वेदमय आम्नायमण्डितः | नभोमयवितानेन महताऽतिविराजितः || ४६ || मत्वा गृहं तदाऽकाशेन मनोहरमुत्तमम् | ससर्ज तस्य परितो महपद्मवनं शुभम् || ४७ || सम्प्रोक्तलक्षणं तेन मन्दिरं तद्व्यराजत | एवं तन्मन्दिरे रत्नसिंहासनमधीश्वरी || ४८ || समारुहत् सा त्रिपुरा भासयन्ती समन्ततः | रत्नसिंहासने तस्मिन् संस्थिता सा महेश्वरी || ४९ || असंख्यैर्विधिविष्ण्वीशतुर्यमूर्तिसदाशिवैः | संस्तुता बहुधा प्राह सदाशिवमधीश्वरी || ५० || सदाशिव ममाऽख्यानमनाख्यायाऽद्भुतं कुरु | आख्याताऽहं येन लोके भवामि विदिताऽकृतिः || ५१ || एवं तया नियुक्तोऽथ देवदेवः सदाशिव | यावत्तस्याः समाख्यानं चिन्तयामास मानसे || ५२ || प्.५६०) तावद्ब्रह्मविष्णुरुद्रमुखैः सम्प्रार्थितोऽभवत् | देव नौपयिकं ह्येतद्भासते न पराम्बिका || ५३ || चितिर्द्र्ष्टृमयी नित्या सदसद्रूपकारणम् | ध्यानाऽनुरोधवपुषा दयया दृश्यतां गता || ५४ || योषिद्रूपधरा देवी विना पुरुषसंश्रयम् | नाऽत्यर्थ शोभते लोकविगानादिति मन्महे || ५५ || न द्वचिल्लोकविततौ नारी नरसमाश्रयम् | ऋते सम्भवते वल्ली तरुहीना यथा भुवि || ५६ || तदेतस्या जगद्धात्र्या अनुरूपं पतिं शुभम् | परं कल्पय यन्नः स्यात् सर्वेषामभिवाण्छितम् || ५७ || श्रुत्वैयं गुणमुर्तीनामुक्तं देवः सदाशिव | चिन्तयित्वा चिरं वाक्यं प्राह व्यवसिताऽन्तरः || ५८ || शृण्वन्तु गुणजाता मे वाक्यमेतत् समाहिताः | इयं परात्परा देवी सश्चिन्मात्रस्वरूपी || ५९ || एकाऽसीत् सर्वपुरतः स्वातत्र्याऽत्मविधायिनी | न सन्नाऽसदभिन्नं वा विभिन्नं किमपि ह्यभूत् || ६० || सा स्वस्वभावविभवभरेणैवाऽवभासयत् | एतजगश्चक्रचित्रं स्वात्मन्यादर्शलीलया || ६१ || प्.५६१) नैतस्याः सदृशः कोऽपि कृत एवाऽधिको भवेत् | सदस्याः सर्वलोकैकमातुर्भर्ताऽत्र को भवेत् || ६२ || न हि मेऽत्र भवेच्छक्तिः कर्तुं स्यात् खलु किञ्चत् | वदत्येवं सदा पूर्वे शिवऽस्माकं प्रपश्यताम् || ६३ || विदित्वाऽस्मत्वमीहां सा त्रिपुरा परमेश्वरी | ईषत् स्मितं कृतवती कोटिपूर्णेन्दुभासनम् || ६४ || अथाऽभवन्महाशब्दो ब्रह्माण्डौघविभेदनः | विदलन् श्रोत्रजालानि बधिरीकृतदिक्तटः || ६५ || प्रजज्वाल महातेजः सर्वदिङ्मण्डलाऽदनम् | तडित्कोट्यु दयाऽभासं सर्वचक्षुः प्रमोषणम् || ६६ || तेन शब्देन महता तेजसा च समन्ततः | बधिराऽन्धीकृताः किं तदित्याश्चर्यं समागताः || ६७ || दृष्टाऽस्माभिः क्षणेनैव ततः सा परमेश्वरी | समानसुन्दराऽङ्गस्य पर्यङ्कमणिशोभिनी || ६८ || मिथुनीभूतसंस्थाना प्रतिबिम्बं श्रिता यथा | दृष्ट्वा समानपुरुषवामाऽङ्कसुविराजिताम् || ६९ || प्रहर्षमतूलं प्राप्ताः स्वेष्टसिद्धेर्जगद्विधे | स्वाऽङ्गसौन्दर्यलालित्यभरणेनैव परस्परम् || ७० || प्.५६२) क्षिपन्निव तन्मिथुनं परीरम्भसुखोल्वणम् | अथाऽ.ब्रवीन्नः परमा देवा वः सिद्धमीप्सितम् || ७१ || अहं द्विधा हि सञ्जाता भवदीप्सितहेतवे | वदन्त्वावयोर्नामनि (?) र्यावः ख्यातिं यतस्त्विह || ७२ || श्रुत्वा सदाशिवो देवः प्रेक्षाऽस्मान्नाम कर्मणि | विमूढानाह नत्वा तां देव्यस्मत्कामपूरणात् || ७३ || कामेश्वरी त्वं देवश्च भवेत् कामेश्वरस्तथा | राजराजात्मनां नस्त्वमीशनाश्चाऽपि साम्प्रतम् || ७४ || राजराजेश्वरी त्वं वै राजराजेश्वरस्त्वयम् | त्वं वै त्रिपुरसुन्दरी चैष त्रिपुरसुन्दरः || ७५ || अथ धातुमुखाः स्तुत्वा वयं तां परमेश्वरीम् | अप्रार्थयन्त भूयस्तां मत्वा तत्रैकलां स्थिताम् || ७६ || मातस्त्वं परिवारेण स्थातुमत्रार्ऽहसीश्वरी | दृष्ट्वैकलां त्वां न वयं हृष्यामोऽतितरां शिवे || ७७ || एवं सा प्रार्थिताऽस्माभिः स्वदेहात् क्षणमात्रतः | प्रां स्वसदृशींशक्तिमसृजत् प्रतिबिम्बवत् || ७८ || इत्याह्वयत तां शक्तिं महात्रिपुरसुन्दरीम् | इति सृज शक्तिचक्रं ममाऽनुगुणमुत्तमम् || ७९ || सर्वलोकेप्सितकरं परिवारं मदंशतः | ओमित्युक्त्वा च सा देवी शक्तिचक्रं महाऽद्भुतम् || ८० || प्.५६३) ससर्ज श्रीमहादेव्याः शक्त्याऽवरणमद्भुतम् | तावन्मध्ये महादेवी स्वयं षोऽशधाऽभवत् || ८१ || स्वयं ततोऽतिरिक्ताऽभूद्देवीइ सप्तदशी तदा | एतस्मिन्नन्तरे साऽपि महत्रिपुरसुन्दर्री || ८२ || नव् अशक्तीः ससर्जाऽङ्गात् सृष्ट्वा सा प्राह ताः प्रति | पृथक्सृजेथाः स्वस्वाऽनुरूपाः शक्तीर्मनोहराः || ८३ || महासुन्दर्येति चोक्ताः ससृजुस्ताः पृथक् पृथक् | एवं सृष्ट्परीवारा महाश्रीत्रिपुराऽम्बिका || ८४ || स्थानं तासां जगश्चक्रमयंनिर्माय सत्वरम् | तत्तत्स्थानस्थिताभिः सा शक्तिभिः सेविताऽभवत् || ८५ || इति श्रीमदितिहासोत्तमे त्रिपुरारहस्ये माहात्म्यखण्डे ललितामाहात्म्ये ब्रह्मविश्वकर्म्मसम्वादे श्रीपुरे कामेश्वरीकामेश्वरयुतं शक्तिचक्रसंस्थानवर्णनं नाम पञ्चाशत्तमोऽध्यायः || ४५४६ || प्.५६४) षट्पञ्चाशत्तमोऽध्यायः ब्रह्मविश्वकर्म्मसवादेश्रीचक्रदेवतानिरूपणवर्णनम् शुर्वेत्थमद्भुतं वृत्तं विश्वकर्मा जगद्विधिः | पप्रच्छः भूयः प्रणतस्तच्छ्रु तावतिकौतुकी || १ || भगवन् शक्त्यो देव्या सृष्टा यास्त्रिपुराम्बया | नृपसंक्या नाम तासां रूपं स्थानञ्च मे वद || २ || महात्रिपुरसुन्दर्या सृष्टा यास्ताः समीरय | किंरूपाः कति संख्याकास्तत्सृष्टाश्चाऽपि वर्णय || ३ || स्थानञ्चाऽपि जगच्चक्रप्रतिरूपं किमात्मकम् | सृष्टं श्रीत्रिपुराशक्त्या कुत्र काः शक्त्यः स्थिता || ४ || एतन्मे सर्वमाक्याहि श्रोतुं मे प्रसमीहितम् | इति पृष्टो विश्वकृता प्रीतः प्राह चतुर्मुखः || ५ || शृणु त्वष्टर्गुह्यतमं सावधानेन चेतसा | एवमादौ विसृष्टा सा म्हात्रिपुरसुन्दरी || ६ || नवशक्तीरसृजत शक्त्यौघस्य विसर्जने | समाज्ञप्तास्तया तास्तु प्राहुस्त्रिपुरसुन्दरीम् || ७ || प्.५६५) कथं वयं सृजामोऽम्ब शक्तीस्ते समुदीरिताः | श्रुत्वेति प्राह सा भूयो महात्रिपुरसुन्दरी || ८ || आत्मयोगं समाश्रित्य द्रुतं सृजथ मा चिरम् | इत्युक्त्वाऽद्या समसृजद्द्शशक्तीः सुलोहिताः || ९ || ताश्चाऽणिमादिसिद्धीनां प्रदा लोकेऽभवन्नथ | पाशाऽब्जाऽङ्कुशपाणयः शशिखण्डशिखण्डकाः || १० || अणिमा लघिमा चैव महिमेशित्विका ततः | वशित्वा प्राकाम्यका च भुक्तीच्छाप्राप्तयः क्रमात् || ११ || सरकामा च सिद्ध्यन्ता दश देव्यः समुद्गताः | अथ ता नवशक्यस्तु प्राहुर्देवीं स्वमातरम् || १२ || नाम नः प्रदिशाऽम्बाऽशु ततः शक्तिः सृजामहे | श्रुत्वाऽह ता महाशक्तीर्महात्रिपुरसुन्दरी || १३ || योगेन सर्जनाद्यूयं योगिन्यस्तु भविष्यथ | अथाऽद्या प्रार्थयामास त्रिपुरेशीं प्रणम्य तु || १४ || मातः स्थानं कल्पयाऽशु शक्तीनां समवस्थितेः | प्रार्थितैवं पराशक्तिः ससर्ज स्थानमद्भुतम् || १५ || चतुरस्रा वेदिकैका योजनद्वितयोन्नता | द्विशतं योजनानान्तु विस्तारेण विनिर्मिता || १६ || तस्योपरि चतुर्दिक्षु योजनानां चतुष्टयम् | बहिर्विहाय तस्यान्तश्चतुर्द्धारं सुशोभनम् || १७ || प्.५६६) योजनानान्तु विंशत्या विस्तृतं सुमनोहरम् | षट्योजनसुदीर्घञ्च तत्सम्बद्ध तदन्ततः || १८ || योजनद्वयमुन्नम्रा चतुरस्रसुभूमिका | द्वियोजना ततोऽन्तस्तु योजनोच्चा तथा पुनः || १९ || एवं भूमित्रयं तस्य चाऽन्तः षोषशयोजने | भूमिका योजनोन्नम्ना षोडशच्छदसन्निभा || २० || तदन्तर्योजनोन्नम्रा वसुपत्रसमाकृतिः | योजनानान्तु विंशत्या भूमिकाऽतिमनोहरा || २१ || आदित्ययोजनाऽयामा तदन्तर्योजनोन्नता | भूमिका शक्रकोणाभा तदन्तश्चाऽपि तावती || २२ || भूमिका दशकोणाभा तस्याऽन्तः शिवयोजना | योजनोच्चा पूर्ववत्तु दशकोणसमप्रभा || २३ || अन्तरे दशसंख्यातयोजनाऽयामतः स्थिता | वसुकोणात्मिका भूमिर्योजनोच्छ्रायशोभिनी || २४ || तस्याऽन्तस्त्र्यस्रभूमिस्तु रसयोजनसम्मिता | योजनोश्चा वदूर्ध्वस्था तावदुच्छ्रायशोभिनी || २५ || योजनाऽयतविस्तारा बिन्दुभूमिः सुवर्तुला | प्रकल्प्य स्थानमेवं सा वृत्तभूमौ स्वयं स्थिता || २६ || पञ्चब्रह्मासनाऽसीनकामेशोत्सङ्गशोभिनी | प्.५६७) स्वाङ्गोद्भूताः शक्तयो याः स्वसमा नृपसंख्यकाः || २७ || ताः स्वभूमेरधस्त्र्यस्रभूमौ संवेशिताः क्रमात् | इन्दोः कलामयः पक्षदिनाऽधिष्ठातृदेवताः || २८ || नित्याऽख्याः कारणेनाऽसां नामानि च वदामि ते | आद्या कामेश्वरी नित्या द्वितीया भगमालिनी || २९ || नित्यक्लिन्ना च भेरुण्डा ततः स्याद्वह्निवासिनी | महाविद्येश्वरी पश्चाच्छिवदूती ततः परम् || ३० || त्वरिता कुलसुन्दरी नित्या नीलपताकिका | विजया सर्वमङ्गला ज्वालामाला ततः परम् || ३१ || चित्रेति नाम क्रमतो वामे पृष्ठे च दक्षिणे | पञ्चकक्रमयोगेन त्र्यस्रभूमौ निवेशिताः || ३२ || स्वयं सप्तदशी नित्या षोडशी या पुरोदिता | सा तपोवीर्यसंयोगात् सायुज्यं समुपागता || ३३ || स्.ष्टादौ तत्र या देवी महात्रिपुरसुन्दरी | तां बिन्दुभूम्यधिष्ठात्रीं कृत्वा स्वाग्रे निवेशयत् || ३४ || योगिन्योऽपि तया सृष्टा नवसंख्याः पुरोदिताः | ताभिश्चाऽपि पृथक्कृत्यैर्नाम् प्राप्तं यथाक्रमम् || ३५ || प्५६८) प्रकटा च ततो गुप्ता तथा गुप्ततरा परा | सम्प्रदायाऽकुलोत्तीर्णा निर्भगा च रहस्यका || ३६ || तथैवाऽतिरहस्याख्या पराऽपररहस्यका | निवेशिताः क्रमेणैता देव्या चक्रेषु तच्छ्ण्णु || ३७ || चतुरस्रे नृपदले नागपत्रे ततः परम् | मनुदिग्दिङ्नागवह्निकोणेषूर्ध्वे पृथक् पृथक् || ३८ || ततः सा प्रकटाऽख्याना योगिनी स्वविनिर्मिताः | दशशक्तीरधो भूम्यां क्रमेण विनिवेशयत् || ३९ || पुनः सृष्टाऽष्टशक्तीस्तु ब्राह्म्याकीर्मातृकाऽत्मिकाः | वर्गशक्तीर्द्वितीयस्यां भूमिकायां निवेशयत् || ४० || ततः ससर्ज शक्तिनां दशकं प्रकटाऽभिधा | तृतीयभूनिकायां ताः क्रमेणाऽभिनिवेशयत् || ४१ || अथ गुप्ताऽभिधानाऽपि दृष्त्वा नृपनिवेशनम् | असृजत्तावतीः शक्तीरथ गुप्ततराऽभिधा || ४२ || सम्प्रदायाऽकुलोत्तीर्णा निर्भगाच पृथक् पृथक् | स्वस्संस्थानसम्मित्याऽसृजच्छक्तीर्विचित्रिताः || ४३ || शक्तीर्विभावयामास रहस्याः सप्तसङ्ख्यकाः | रहस्यतरनाम्नी च शक्तिमेकां ससर्ज ह || ४४ || प्.५६९) अणिमाद्या अपि पृथक् ससृजुः शतर्शोऽशतः | शक्तीः स्वस्वसमाकाराऽयुधवस्त्रविभूषणाः || ४५ || बिन्दुचक्रेश्वरी या सा महात्रिपुरसुन्दरी | विनियुक्ता मूलदेव्या शक्तीनामभिधाऽकृतौ || ४६ || चकार तत्तत्कर्माणनुरूपं नाम पृथक् पृथक् | तृतीयभूमिकादेव्यो याः सृष्टा दशसङ्ख्यकाः || ४७ || मुद्रातत्त्वविधानज्ञाः सर्वमुद्रात्ममूर्तयः | आहरन्ति मुदं देव्यस्तस्मान्मुद्रासमाऽह्व्याः || ४८ || मुद्मुत्पाद्य या लोकान् क्षोभयन्त्यतिमात्रकम् | द्रावयत्याकरषयति वशयेन्मादयत्यपि || ४९ || बीजयत्यङ्कुरयति चारयत्यपि खे तथा | त्रिखण्डयति योन्यात्मभावमानयतीश्वरी || ५० || इति मुद्रा वीर्यवत्यः ख्याताः सङ्क्षोभिणीति च | विद्राविण्याकर्षणी च ततः पश्चाद्वशङ्करी || ५१ || उन्मादिनी महाङ्कुशा त्रिखण्डा खेचरी तथा | बीजा योनिह् क्रमादेता दिक्षु कोणेष्वधोर्ध्वयोः || ५२ || भूमिकात्रितयेऽष्येवं ब्राह्मी माहेश्वरी तथा | कौमारी वैष्णवी वैष्णवी वाराही माहेन्द्री ततः परम् || ५३ || चामुण्डा च महालक्ष्मीः (:) एवमाद्ये स्थिता इमाः | ब्र्ह्मादीनां समानाङ्गाऽयुधाऽभरणवाससः || ५४ || प्.५७०) मुद्रास्तु लोहिताऽभासाः पाशमुद्राऽङ्कुशैर्युताः | लोहिताऽङ्कुशधारिण्यः पद्मरागसुभूषणाः || ५५ || अथ गुप्ताऽख्यया सृष्टा भक्तेष्टाकर्षणात्तथा | कामाकर्षिणिकाऽद्या स्याद् बुद्ध्याकर्षिणिका परा || ५६ || अहङ्काराऽकर्षिणी च शब्दाऽकर्षिणिका तथा | स्पर्शाऽकर्षिणिका तद्वद्रूपाऽकर्षिणिका ततः || ५७ || रसाऽकर्षिणिका गन्धाऽकर्षिणी चित्तपूर्विका | आकर्षिणी दैर्यपूर्वा कर्षिणी स्मृतिपूर्विका || ५८ || नामपूर्वाऽकर्षिणी च बीजाऽकर्षिणिका परा | आत्माऽकर्षिणिका तद्वदमृताऽकर्षिणी ततः || ५९ || शरीराऽकर्षिणीत्येवं षोडशच्छदशक्त्यः | भाविता गुप्तयोगिन्याऽग्रपत्राद्वामतः स्थिताः || ६० || शूभ्राःशुभ्रांऽशुककल्पाः पूर्णतारुण्यशोभिताः | पाशदानसुधाकुम्भाऽङ्कुशाऽयुधपरिष्कृताः || ६१ || अनङ्गकुसुमाऽनङ्गमेखलाऽनङ्गपूर्विका | मदनाऽनङ्गमदनाऽतुराऽनङ्गाऽद्यरेखिका || ६२ || अन्ङ्गवेशिन्यनङ्गाऽङ्कुशाऽनङ्गाऽद्यमालिनी | एता गुप्ततराऽख्योत्था नागच्छदनिवेशनाः || ६३ || प्.५७१) रक्तवर्णाऽशुककल्पा दिक्कोणक्रमतः स्थिताः | पाशं नीलोत्पलं पात्रमङ्कुशं पाणिषुस्थितम् || ६४ || संक्षोभिणी विद्राविणी चाऽकर्षिणी चाऽल्हादिनी | सम्मोहिनी स्तम्भिनी च जृम्भिणी च वशङ्करी || ६५ || रञ्जिनी चोन्मादिनी च ततश्चैवार्ऽथसाधिनी | सम्पत्तिपूरणी मन्त्रमयी द्वन्द्वक्षयङ्करी || ६६ || सम्प्रदायोद्भावितता मनुकोणेषु संस्थिताः | अग्राद्वामक्रमेणैव रक्ताभांऽशुकभूषणाः || ६७ || पाशाऽमृतघटाऽदर्शाऽङ्कुशशओभिचतुर्भुजाः | सिद्धीप्रदा सम्पत्प्रदा ततः पश्चात्प्रियङ्करी || ६८ || मङ्गलाऽज्ञाकारिणी च ततः कामप्रदा स्मृता | दुःखाद्विमोचनी त्द्वन्मृत्युप्रशमनी ततः || ६९ || विग्नान्निवारिणी चाऽङ्गसुन्दरी तदनन्तरम् | सौभाग्यदायिनी पङ्क्तिकोणे प्राग्वत् समास्थिताः || ७० || पाशं भूषणपेटीञ्चाऽङ्कुशं पाणिचतुष्टयैः | दधाना विशदाऽकारांऽशुकभूषणभूषिताः || ७१ || कुलोत्तीर्णा समुदिताः शक्त्यो यौवनाऽन्विताः | ज्ञानशक्तिरैश्वर्यप्रदा ततोज्ञानमयी स्मृता || ७२ || ततो व्याधिविनाशिनी चाऽधाराद्यास्वरुपिका | ततः पापहराऽनन्दमयी रक्षास्वरूपी || ७३ || प्.५७२) ईप्सिताद्याप्रदा चेति दशारे पूर्ववत् स्थिताः | पाशदानज्ञानटङ्ककरा रक्ताङ्गभूषणाः || ७४ || निगर्भाख्या भावितास्तु तरुण्यः शक्त्योऽमलाः | वशिनी मोदिनी तद्वद्विमला चाऽरुणा ततः || ७५ || जयिनी सर्वेश्वरी च कौलिनी चेति शक्त्यः | रहस्ययोगिनीजाताः पद्मरागसमप्रभाः || ७६ || चापदानपुस्तकेषुकरा लोहितभूषणाः | नागकोणेषु पूर्वोक्तक्रमेण सुविराजिताः || ७७ || शक्तिरेका चाऽतिरहस्याऽख्योत्थोदक्षकोणके | एवं ताः शक्तयश्चक्रे सृष्टाः प्रकृतिशक्तिभिः || ७८ || इति श्रीमदितिहासोत्तमे त्रिपुरारहस्ये माहात्म्यखण्डे श्रीललितामाहत्म्ये श्रीचक्रदेवतानिरूपणं नाम षट्पञ्चाशत्तमोऽध्यायः || ४६२४ || प्.५७३) सप्तञ्चाशत्तमोऽध्यायः श्रीचक्रदेवतानिरूपणवर्णनम् श्रुत्वात्वष्टेरितं धातुः पुनः पप्रच्छ सादरम् | पितामह श्रुतञ्चैतच्छ्रीचक्रं शक्तिमण्डलम् || १ || शक्तीनां नाम सम्पत्तिहेतुं मे पृच्छते वद | तथाऽष्टाऽरे त्रिकोणे च कुतः स्थानं विशक्तिकम् || २ || षोडशी स महानित्या केन सायुज्यमागमत् | एवं त्वष्टाऽनुयुक्तोऽथ प्रीतः प्राह चतुर्मुखः || ३ || विश्वकर्तः शृणु महागुह्यमेतन्निगूहितम् | महाश्रीत्रिपुरेशान्या सृष्टास्त्रि (नि?) त्यास्तु षोडश || ४ || महात्रिपुरसुन्दर्या सृष्टास्त्वन्यास्तु शक्तयः | (?) नाम तासां पृथक्स्वीयक्रिययैव निरुपितम् || ५ || या सा शक्तिर्महादेवी त्रिपुराऽख्या महत्तरा | तस्याः सदा विलसितं जगदेतश्चराऽचरम् || ६ || ब्र्ह्मादिमूर्तिष्व्ंशेन संस्थिता सा महेश्वरी | जगश्चक्रक्रियाकाण्डं निर्वाहयति चिन्मयी || ७ || प्.५७४) साऽखण्डैकरसाप्यम्बा चितिमात्रशरीरिणी | अनेकधाऽपि भवति स्वस्वातन्त्र्याऽवभासिनी || ८ || यथा सहस्ररश्मीनां पिण्डो हंसो नभोमणिः | एकोऽप्येनकधाप्यास्ते यथा वा वार्निधिः स्थितः || ९ || तरङ्गोर्मिफेनमय एकोऽनेकात्मना तथा | दर्पणः प्रतिबिम्बानां सहस्रेण यथा स्थितः | १० || तथैषा परमा चाऽपि भेदाऽभेदमयी स्थिता | शक्त्र्योऽशात्मिकास्तस्या अणिमाद्याः प्रकीर्तिताः || ११ || तस्याः स्वातन्त्र्यवशतः स्थूलाऽकारपरिग्रहः | या शक्तिर्यत्क्रियाहेतुर्नाम तस्यास्तथास्थितम् || १२ || एवं सृष्टाः शक्त्यस्ता महामायाविमोहिताः | स्पर्धाञ्चक्रुः संस्थितिषु स्थाननाचोच्चभावतः || १३ || दृष्ट्वा तच्छक्तिचक्रेषु कश्मलं स्मुपस्थितम् | महाद्व्याज्ञया प्राह महात्रिपुरसुन्दरी || १४ || शृणुध्वं शक्त्यः सर्वा मम वाक्यं हि साम्प्रतम् | स्पर्धाक्रोधात्मनामत्र स्थानं देवीसमीपतः || १५ || दुर्लभं तत्तपोयोगात् स्थानं विन्दथ नाऽन्यथा | इत्युक्त्वाऽदौ स्वयञ्चक्रे तपः सुमहदद्भुतम् || १६ || प्.५७५) दृष्ट्वा तपस्यभिरतां महात्रिपुरसुन्दरीम् | अन्याः सर्वा अपि तपश्चक्रुर्नियतमानसाः || १७ || एवं शक्तिगणे तत्र तपस्यभिरते सति | अगात् कालो दीर्घतमस्तदा तुष्टाऽवदत् परा || १८ || वत्सास्तुष्टाऽस्मि तपसा स्थानं योग्यं दिशामिवः | इत्युक्त्वा स्थानमदिशन्महात्रिपुरसुन्दरी || १९ || य तस्यै सर्वचक्राणामीश्वरीत्वं ददौ परा | अथ नित्याऽत्मशक्तीनां त्र्यस्रभूमौ निवेशनम् || २० || प्रतिपार्श्व पञ्चकस्य चाऽथ नित्या तु षडशी | प्रदिष्टसम्मुखस्थानाऽप्यमन्यत न तद्बहु || २१ || पुनरातिष्ठदत्यन्तं तपः परमदुष्करम् | एवं कामेश्वरी तद्वद्भगमालिनिकाऽपि च || २२ || न तत्स्थानमलं मत्वा तपश्चक्रतुरुत्तमम् | एवं तपस्यभिरते शक्तिमण्डलके शिवा || २३ || एकाकिनीं स्वामपश्यन्न तत् सम्यगमन्यत | तावद्विज्ञायाऽभिमतं महात्रिपुरसुन्दरी || २४ || त्रिपुराऽङ्गायुधेभ्यश्च दशशक्तीर्विसर्जयत् | ता विसृष्टाः स्थिते स्थानं महात्रिपुरसुन्दरीम् || २५ || पप्रच्छुः प्राह ता देवी तपसा स्थानमीक्ष्थ | इत्युक्त्वा तप एवओच्चैश्चक्रुः प्राक् शक्तिभिः सह || २६ || प्.५७६) पुनर्देवी स्वपरितो मत्वैकामवलोकयत् | अवलोकनतो जाताः शक्त्यो वेदसङ्ख्यकाः || २७ || काञ्चनाऽभाः पद्मधराः शुभ्रवस्त्रविभूषणाः | दृष्ट्वा शक्तिगणं सर्वं तपस्यभिरतं सदा || २८ || मनो दधुस्तपस्येव त्वष्टस्ता अपि संययुः | भूयो ददर्श परितो जातं शक्तिचतुष्टयम् || २९ || पाशाऽभयवरसृणिधरा रक्ताङ्गभूषणाः | त्रिणेत्राश्च तपस्येव रता दृष्ट्वा च पूर्वजाः || ३० || पुनः सृष्टास्तथाऽन्याश्च पाशापुस्तकमालिकाः | दधाना अङ्कुशञ्चापि रक्तवर्णविभूषणाः || ३१ || पुनः सृष्टाश्श्क्त्यश्च तावत्यः स्फटिकप्रभाः | पाशाभयवरसृणिधरश्च तप आस्थिताः || ३२ || सृष्टाः पुनश्च तावत्योरक्ताऽकारविभूषणाः | तपस्येव रतास्ताश्च दृष्ट्वा शक्तीः पुरः स्थिताः || ३३ || अथ दृष्ट्वा तपः प्रौढं प्राह तां त्रिपुरेश्वरी | नित्यां षोडशिकां वत्से वरं ब्रूह्यभिवाञ्छितम् || ३४ || सायुज्यमेव सा वब्रे सर्वां मत्वाऽल्पिकां स्थितिम् | प्राप्ता च परया तत्र सायुज्यं षोडशी परा || ३५ || प्.५७७) या जाताः स्वाङ्गतो देव्याश्चतस्रः पञ्चधा च ताः | स्वयन्तु पञ्चमी भूत्वा तासां तुष्टा समास्थिता || ३६ || पञ्च पञ्चकतां तेन प्रापुस्ता नामपञ्चकम् | रत्नेश्वरीत्वमाद्यानां कामधुक्त्वं ततः परम् || ३७ || तथा कल्प्लतेशित्वं ततः कोशेश्वरीपदम् | लक्ष्मीश्वरीत्वमन्त्यानां शक्तिवृन्दाऽसने स्थितिम् || ३८ || प्रत्येकञ्च ददौ शक्तिसहस्रेश्वरतां शिवा | रत्नाः कामदघाः कल्पलताकोशाऽभिधायुताः || ३९ || लक्ष्मीसमाक्यास्ताः शक्तीस्त्वष्टर्जानीहि ताः पृथक् | पञ्चविंशतिसाहस्रसंख्यास्तास्तु पृथक्पृथक् || ४० || सेवमानाः स्वस्वनाथं प्रत्येकन्तुसहस्रकम् | पञ्चसाहस्र ससंख्याका मूलदेव्यास्तु शक्त्यः || ४१ || सिधालक्ष्मीस्तत्र चाऽद्या राजमातङ्गिनी परा | तृतीया भुवनेशानी तुर्या वाराहिका मता || ४२ || रत्नेश्वर्य एमाः प्रोक्तास्ततः कामदुघाः शृणु | सुधापीठेशरी चाऽद्या सुधासूश्च ततः परा || ४३ || प्.५७८) तृतीया चाऽमृतेशानी तुर्या चाऽन्नप्रपूरणी | अथ कल्पलतास्तत्र पञ्चकामा ततः परा || ४४ || पारिजातेश्वरी चाऽपि कुमारी च ततः परा | पञ्चबाणेश्वरी चाऽथ परंज्योतिस्ततः परा || ४५ || परानिष्कलशाम्भवी चाऽजपा मार्ट्का परा | इति कोशेश्वरीः प्रओक्ताः शृणु लक्ष्मीश्वरीस्ततः || ४६ || लक्ष्मीश्चाऽथ महालक्ष्मीस्त्रिशक्त्याद्या ततः परा | साम्राज्यलक्ष्मीश्च रमा चेति पञ्चकदेवताः || ४७ || एवं पञ्चकदेवीनां तपसा परितोषिता | ददौ समीपसंस्थानं बिन्दुचक्रोपरि क्रमात् || ४८ || आग्नेयादिषु कोणेषु तपसस्तु प्रकर्षतः | मातङ्गिन्याश्च वाराह्या ददावतुलसम्पदम् || ४९ || मन्त्रिणीत्वं सर्वलोककार्यमन्तणहेतुताम् | वाराह्या दण्डिनीत्वञ्चच दुष्टदण्डनेहतुताम् || ५० || ततः कालान्तरे हेमहरिन्मणिसुवप्रयोः | मध्यं स्थानं ददौ देवी प्रसन्ना परिसेवनात् || ५१ || एवं तपोविशेषेण तुष्टा स्थानं पुनर्ददौ | कामेश्वरी च वज्रेशी भगमालिनिका च या || ५२ || प्.५७९) ताभ्यः समयदेवीत्वं दत्त्वा स्वाऽग्रे च पृष्ठतः | वामे च दक्षिणे पार्श्वे स्थानं देव्यभिकल्पयत् || ५३ || उद्भाविता तु या देवी रहस्यतरनाम या | सा प्राप तपसोत्कर्षाद्वज्रसालाऽन्तरे भूवि || ५४ || आधिपत्यं वज्रनदीतीरे मन्दिरसंस्थितिम् | वज्रत्नेश्वरीत्वञ्च तेन वज्रेश्वरी मता || ५५ || पुनस्त्रिकोणकोणेषु स्थानं कामेश्वरीमुखाः | प्रापुस्तपस आधिक्यात्तथा कामेश्वरी पुनः || ५६ || अष्टाऽरेषु द्वितीयञ्च स्थानं प्राता तपोबलात् | तथाऽन्या अपि शक्तिस्तु महात्रिपुरसुन्दरी || ५७ || देव्या तया च स्थानेषु क्रमेण विनिवेश्यत् | एवं नवसु चक्रेषु विभत्य विनिवे य च || ५८ || स्वयं तत्तदधिष्ठात्री नवधा समजायत | त्रिपुरा त्रिपुरेशी च तथा त्रिपुरसुन्दरी || ५९ || ततस्त्रिपुरवासिनी त्रिपुरा श्रीस्ततः परा | त्रिपुरमालिनी त्रिपुरा सिद्धा त्रिपुराऽम्बिका || ६० || नवमी च स्वयं तन्त्र महात्रिपुरसुन्दरी | तत्तदावरणाऽद्याऽग्रे स्थिता तत्सदृशाऽकृतिः || ६१ || मूलदेव्याऽभिमुख्येन संस्थिताः सर्वशक्त्यः | तथा ब्रह्मादिभिर्दृष्ट्वा सर्वं शक्तिगणाऽवृतम् || ६२ || मत्वा न तत् सम्यगिति कामेशः प्रार्थितोऽभवत् | कामेश भगवन् देव त्वमपि सृज स्वांऽशतः || ६३ || प्.५८०) परिवारं शिवाकारं नैतदौपयिकं यतः | मन्यामहे शक्तिमहे शक्तिगणं केवलं विषमन्त्विति || ६४ || अथ कामेश्वरो देवः स्वांऽशाच्छक्त्यंशतोऽपि च | उभयांऽशात्तदन्यस्मादसृजद्वेदसङ्ख्यकान् || ६५ || मित्रीशषष्ठीशौड्डीशचर्यानाथाऽभिधास्ततः | पुस्तकाऽभीतिअरचिद्दधानान् स्फटिकप्रभान् || ६६ || श्वेतवस्त्राऽकल्पयुतांस्त्रिणेत्रान् रक्तशक्तिकान् | पद्माऽसनसमासीनान् प्रसन्नवदनेक्षणान् || ६७ || तान् गुरुन् शक्तिमन्त्राणामकरोच्छान्तविग्रहान् | पृथग्विद्यागुरुन् यूयं सृजध्वमिति चाऽब्रवीत् || ६८ || अथाऽद्यास्तत्र दिव्याख्यान् सिद्धाख्यानपरस्तथा | तृतीयो मानवाऽख्यांस्तु गणानसृजत क्रमात् || ६९ || मुनिवेदनागसंख्यान् सर्वविद्यागुरुनथ | नाथान्नवाऽसृजत्तुर्यः कालमूर्तीन्महाप्रभान् || ७० || प्.५८१) गुरुमण्डलमेवन्तु सृष्टमुग्रतरं तपः | तप्त्वा प्राप स्थानमपि त्वरिता पृष्ठभागके || ७१ || तत्र त्रिपङ्क्तिरुपेण मन्दिराणि क्रमेण तु | दिव्यसिद्धमानवौघगुरुणां संस्थितानि हि || ७२ || तत्र स्थानं प्राप्नुवन्ति त्रिपुरां परमेश्वरीम् | पूर्णोपासनयोगेनोपास्य शास्त्रोक्तमार्गतः || ७३ || गुरुभिर्बोधिताः पश्चात् प्रयान्ति परमं पदम् | इति ते पृष्टमाख्यातं रहस्यं परमं महत् || ७४ || इति श्रीमदितिहासोत्तमे त्रिपुरारहस्ये माहात्म्यखण्डे ललिलामाहात्म्ये श्रीचक्रे दिव्यौघादिदेवतानिरूपणवर्णनं नाम सप्तपञ्चाशत्त्मोऽध्याः || ४६८९ || प्.५८२) अथ भूयश्चतुर्वक्त्रं त्वष्टा पप्रच्छ सादरम् | जगद्विधे! त्वां पृच्छामि गुरवस्त्वौघरुपिणः || १ || कुतः समानसङ्ख्याका नाऽभवंस्तन्ममेरय | नाम तेषाञ्च सर्वेषामथाऽग्नेः कुण्डमीरितम् || २ || तत्राऽग्निश्चिन्मयः केन जातस्तदपि वर्णय | तत्र कुण्डे भवद्भिश्च स्त्रीरूपा केन हेतुना || ३ || विचिन्तिता पराशक्तिर्वदैतत् कारणं विभो | न तृप्याम्यद्भुतकथां संशृण्वन्नपि भूरिशः || ४ || को नु तृप्येत्पराशक्तेः स्वात्ममूर्तेः कथाऽमृतम् | पिबन्नपि चिरं दैवहतं स्थाणुमृते क्वचित् || ५ || तन्मे प्रब्रुहि भगवन् श्रोतव्यं यदि मे भवेत् | श्रुत्वा विश्वक्र्तोक्तं तत् प्रसन्नः प्रपितामहः || ६ || समाहितः शृणु कथां त्वष्टश्चित्रां पुरातनीम् | पार्वतीं सर्वतो गुप्तां प्रसन्नः प्रब्रुवे तव || ७ || प्.५८३) मित्रीशाद्यास्तु ये सृष्टा राजराजेश्वरेण ते | वाग्विद्यागुरवः सर्वे स्वच्छसंवित्तिरुपिणः || ८ || पश्यन्ती मध्यमा चेति वैखरी च परा तथा | चतुर्विधा शब्दमयी पराशक्तिर्विजृम्भते || ९ || तत् क्रमं ते प्रवक्ष्यामि सर्वत्रैव सुगोपितम् | त्रिपुराख्या हि या शक्तिः स्वच्छसंवेदनामयी || १० || न तत्र वागिन्द्रियाणि मनो वाऽप्यस्ति सर्वथा | सर्वास्तिसारभूताऽत्मरूपी परमेश्वरी || ११ || न धर्मो धर्मवान् वाऽपि सर्वधर्मविवर्जनात् | सर्वाऽश्रयचितिः स्वच्छा केवला वागगोचरा || १२ || तस्य चैतन्यमात्मेति न ततो विद्यतेऽधिकम् | तदेव सर्वस्वातन्त्र्यमतो मायाख्यमीरितम् || १३ || अतर्क्याऽपर्यनुयोज्यमाहात्म्यमखिलाऽश्रयम् | स्वयं स्वात्मानममलं विकल्पयति भूरिशः || १४ || लीलयैव सर्वजगज्जालमेष समीरतः | विकल्प एव शब्दात्मा स्थूलमध्यविभेदतः || १५ || सूक्ष्मकारणभेदाभ्यां चतुर्विधमिति स्थितम् | तत्र स्थूलन्तु यद्रूपं वैखरीति प्रकीर्तितम् || १६ || प्.५८४) तत्र ध्वन्यात्मकोऽव्यक्तो वर्णात्मा व्यक्त ईरितः | तल्लौकिकऽलौकिकत्वाद्विधा सर्वत्र संस्थितः || १७ || तत्राऽव्यक्तः सप्तविधो नादब्रह्माङ्कुरात्मकः | षड्जर्षभौ च गान्धारमध्यपञ्चमधैवताः || १८ || निषाद इति स्प्तैते तन्त्रीकण्ठादिजाः स्वराः | रागाऽभ्दिभूताऽग्निदस्रनागसंख्याविभेदिनः || १९ || एवं तु भूयो भेदेन न सङ्ख्येया भवन्ति ते | तदेतद्देवसंस्थानं गुरवः सप्तसङ्ख्यका || २० || दिव्यौघास्तेन सम्प्रोक्ता मित्रीशेन प्रभाविताः | व्यक्तस्त्वलौकिको विद्यामयः कूटचतुष्टम् || २१ || तदाश्रयाः सिद्धगणास्तेनैते वेदसङ्ख्यकाः | सिद्धौघगुरवः प्रोक्ताः षष्ठीशप्रतिभाविताः || २२ || लौकिकोमातृकाऽत्मा स्यादष्टकुटेश्वरीमयः | तत्संश्रया मानवाः स्युरतस्ता वसुसंख्यकाः || २३ || एकोनविंशतिमिता एवमोघत्रपस्थिताः | औड्डीशप्रभवा एते वसुसंख्यास्तु मानवाः || २४ || प्.५८५) शब्दः कालमयः सर्वो मात्रात्रयपराऽवधिः | ध्वनिराशिः समायुक्तो वरणराश्यष्टकेन च || २५ || तेन स्युर्नवनाथा वै चर्यानाथसमुद्भवाः | कालस्याऽवछेदकास्ते तुरीयपदसंश्रयाः || २६ || प्रकाशोऽथ विमर्शख्योऽथाऽनन्दो ज्ञानसंज्ञकः | सत्यः पूर्णः स्वभावाऽख्यः प्रतिभः सुभगाऽभिधः || २७ || इति मे नवनाथास्तु ओघानामधिनायकाः | ओघश्चतुर्विधो विद्याविभेदाद्युगभेदतः || २८ || मिश्रीतत्वाच्छक्तिमिश्रा गुरवः संव्यवस्थिताः | ओघस्तु पञ्चमोऽपि स्याद्गुरुविद्याप्रवर्तकः || २९ || द्वादशैकादशरसमितास्ते चक्रवाह्यगाः | वयं दिव्यभावाः सिद्धाः कुमाराद्याश्च मानवाः || ३० || नृसिंहाद्या इति प्रोक्ता गुरवस्त्वोघसम्भवाः | अथाऽग्नेश्चिन्मयत्वं ते वर्णयामि क्रमाच्छृणु || ३१ || गुणमूर्तौ तृतीयो यो महादेवो महेश्वरः | तमः क्रियः सत्त्वमूर्तिर्विकसश्चिन्मयाऽन्तरः || ३२ || देहिनां देहमध्यस्थं मार्गत्रयमनामयम् | दक्षवाममध्यसंस्थं पैङ्गलेडासुषुम्णकम् || ३३ || प्.५८६) इच्छाक्रियाज्ञानमयं तत्र भिन्नं द्वयं स्थितम् | बद्धं मध्यं ज्ञानमार्गं विद्वांसः राहुरार्यकाः || ३४ || चित्स्पन्दरूपी रुद्धापार्श्वाभ्यामूर्ध्वनिर्गता | क्रियामिच्छां चेतयति मर्त्यास्तेन हि चेतनाः || ३५ || क्र्येच्छामात्रसंयुक्ता ज्ञानमार्गस्य रोधतः | आश्रयीभूतचिन्मात्रस्योर्ध्ववाहश्च चेतनाः || ३६ || तिरश्चामूर्ध्वमार्गाणां संरोधात्तिर्यगा स्थितेः | न चेतयन्ति ते भूतं भव्यञ्च क्वचिदात्मनि || ३७ || तेनाऽचेतनतुल्यास्ते तिर्यञ्चः सर्व एव हि | एवं स्थिते महादेवो यस्त्रिनेत्रस्ततोऽधिकः || ३८ || अस्माकमन्तःसम्भिन्ना मध्यनाडी चिदास्पदा | तेनाऽन्तरस्मद्विज्ञानं पूर्णं समुपलक्ष्यते || ३९ || महादेवस्याऽन्तरे तु ज्ञानोद्रेकात्तदूर्ध्वतः | फालदेशे विनिर्भिन्न मध्यनाडी चिदात्मिका || ४० || अन्तस्तमोद्रेकभावाश्चिदेवाऽग्नितया स्थिता | तस्मात्तन्नेत्रसम्भूतश्चिदग्निरिति विश्रुतः || ४१ || अथ तत्तेऽभिधास्यामि स्त्रिरूपा चिन्तिता यतः | शृणु लोके विश्वकर्मन् यत्सुखं तच्चिदात्मकम् || ४२ || प्.५८७) अतः सुखे पशुनाञ्च प्रीतिः सर्वात्मना स्थिता | सुखावहं सुन्दरञ्चलोके प्रत्यक्षभावनात् || ४३ || योस्.इद्रूपं सुन्दर्ञ्च तस्माल्लोके जनैः सदा | प्रेक्ष्यते योषितां रूपं सुखस्हादनभावतः || ४४ | अन्यश्च तेऽभिधास्यामि सा या चिद्रूपिणि परा | स्ववैभवात्मकं विश्वं स्वातन्त्र्येण प्रकाशितम् || ४५ || नियत्या स्वाऽत्मनः शक्त्या नियतं सर्वमेव हि | अभिमानो वृथा मोहादहं कर्तेतिसंस्थितः || ४६ || यदि कर्ता स्वयं कुतोऽन्यत् प्रसमीक्ष्यते | तथाऽप्यसम्मतप्राप्तिर्भवेद्वा कथमीरय || ४७ || तस्मात् सृट्यादिकं किञ्चित् सर्व तस्या विजृम्भितम् | तस्माद्योषिन्मयध्यानं तयैव प्रविभावितम् || ४८ || सर्वं विश्वस्य वैचित्र्यं तत्स्वातन्त्र्यनिबन्धनम् | एवं स्थिता महाराज्ञी चिन्तामणिगृहे तदा || ४९ || महापद्भवनाऽन्तःस्थं वीक्ष्य तद्गृहराजकम् | मत्वा तदपि नो सम्यङ्महादेवः सदाशिव्ः || ५० || श्रीदेव्याज्ञां समादाय निर्ममे प्रोक्त्वत्पुरम् | ब्रह्माण्डेषु स्थिता देवा दैत्या मर्त्यादयोऽपि ये || ५१ || प्.५८८) उपास्य त्रिपुरेशानीं सालोक्यां मुक्तिमाययुः | ते तत्र तत्तत्स्थानेषु निवसन्ति पृथक् पृथक् || ५२ || इन्द्रब्रह्मादयोऽप्येवं नोवसन्ति चिरं पुरे | तत्तद्वप्रान्तरभुवि स्वाम्यं प्राप्य सुनिर्मलम् || ५३ || तत्तत्कालप्रमाणस्य नियुतं प्रोप्य वै ततः | विशन्ति परमं भावमवाङ्मनसगोचरम् || ५४ || तदन्तरे तु सम्प्राप्ता विधीन्द्रेन्दुमुखादयः | पूर्वं संस्थितसायुज्यं लब्ध्वा तिष्ठन्ति सर्वतः || ५५ || साम्प्रतं यो विधिस्तत्र विद्यते तेन संयुताः | ब्रह्माण्डान्तरसम्प्राप्ताः षष्टिसाहस्रसंख्यकाः || ५६ || प्.५८९) षट्शतञ्च त्रिषष्टिश्च सायौयं ब्रह्मणा गताः | इति ते सर्वमाख्यातं मानं श्रीपुरसंस्थितम् || ५७ || अत्र मेरौ प्रोक्तरीत्या पुरं रचय सुन्दरम् | यत्र श्रीपुरसाम्राज्ञी त्रिपुराम्बा भविष्यति || ५८ || वयं यत्र स्थितां नित्यं पश्यामो नेत्रसुन्दरीम् | इति धातृवचः श्रुत्वा विश्वकर्माऽतिविष्मितः || ५९ || निर्मातुं श्रीपुरं देव्या मेरुशृङ्गे मनो दधे | विभावयन् विधिप्रोक्तं हर्षनिर्भरिताऽतरः || ६० || इति श्रीमदितिहासोत्तमे त्रिपुरारहस्ये माहात्म्यखण्डे श्रीललितामाहात्म्ये श्रीपुरवर्णनपूर्वकं सायुत्यपदवीपर्यन्तंसिद्धिप्राप्तिवर्णनं नामाऽष्टपञ्चाशत्तमोऽध्यायः || ४७४९ || प्.५९०) एकोनषष्टितमोऽध्यायः हयग्रीवागस्त्यसम्वादे नारदेन भण्डसमुद्बोधनवर्णनम् एवं श्रुत्वा हयग्रीववाक्यमत्यन्तसुन्दरम् | कुम्भोद्भवः प्राह भूयस्तत्कथाश्रवणोत्सुकः || १ || भगवन्नश्ववदन भण्डदैत्यः समागतः | तपोविघ्नं निर्जराणां चिकीर्षन् वह्निनाऽवृतान् || २ || देवान्निशाम्य विमुखः प्रयातः शून्यपत्तनम् | ततः किमकरोत्तत्र तन्मे वद सुविस्तरम् || ३ || संशृण्वन् ललितेशान्याः कथां कथयतस्तव | पुनः श्रोतुं समीहा मे वर्धतेऽतितरां ननु || ४ || एवं पृष्टः कृम्भजेन मुनिः प्राह हयाऽननः | शृणु कुम्भोद्भव कथां विचित्रां परमाऽद्भुताम् || ५ || अपयाते भण्डदैत्ये देवेर्षिरथ नारदः | शून्यकं प्रत्याजगाम शरदभ्र्मिवाऽम्बरात् || ६ || तमायन्तं देवमुनिं भण्डदैत्यो विहायसि | ददर्श वृष्टमेघाभं वादयन् वल्लकीं शुभाम् || ७ || प्.५९१) समुद्गम्य समानीय मुनिं दैत्यः प्रपूजयत् | सम्पूज्य विधिना प्राह कृताञ्जलिरिदं च || ८ || देवर्षे स्वागतं नूनं चिरात्तेऽहं समीप्सितः | कृपया पश्य शिष्यं ते दुर्लभं ते कृपेक्षणम् || ९ || ब्रूहि द्वश्चिन्निर्जराणां प्रक्षीणाणां स्थितिं स्थिराम् | प्रायो विप्रा भीरवो हि गुरुर्मे भयमोहितः || १० || मद्बाहुवीर्यमविदं देवाऽसुरभयावहम् | देवाः शक्तिमुपासीनाः प्रसन्ना यदि सा भवेत् || ११ || पराजयस्ते ध्रुवं स्यात्तस्माद्विघ्नं समाचर | इत्युक्तोऽहं दैत्यगणैस्तत्राऽयातो जिघांसया || १२ || वह्निज्वालाऽवलीढांस्तान् दृष्ट्वा देवान् सवासवान् | हृष्टः प्रत्यागतः स्थानं तत्र पृच्छामि प्रस्तुतम् || १३ || कथं दावाग्नीना ग्रस्ता देवा भस्मत्वमाययुः | कश्चित्तत्र विमुक्तो वा तन्मे शंसमुनीश्वर || १४ || पृष्ट एवं देवमुनिः प्रहस्य प्राह दैत्यपम् | दैत्येश्वरेभ्योऽसूया मे न कर्तव्या कदाचन || १५ || नाऽनृतं कुत्रचिद्ब्रूमो वयं सत्यैकसंश्रयाः | प्रभाषसे कथं मुग्ध इव त्वं पण्डितोऽपि सन् || १६ || प्.५९२) विपरीतो ननु विधिर्यस्मात्ते बुद्धिरीदृशी | शोकस्थाने हर्षयुतो यतस्त्वं वीक्षितो मया || १७ || सुसमृद्धाः शत्रवस्ते महादेवी समाश्रयात् | आविर्भूता त्वद्वधाय तोषिता शक्रमुख्यकैः || १८ || चिदग्निकुण्डान्निर्याता ललिता परमेश्वरी | सर्वलोकेश्वरी दिव्यरूपाऽदभुतमहाबला || १९ || सर्वाऽयुधसमुपेताशक्तिशङ्घैः परीवृता | समेष्यति त्वां निहन्तुं किं तुष्यसि हि मूढवत् || २० || श्रुत्वा नारदसम्प्रोक्तं प्रहस्य प्राह दैत्यराट् | नूनं मया पुरैवोक्तं विप्राः प्रकृतिभीरवः || २१ || मुने जानासि नो मं त्वं साक्षान्मृत्योर्भयङ्करम् | विष्णुः सुरेष्वतिबली स युद्धेमे पराजितः || २२ || पञ्चोत्तरशताण्डानामधिपोऽहं पराक्रमी | देवासुरादिस्रष्टाऽहं लोकशस्त्राऽस्त्रसन्ततेः || २३ || मम वशे स्थिता ब्रह्मविष्णुमुख्यपरम्पराः | कथं भीतोऽसि स्त्रीगेतोर्निसर्गादबलाः स्त्रियः || २४ || तदन्तरे भण्डडैत्यपत्न्यः सम्मोहिनीमुखाः | देवर्षिमानयमासुरवरोधे सखीगणैः || २५ || प्.५९३) आगतं मुनिशार्दूलं सम्पूज्याऽसनमुख्यकैः | पाद्याऽर्घ्यैः सुबलिद्रव्यैः प्रणम्य प्राहुरादरात् || २६ || देवर्षे त्व्त्प्रसादेन धन्यास्त्वद्दर्शनेन च | वयमस्मान्निरीक्षस्व दृष्ट्या करुणया भृशम् || २७ || वयन्तु गुरूपत्नीभ्यः शुश्रूमोऽत्यन्तसाध्वसम् | उत्पन्ना ललिता देवी देवैः समभिपूजिता || २८ || भर्तुर्वधाय नो देवसौख्याय परमेश्वरी | तद्बोध्याऽसुरपतिं यथा नाशं न चैष्यति || २९ || शरणं त्वां प्रपन्नाऽस्मो निमग्ना दुःखसागरे | उद्धराऽस्मान् दुःखसिन्धोः पाहि नः परिचारिकाः || ३० || इत्युक्त्वा चरणौ स्पृष्ट्वा रुरुदुर्दैत्ययोषितः | वीक्ष्य तासां प्ररुदितं करुणाऽक्रान्तमानसः || ३१ || आनायय दैत्यराजं तं तत्र प्रोवाच नारदः | दैत्येश्वर ! मदुक्तं त्वं शृणु वाक्यं सुधासमम् ||३२ || मा शोचयाऽवलाश्चेमा मा नाशाय च बान्धवान् | हितवक्ता हि लोक्देषु जनः परमदुर्लभः || ३३ || अविचार्याऽगमाऽपायं मधुरं यः समक्षतः | वदेत्तमभिजानीयाच्छत्रुं मित्रस्वरुपिणम् || ३४ || प्.५९४) यो ब्रूयादागमाऽपायं विमृष्य परया धिया | कटुकं ह्यौषधसमं जानीयान्मित्रमेव तम् || ३५ || गुरुः काव्योऽत्यन्तधीरदीर्घाऽमर्शी प्रिये हितः | तदुक्तमत्यन्तपथ्यं रोगिणो भेष्जं यथा || ३६ || गुरुक्तमपरित्यज्य सौभाग्यं परमाप्नुयात् | तदहं प्रब्रवीमि त्वां यत्तद्दैत्यपते शृणु || ३७ || मन्यसे यत्स्वमात्मानं सर्वेभ्यो बलवत्तरम् | तत्राऽपि शृणु वक्ष्यामि कैटभो दैत्यशेखरः || ३८ || यस्याऽभून्मेदसश्चेयं मेदिनी लोकधारिणी | विष्णुना निहतो युद्धेऽप्रतिमो बलप्रौरुषे || ३९ || स्त्रियं तामबलां यत्त्वं मन्यसे तत् पुरा श्रूतम् | शुम्भासुरनिशुम्भौ च महिषश्च बलोद्धतः | तोऽनयैव परया महासुरबलैर्वृतः || ४० || अलं ते बलदर्पेण रिपुणा स्वाऽत्मघातिना | न किं स्मरसि गौर्या ते युद्धे पूर्वपराभवम् || ४१ || गौर्यादिभिर्बिशिष्टेयं ललिता परमेश्वरी | सेव्यते याऽनेककोटिगौरीप्रमुखशक्तिभिः || ४२ || प्.५९५) साऽस्याः शक्तेः पादनखसमं ब्रह्माण्डमण्डलम् | यस्य प्रसादादेव त्वं मन्यसे बलिनां वरम् || ४३ || सऽपि तस्या महादेवः पीठपादांशसम्भवः | तदलं स्वाऽत्मसर्वार्थनाशनाऽभिनिवेशतः || ४४ || प्रपश्येमाः प्रियाः साध्वीः शोचन्तीर्दैन्यमागताः | अहं त्वां तत्र नेष्यामि पराशक्तेः पदान्तिकम् || ४५ || क्षामयामि च तां देवीं त्वदर्थं सर्वयत्नतः | राज्यं प्रसाधि पाताले दिवं शासतु वासवः || ४६ || रक्ष दैत्यपरीवारान् मा विनङ्क्षीः प्रियैः सह | न करिष्यसि मत्प्रोक्तं यदा यहि विनङ्क्ष्यसि || ४७ || दैत्येश कश्चिन्मत्प्रोक्तं श्रुतं मनसि रोचते | धिया सात्त्विकया चैतद्विमृश स्वात्मरक्षणम् || ४८ || श्रुत्वेत्थं नारदवचो भण्डदैत्यः प्रहस्य च | हस्तेनाऽदाय देवर्षिं प्रारोहत् सौधशेखरम् || ४९ || मेरुशृङ्गप्रतीकाशं काञ्चनं सौधशेखरे | वातायने मणिमये विवेश मृदुविष्टरे || ५० || प्.५९६) सन्निवेश्याऽसने तत्र देवर्षि मृदुतूलजे | देवर्षमयि रोषं त्वं न शिष्ये कर्तुमर्हसि || ५१ || जानामि त्वा. महाभक्त्ं पराशक्तेः पदाऽश्रयम् | यद्ब्रवीष्यखिलं तत्ते नाऽन्यथा विदितं मया || ५२ || जानासि सर्वं मे वृत्तं लीलयैवं ब्रवीषि माम् || ५३ || अहं ननु रमादेव्या दूतो माणिक्यशेखरः | कदाचित् सा तोषणाय त्रिपुराया महत्तपः || ५४ || चक्रेऽब्दानां त्रिनियुतं जाह्नवीतटसंश्रया | कदाचित् किन्नरी काचित्तारुण्याऽमृतपूरिता || ५५ || उन्मज्जन्ती निमज्जन्ती पतिता जाह्नवीजले स्रोतोऽभिरुह्यमाना सा त्रातारं नाऽधिगच्छत || ५६ || दृष्ट्वा करुणयाऽविष्ट आप्लुतः स्वर्धुनीजले | तां पृष्ठतः समारोप्य तटमारुह्य सत्त्वरम् || ५७ || तां समावेशयं तत्र विज्वरा सा क्षणाद्बभौ | तदङ्गस्पर्शनाश्चाहं लावण्यस्य समीक्षणात् || ५८ || कामेन मोहितो जातस्तामवोचमिमां गिरम् | कल्याणि त्वं रक्षिताऽसि मया मृत्योर्मुखादिवा || ५९ || प्.५९७) त्वदङ्गसङ्गात् कामार्तो जालोऽहं रक्ष मामिह | कृते प्रतिकृतीं कुर्याच्छक्तः सर्वात्मना स्वयम् || ६० || अकुर्वन् प्रत्युपकृतिं निहन्त्यात्मानमात्मना | तन्मां कामाग्निनाऽविष्टमार्तं ते शरणाऽगतम् || ६१ || रक्षाऽधुना स्वात्मदानान्नो चेत् प्राणान् जहाम्यहम् | श्रुत्वा मद्विपरीतोक्तिं साध्वी सा किन्नरी वचः || ६२ || अब्रवीदमृतस्यन्दि मधुरं गुणवतरम् | मा बुद्धिभ्रंशमागच्छ किन्नरी पतिदेवता || ६३ || तपस्यभिरतो भर्ता इतो मे क्रोशपञ्चके | आस्ते तस्य प्रिया चाऽस्मि तरुच्छायेव सङ्गता || ६४ || नाऽतिवर्ते पतिं क्वाऽपि शृण्वन् यदपि कारणम् | य आपद्भ्यः समुद्धर्ता यश्च बाल्यप्रपोषकः || ६५ || स पिता धर्मतः शास्त्रे प्रोक्तस्तस्मात् पिता मम | त्वं ते सुता धर्मतोऽहं नैवं मां वक्तुमर्हसि || ६६ || पुरुषः स्वात्मनः शत्रुं मनो यच्छेदपस्थलात् | नाशयेत्तं मनः शीघ्रं मनो यस्य वशे न हि || ६७ || विमृश स्वच्छया बुद्ध्य धीरया लोकचेष्टितम् | स्त्रीसुखं सर्वतो ह्येकं न विशेषः पशुष्वपि || ६८ || प्.५९८) तत् स्वकान्तास्वेव रतिं मनसा भा नाऽन्यतः | पतिब्रतानां क्रोधाग्निं प्राप्य मा भस्मतां व्रजाः || ६९ || इत्यादिहितवाक्यानि वदन्ती बहुधाऽप्यहम् | काममोहपरीताऽत्मा पराम्र्ष्टुमुपद्रुत || ७० || सा क्रोशन्ती रमादेव्याश्चरणान्तिकमागता | वदन्ती रक्ष रक्षेति ततस्तस्यास्तु सम्मुखे || ७१ || परामृष्टोत्तरीये सा मया कामान्धचक्षुषा | अथष्ट्वाऽनयं देवी रमा क्रुद्धा शशाप माम् || ७२ || नैषा देवतनुर्मूढ ! दुर्विनीत तवोचिता | कृत्यं तवाऽसुरं ह्ये तत्ततस्त्वमसुरो भव || ७३ || तं शापं घोररूपन्तु श्रुत्वा कामस्य वेगतः | प्रतिबुद्धः शोकसिन्धुनिमग्नोऽभवमञ्जसा || ७४ || समाश्वस्ता किन्नरी सा न्त्वा स्वभवनं ययौ | पुनः प्राह रमादेवी मां मग्नं शोकसागरे || ७५ || धिगनार्य मत्समीपं न वस्तुं त्वमिहार्ऽसि | शरिरं ते घोररूपं परदाराऽभिमर्शनम् || ७६ || गच्छत्वदृश्यतां सद्यो भव वाययुशरीरकः | एवं तया प्रशप्तोऽहं भीतो देवीश्रियं तदा || ७७ || प्.५९९) प्रसाद्यं भुबिधैः प्रार्थनैः सन्नतैरपि | एवं चिरेण भूयोऽपि प्रसन्नाऽभवदम्बिका || ७८ || मया शापविमोक्षाय प्रार्थिता साऽह मां तदा | माणिक्यशेखर ! कृतं त्व्याऽत्यन्तविनिन्दितम् || ७९ || नैतस्याऽपचितिं चान्यां पऽऽयामि स्वल्पमप्युत | नाऽन्यथा मे भवेच्छापः कृतं भोक्तव्यमेव ते || ८० || नष्टदेहो वायुभूतश्चिरं स्थित्वाऽसुरो भव | किन्तु तां पतितां तोये दययोद्धृतवानसि || ८१ || तेन पुण्यप्रपाकेन विभवं सर्वतोऽधिकम् | प्राप्याऽनेकाऽण्डनाथत्वं भुक्ता भोगान यथेप्सितान् || ८२ || महादेव्या हतः सङ्ख्ये प्राप्य तल्लोकसंस्थितिम् | प्राप्य तत्र चिरं कालमसुरैः प्रतिपूजितः || ८३ || अन्ते तत्पदमासाद्य न भूयः सम्भविष्यसि | श्रुत्वैतद्वचनं भूयो ह्यपृच्छं लोकमातरम् || ८४ || देवि ! का सा महादेवी निहतः स्यां यया मृधे | सा किं त्वत्तोऽधिका देवी नाऽहं जाने तवाऽधिकाम् || ८५ || प्.६००) ब्रूहि सा कतमा का च तस्याः किं वा महित्वकम् | इत्यापृष्ता मया देवी प्राह श्रीलोकमातृका || ८६ || माणिक्यशेखर शृणु सा देवी सर्वतः परा | महाचितिस्वरूपा सा यस्याः प्रकृतिधर्मतः || ८७ || ब्रह्मा विष्णुर्हरश्चैव प्रत्यण्डं गुणमूर्तयः | ईशवरोऽपितिरोधानकरस्त्रिगुणजेश्वरः || ८८ || तत्राऽप्यनुग्रहकरः सदाशिव इतीरितः | यस्या ईक्षणलेशेनाऽनुग्रहादखिलं सृजेत् || ८९ || अनादिकालतो मायापाशितानणुसङ्घकान् | अनुग्रहान्मोचयितुं सृजत्येष महेश्वरः || ९० || न मुक्तिः प्रलयस्थानामणूनां शून्यभावतः | देहभावं समापन्ना सृष्टौ ज्ञातुं प्रभावितः || ९१ || सोऽपि तस्या अंशभूत इति सा साररूपी | सर्वाऽत्मरूपा परमा चितिशक्तिरुदीरिता || ९२ || सैवाऽस्त्यत्र जगश्चित्रभित्तिदर्पणसम्मिता | सर्वाऽत्मना वृंहणेन ब्रह्मशब्देन शब्दिता || ९३ || न स्त्रि न षण्ढो न पुमांस्त्रिपुरा चिच्छरीरिणी | अवाङ्मनसगम्या सा चेत्यनिर्मुक्तचिन्मयी || ९४ || प्.६०१) सा तु सप्तदशी नित्या परमेश्वरसंश्रया | द्वे कले तस्य नाथस्य कार्यता कर्तृतेति च || ९५ || कार्यता स्यात् षोडशधा कर्तृता चैकरूपी | इन्द्रियाणान्तु दशकं भूतानां पञ्चकं तथा || ९६ || अन्तःकरणमित्येवं कार्यता षोडशाऽत्मिका | कर्तृता स्यात् सप्तदशी कला नित्या महेशितुः || ९७ || सा षोडशाऽश्रयीभूता संवित सर्वस्य कारणम् | तां हित्वा न शिवःकश्चित् ब्रह्मा वाऽपि सदाशिवः || ९८ || ईश्वरः शिवविष्णू वा ब्रह्मा वा देवतागणः | नर नार्यः प्राणिजातं जङ्गमं स्थावरं तथा || ९९ || प्राणवश्चाऽप्राणकं वा न किञ्चिदवशिष्यते | भूषणेषु स्वरणमिव जलवत् सागरादिषु || १०० || शून्यत्वमिव चाऽकाशे स्पशंवत् स्यन्दवत्परे | तेजस्युष्णं यथा रूपं जलेस्पन्दोरसो यथा || १०१ || पृथिव्यां गन्धकाठिन्ये इव सा सर्वतः स्थिता | सा स्वाऽभासितलीलाऽत्मलोकोद्धरणहेतुना || १०२ || परश्रीचक्रनगरसाम्राज्ञीत्वमधिष्ठिता | जाता वयं तदङ्गेभ्यो वाक्श्रीगौरीसमाह्व्याः || १०३ || प्.६०२) काली क्रोधात् समुत्पन्ना महाकालेन संयुता | वचनात्तु तथा जाता तारा भैरवसंयुता || १०४ || पराक्रमात् समुद्भूता दुर्गा दुर्गतिनाशिनी | क्रौर्यात् प्रत्यङ्गिरोद्भूता महाशरभसंयुता || १०५ || शार्याज्जाता शूलिनी च मालिनी वाक्समुद्भवा | चण्डिका चण्डशब्देन धूम्रा क्रूरेक्षणेन च || १०६ || एवं सर्वास्तदङ्गोत्था न हि काचित्ततः परा | तस्या लीलाऽवतारेण ललिताऽख्येन सङ्गरे || १०७ || हतस्तल्लोकवसतिं चिरं प्राप्य विमोक्ष्यसे | इत्युक्तस्तु तया पश्चात् प्रार्थनं कृतवान् पुनः || १०८ || एवञ्चेदम्ब भवतु कीञ्चित्त्वां प्रार्थये पुनः | आसुरत्वं भवेद्योनिसम्बन्धेन विना मम || १०९ || पराशक्तेर्मुख्यभक्तशरीरान्मे जनिर्भवेत् | न जातु मामियं प्रज्ञा जहातु जगदम्बिके ! ||११० || प्रार्थितैवं तथैवाऽस्तु तवेत्युक्तवती रमा | तदहं भक्तमूर्धन्यात् कामाऽङ्गाज्जनिमाप्तवान् || १११ || पञ्चोत्तरशताऽण्डानामाधिपत्यं चिरं कृतम् | विषयानुत्तमान् भुक्त्वा नित्यञ्च चिरकालतः || ११२ || निर्विण्णो विषयेभ्योऽहं काङ्क्षे तस्या वधं स्वकम् | वस्तुं तस्याः समीपेऽहं तल्लोके कृतनिश्चयः || ११३ || प्.६०३) तस्याः पदाम्बूजं ध्यायन्नजस्रं परमेश्वरीम् | प्रतीक्षामि कदाऽगत्य विधिष्यति च मामिति || ११४ || पुत्रपौत्रकलत्राद्यैर्निहतस्तु तया रणे | तल्लोके निवसाम्याशु इति मे त्वर्ते मनः || ११५ || तद्गत्वाऽश्वास्य मे भार्यां बोध्याऽश्वविवेकतः | इति श्रुत्वा भण्डवचो नारदो हृष्टमानसः || ११६ || संश्लाध्य भण्डदैत्येशं समाश्वास्य च तत्प्रियाम् | जगामाऽभिमतं स्थानं नारदो मुनिसत्तमः || ११७ || इति श्रीमदितिहासोत्तमे त्रिपुरारहस्ये माहात्म्यखण्डे ललितामाहात्म्ये श्रीनारद-भण्डसम्वादे भण्डद्वारा स्वपूर्वजन्मकृतकर्म्मविपाअकात्परायाः कृपावशाद्देवीधामप्राप्तिवर्णनं नामैकोनषष्टितमोऽध्यायः || ४८७५ || प्.६०४) षष्टितमोऽध्यायः नारदहारितायनसम्वादे भण्डासुरविचारवर्णनम् इत्युदीरितमाकर्ण्य नारदो हारितायनम् | प्रसन्नः प्राह संहृष्तः स्वाऽनुभूतनिरूपणात् || १ || हारितायन ! साधुक्तं त्वयाइतच्चिरकालजम् | मानसं बाह्यमपि च ममाऽसीद्यत् पुरातनम् || २ || तद्यथातथनिर्देशात् स्मृतं मे प्रोक्तवत्क्रमात् | चिरकालेनाऽन्तरितमप्यद्येव तवोक्तितः || ३ || भात्यन्तःकरणे सर्वं धन्यस्त्वमसि भूतले | यत्पराकृपया सर्वं विदितं भाह्यमान्तरम् || ४ || तत्त्वां पृच्छामि मे ब्रूहि संशयोऽन्तश्चिरात् स्थितः | अतीतमान्तरं भाह्यं कथते विदितं ह्यभूत् || ५ || अदृष्टमशुतं वाऽपि कथं जानासि सुव्रत | श्रुत्वेत्थं नारदवचः प्रहस्य हारितायनः || ६ || देवर्षे शृणु वक्ष्यामि बह्वल्पमिदमीरितम् | अत्रोपपत्तिरपरे खण्दे सम्यग्भविष्यति || ७ || प्.६०५) यथाऽनुभूतं स्मरति जन एवमहं ननु | वरेण ब्रह्मणः सर्वबाह्यं वाऽप्यान्तरं तथा || ८ || त्वत्प्रसादेन जिता सा मात्रेणैवाऽनुभूतवत् | संस्मराम्यविदग्धंनु श्रीदेव्याः सुप्रसादतः || ९ || ततो दत्तगुरुः प्राह रामायैकाग्रचेतसे | शृणु भार्गव ! तत्पश्चाद्धायाऽस्यः कुम्भजन्मने || १० || प्राह युद्धकथां भण्डाऽसुरदेव्योर्महाद्भुताम् | शृणुकुम्भोद्भव मुने होमाऽग्निजनितां शिवाम् || ११ || ललितां सर्वलोकैकसुन्दरीं परमेश्वरीम् | दृष्ट्वा शक्रमुखा देवाश्चिन्तयामासुरान्तरे || १२ || नन्वियं तरुणी सर्वलोकसौन्दर्यमन्दिरा | लतेवाऽलम्बरहिता भर्तृहीना न शओभते || १३ || देवचिन्तां विदित्वैवं ब्रह्माद्या गुणमूर्तयः | दध्युः कामेश्वरं यावत्तावत्सोऽपि विनिर्गतः || १४ || तनोस्तस्या महादेव्याः समानाऽकारभूषणः | दृष्ट्वाऽनुरूप देव्यास्ते पतिरस्या वरो मतः || १५ || भूयाद्विवाहः (स्त्व?) अनयोरित्याशंसनतत्पराः | तद्विज्ञाय विधिमुखाः प्रार्थ्य देवीं परात्पराम् || १६ || प्.६०६) महोत्सवविधानेन विवाहं समकल्पयन् | अथ देवैः प्रार्थिता सा ललिता परमेश्वरी || १७ || बधाय भण्दैत्यस्य परिवारानकल्पयत् | समस्ताऽवरणौघांश्च स्मरणात् समवाऽसृजत् || १८ || तदन्तरे तु देवर्षिः प्राप्तो देव्याः पदाऽन्तिकम् | प्रणम्य दण्डवद्देवीं स्तुत्वा विविधसंस्तवैः || १९ || कृताञ्जलिर्बभाषे तां विनीतो नतकन्ध्रः | देव्यहं समनुप्राप्तो भण्डदैत्यस्य सन्निधे || २० || आगच्छति महासेनां विकर्षन् बलवत्तरः | तदहं प्रेषितस्तेन त्वामाहाऽसुरभूपतिः || २१ || अबला त्वं कस्य बलान्मया योद्धुं हि वाञ्छसि | अज्ञात्वा मद्बलं मुग्धा विनाशं मा व्रजाऽधुना || २२ || भव मत्पार्श्वगा शीघ्रं त्यज ब्रह्ममुखान् सुरान् | भूयः पराजितान्मत्तो मायामात्रसमाश्रितान् || २३ || मया विरुध्य कोऽप्यत्र योषिद्वा पुरुषोऽपि वा | द्वेयात् सुखं मृत्युमुखप्रविष्टमिव सर्वथा || २४ || इत्युक्त्वा युद्धसन्नहं परमं सम्यगादिशत् | मन्येऽहं त्वं जितप्राया तेन धीरेण साम्प्रतम् || २५ || प्.६०७) पृच्छामि देवि ! त्वां किञ्चिद्रहस्याज्ञापयाऽशु माम् | निशम्य नारदोक्तिं तां मन्त्रिणीं समवेक्षत || २६ || विदित्वा देव्यभिप्रायमिङ्गितज्ञाऽथ मन्त्रिणी | करेणाऽदाय देवर्षि रहसि प्राविशत् परा || २७ || अथ तत्र समसीना प्राह तं मन्त्रनायिका | पृच्छ नारद ! प्रष्टव्यं यत्ते मनसि विद्यते || २८ || जानामि त्वां परादेव्याः पादभक्तिपरायणम् | नूनं नाऽविदितं तेऽस्ति लोके श्रीपादसंश्रयात् || २९ || तथाऽपि पृच्छ तेऽभीष्टं छेद्मि संशयमाहितम् | आज्ञप्त एवं मन्त्रिण्या प्रणम्य सुरतापसः || ३० || प्राह बद्धाञ्जलिपुटः प्रश्नशब्दान् सुपेशलान् | देवी! भण्डासुरो दृष्टो मया सम्यक् परीक्षितः || ३१ || नूनं स सर्वभक्तानामस्माकं शेखरायितः | कथं युद्धे पराभूयात् परापादैकसंश्रयः || ३२ || अथाऽपि तेन सम्प्रोक्तमहं देव्या हतो युधि | चिरं निवस्य श्रीलोके ततो गच्छामि तत्पदम् || ३३ || प्.६०८) लल्लोकबाधकः कस्माद्धीनाऽचारोऽपि मुच्यते | वयंकस्माल्लोकगतिं विन्दामस्तदुब्रवीहि मे || ३४ || पृष्तैनं श्यामला राज्ञी नारदं प्रत्युवाच ह | शृणु मे नार्द ! वचो रहस्यमपि साम्प्रतम् || ३५ || श्रीपादसंश्रयः क्वाऽपि हीयते न कदाचन | तस्योत्तमपदप्राप्तिः सर्वथा स्यान्न चाऽन्यथा || ३६ || यथा बालस्याऽमयिनो माता पथ्यमपीच्छितम् | न यच्छति तथा पथ्यमौषधं ह्यनपेक्षितम् || ३७ || ददाति बलतस्त्वेवं तत्प्रपोषणतत्परा | तं भक्तशेखरं हत्वा दुष्कृतं विततं कृतम् || ३८ || दर्शनाऽलापशस्त्रार्द्यैर्विनाऽश्य बलवत्तरम् | स्वपदं प्रापयत्याशु तथा शृणु ब्रवीम्यहम् || ३९ || यस्तु यं प्रार्थयत्यर्थमेकान्तेन स्वचेतसा | तस्मै तत्त्रिपुरा शिघ्रं प्रयछति न संशयः || ४० || प्रतिकूलमभीष्टस्य यावन्नो नाशमृच्छति | तावदेव तस्य चिरं ततः स्वेष्टमवाप्नुयात् || ४१ || शृणु त्वं नित्यमुक्तोऽसि न ते मुक्तिः समीहिता | अज्ञस्य तत्समीहा स्यात् ज्ञस्य वै तत्कुतो भवेत् || ४२ || प्.६०९) बद्धो हि मुक्तिं वाञ्छेत यथा भूक्तिं बुभुक्षितः | तृप्तः कथं भुक्तिमिच्छेत्तवऽन्यो भोजयेत् कथम् || ४३ || अप्राप्तस्य प्राप्तिरिष्टा का या प्राप्तस्य सम्भवेत् | आकाशस्येव पूर्णस्य किं प्राप्तिः स्यात् कथंवद ? || ४४ || तस्मादज्ञस्य प्राप्तव्यो मुक्तिस्ते ज्ञस्य सा कथम् | श्रूत्वेत्थं नाअरदो मन्त्रिणीप्रोक्तं हृष्टमनसः || ४५ || प्र्णम्य ताञ्च त्रिपुरां जीवन्मुक्तो जगाम ह | अथ सा त्रिपुरा देवी भण्डाऽसुरवधं प्रति || ४६ || प्रार्थिता विधिविष्ण्वाद्यैर्निर्ययौ शक्तिसेनया | चक्रराजसमकाररथे पर्वनवाऽत्मके || ४७ || ऊर्ध्वोर्ध्वभूमिकाऽकरसदृशे समलङ्कृते | ऊर्ध्वभूमौ स्थिता युद्धसम्भारौघसुसम्भृता || ४८ || अभेद्यकवच (अद्यैश्च?) देशिताऽप्तिबिभीषणी | शस्त्राऽस्त्रनिचयोपेता रोषाऽरुणितलोचना || ४९ || धनुर्वेदो मूर्तिधरः स्थितः पार्श्वे कृताञ्जलिः | शस्त्राण्यस्त्राणि च तथा मूर्तिमन्ति स्थितानि वै || ५० || प्.६१०) अधोऽध्ः क्रमतः सर्वास्तथाऽवरणशक्तयः | देशिताश्चित्रकवचैः शस्त्राऽस्त्रैःसुपरिष्कृताः || ५१ || गुर्बौघा अपि सन्नाद्धाः संस्थिता युद्धकाङ्क्षिणः | तद्द्क्षिणे तु मन्त्रेशी सप्तपर्वविराजिते || ५२ || संस्थिता सपरीवारा सन्नद्धा युद्धकर्मणि | शुकादिश्यामलावर्गैः सेव्यमाना विनिर्ययौ || ५३ || दिव्यपानाऽमोदमदघूर्णनेत्राऽम्बुजद्वयी | तथाविधाऽसङ्ख्यकोटिमातङ्गतनयाऽवृता || ५४ || दानैर्वाद्यैर्नर्तनैश्च सोपहासपटूक्तिभिः | मन्त्रिणी तोषयन्त्यस्ता विलासैर्हास्यमिश्रितैः || ५५ || साऽपि श्रीललिताराज्ञीमन्त्रिणो मन्त्रकोविदा | तस्या मनोऽनुकूलेषु मन्त्रेषु नियतंस्थिता || ५६ || विशेषतो गीतवाद्यनर्मक्रीडासमुत्सुका | अथ तद्वामतो दण्ण्दसाम्राज्ञी शूकराऽनना || ५७ || किरिचक्रे पञ्चपर्वयुते सर्वोर्ध्वतः स्थिता | परिवृता ह्यनेकाभिर्जम्भिन्यादिस्वशक्तिभिः || ५८ || क्रोधमूर्तिः क्रूरतरा क्षमापनपरप्रिया | अपराधपरान् सर्वान् दण्डयन्ती सदा स्थिता || ५९ || प्.६११) महामहिषसिंहाभ्यां वाहनाभ्यां स्वपार्श्वयोः | स्थिताभ्यां सीरमुसलमुखशस्त्रैश्च शोभिनीम् || ६० || बटुकैर्योगिनीभिश्च कोटिभिः सा परीव्ट्ता | तथा श्रीललितादेश्या बाला त्रिपुरसुन्दरी || ६१ || कुमारी लघुचक्राख्यस्यन्दने समवस्थिता | निजावृत्तिमहाशक्तिगणैः परिसमावृता || ६२ || तस्या दक्षिणापार्श्वे तु प्राप्ता सम्पदधीश्वरी | रणकोलाहलाऽख्याने त्रिधा भिन्नेऽतिभीषणे || ६३ || वारणेन्द्रे विन्ध्यगिरिमहाशिखरसन्निभे | निसर्गमत्ते संरुढा महाङ्कुशविधारिणी || ६४ || तामन्वसंख्या मत्तेभाः कोटिकोट्यतिसङ्ख्यकाः || विन्ध्योद्भवा मलयजाः प्राग्ज्योतिषसमुद्भवाः || ६५ || सुशिक्षिता युद्धगतिपरिज्ञाः षष्टिहायनाः | प्रचेलुः सम्पदीशित्रीपरीवारसुशक्तिभिः || ६६ || शस्त्राऽस्त्रसमरज्ञाभिरधिरुढाः सुवेगिनः | तस्या श्रिता वामभागमश्वारुढा महेश्वरी || ६७ || अपराजितसंज्ञानमश्वरत्नं महोन्नतम् | गन्धर्वजातिजं वायुजवनं समधिष्ठिता || ६८ || प्.६१२) उच्चैऽह्श्रवपरीभाविसर्वलक्षणमण्डितः | ऽऽशुक्त्यर्धशुक्तिमणिभिर्देवस्वस्तिकपद्मकैः || ६९ || गण्डिकादिशुभैश्चिह्नैश्चिह्नितो हेमभासुरः | सूक्ष्माऽवधानतोऽप्यस्य न विदुः खुरसङ्गतिम् || ७० || अभिज्ञ्ः स्वामिचित्तस्य परागमविधानवित् | तामन्वश्वा असंख्येयाः सिन्धुटङ्कणम्भवाः || ७१ || आरदाः पार्वतीयाश्च वार्वराश्च सुतेजनाः | शोणाः श्यामाः सिताः पीताः कपिलाः पाटलास्तथा || ७२ || हरिता धूम्रवर्णाश्च कल्माषा नीललोहिताः | विचित्राश्चारुसर्वाङ्गा घनकेसरमण्डनाः || ७३ || विचित्रशिक्षागतयो नृत्यज्ञा लयसङ्गताः | विचित्रशस्त्राऽस्त्रधरशक्तिभिः समाधिष्ठिताः || ७४ || पुरः पतन्तः परितस्तरङ्गा इव वारिधेः | दारयन्तोऽवनिमिव खुरक्षेपैर्विनिर्ययुः || ७५ || खुरविक्षिपसम्भूतैश्चटश्चटरवैर्युतैः | द्वेषितस्वनसङ्घातैर्गजचीत्कारमिश्रितैः || ७६ || प्.६१३) शक्तीनां सिंहनादैश्च वीराऽस्फोटमहास्वनैः | जयभेरईरवैर्मृण्ड्ड्मृदङ्गझल्लरीरवैः || ७७ || गोमुखाऽनकनिः साणतालकाहलनिःस्वनैः | मिश्रितः श्रीचक्रराजरथनेमिगणोद्भवः || ७८ || महाध्वनिः सर्वदिशं पूरयन्निव सम्बभौ | श्रूत्वा श्रीललितादेव्या यैत्रयात्रामहास्वनम् || ७९ || दैत्याः साध्वसमत्यन्तं मृत्योरिव समाययुः | भण्डदैत्यः स्वात्मवधं चिराभिलषितं तया || ८० || श्रुत्वा तं निनदं ह्यारादध्यवस्यत सर्वथा | अथ दैत्यान् समालोक्य त्रस्तान् शुष्यन्मुखामबुजान् || ८१ || कृपया परयाऽविष्ट इदं स्वान्तरचिन्तयत् | नूनं हीमे मम कृते विनश्यन्ति सबान्धवाः || ८२ || लोके मृत्योर्नातिरिक्तं भयमस्ति कदाचन | मत्कृते निहतानेतान् शोचिष्यन्ति प्रियात्मजाः || ८३ || भगिन्यो मातृमुख्याश्च हन्त वैशसमीदृशम् | तदहं पुरतो गत्वा युद्ध्वा श्रीललिताम्बया || ८४ || तच्छस्त्राऽनलपूतात्मा प्रपद्येऽभिमतां गतिम् | शोचयामि कुतस्त्वेता वियोज्य स्वस्वबान्धवैः || ८५ || प्.६१४) तदलं घोरनिधनरोदनेन कृतेन मे | शक्तोऽरक्षन् स्वीयजनं शोकस्थानात् कथञ्चन || ८६ || बन्धुघ्नः स तु विज्ञेयः पुरुषादसमो जनैः | अथैवं मयि निर्त्य प्राप्ते देव्या निजाऽत्ययम् || ८७ || बन्धूनां शोक एवाऽस्मान्मया विरहिताऽत्मनाम् | कथं मयि हते देवत्रासना मम बान्धवा || ८८ || महर्द्धिशोभना देवैः परीभूता हृतर्द्धयः | भविष्यन्ति शुचा हीना न चैतदपि सम्मतम् || ८९ || प्राप्य सर्वोच्छ्रयं कश्चिदभिभूतः कथं भवेत् | नूनां मयि हते देव्या भ्रातृपुत्रादिबान्धवः || ९० || शूरास्तु तत्क्ष्णे एव वीर्यक्रोधसमुच्छ्रिताः | युधाऽग्नौ स्वात्मशलभान् भस्मीकुर्युर्न संशयः || ९१ || अथ ये कातराः स्वल्पवीर्यास्तेऽवनिरन्घ्रगाः | देवा इव दैन्यभाजो वियुताः स्त्रीसुतादिभिः || ९२ || शोचयन्तस्तथाऽन्योन्यं भवेयुर्वै मृताऽधिकाः | आरोदनन्तु बन्धूना नाअस्तीति न कथञ्चन || ९३ || प्.६१५) तद्वृथा किं चिन्तनेन मन्ये नाऽन्यदितो वरम् | आदौ देव्या हतेष्वेषु ततोऽहमभवंहतः || ९४ || अयं श्रेयान् हि मे भाति सन्त्यत्र बहुशो गुणाः | पावनंदेवताशस्त्रैः प्राप्तिर्लोकोत्तमस्य च || ९५ || परीभवाऽद्यसम्भावः कीर्तिर्लोके महत्तरा | अत्राऽपि मन्ये स्त्रीबालमुखानां न् हि सम्भवम् || ९६ || अप्रतीर्कायमेतत्तु दैवमत्र परायणम् | अथ वैतन्मया पूर्वं श्रुतमब्जासनान्मुखात् || ९७ || सा परा त्रिपुरा देवी भक्तवाञ्छाप्रपूरणी | इति तन्मे परीवारं न शोषयतु सा परा || ९८ || न मे चैतेनाऽहमेषां परमार्थंस्वभावतः | जानानस्याऽपि मे देवी मोहमुत्पादयत्यलम् || ९९ || तन्मे विचिन्तनं व्यर्थं स्वप्नसारे जगत्स्थितौ | तत्तं सर्वेण भावेन शरणं प्राप्तवानहम् || १०० || तन्मां नियोजयेद्यद्वन्नियुक्तोऽस्मि न चाऽन्यथा | पाहि मां परमेशानि शरण्ये ! शरणागतम् || १०१ || मोहजालप्रबन्धान्मामभ्युद्धर्तुमिहार्ऽहसि | इति प्रार्थ्य महादेवीं त्रिपुरां भण्डदानवः || १०२ || निशाम्य दैन्यमापन्नान् बन्धून् स्वपरितः स्थितान् | हर्षयन्निति होवाच पराक्रमयुतं वचः || १०३ || प्.६१६) हे दानवा ! मम वचः शृणुध्वं श्रद्धया परम् | न मे मृयुः कुतोऽप्यस्ति मृत्योर्मृत्युरहं यथ || १०४ || शस्त्राणाञ्च तथाऽस्त्राणां महामायाविनामपि | सचराऽचरलोकानां स्रष्टाऽहं वः समक्षतः || १०५ || पञ्चोत्तरशताण्डानामीश्वरोऽहं महाबलः | तत्रेमामबलां ज्ञात्वा न शीघ्रं हन्तुमुत्स्हे || १०६ || युद्धनिर्भरतामस्या दृष्ट्वा निर्जित्य लीलया | स्वाऽन्तः पुरं समानीय महाऽनन्दमुषैम्यलम् || १०७ || इति श्रीमदितिहासोत्तमे त्रिपुरारहस्ये माहात्म्यखण्डे श्रीललितामाहात्म्ये श्रीदेव्या सह युद्धकरणाय सज्जीभूतस्य भण्ण्दासुरस्योहामपोहवर्णनं नाम षष्टितमोऽध्यायः || ४९८३ || प्.६१७) एकषष्टितमोऽध्यायः श्रीललितायाः सैन्यव्यवसायज्ञानाय दैत्यराजेन स्वदूतप्रेषणवर्णनम् इत्युक्त्वा पार्श्वगं सूतं दीर्घग्रीवं महाऽसुरः | बभाषे क्रोधताम्राक्षो रथः संयुज्यतामिति || १ || अथ सूतो निमेषण सन्नद्धं स्यन्दनोत्तमम् | निवेदयद्दैत्यनाथे प्रणम्याऽतिविनीतवत् || २ || आरुरोह रथश्रेष्ठं भण्डदैत्यः प्रतापनः | गृहीत्वा सशरं चापं प्रचचालाऽतिरोषितः || ३ || दृ.ष्त्वा श्रुत्वा च दैत्येशं व्रजन्तं यद्धकारणात् | दैत्या विनिर्ययुः शीघ्रं सन्नद्धाः क्रोधमूर्छिताः || ४ || पुरतः पार्ऽऽश्वयोः पृष्ठे सर्वतः परिवार्य तम् | निर्ययुर्दैत्यसुभटाः सङ्घशो धृतहेतयः || ५ || भण्डदैत्यसुताः सर्वे भण्डतुल्यपराक्रमाः | कुटिलाक्षोऽग्रजस्तेषाममेयबलविक्रमः || ६ || स्यन्दनस्थाः सुसन्नद्धाः समरेष्वनिवर्तिनः | अक्षौहिणीशतयुता भण्डदैत्याऽग्रतो ययुः || ७ || अहम्पूर्विकया युद्धे ये संस्पर्धन्ति नित्यशः | पार्श्वयोर्दैत्यपराजस्य विषङ्गश्च विशुक्रकः || ८ || चेलतुर्भ्रातरौ तस्य विष्णुतुल्यपरक्रमौ | रथस्थौ तौ महाचापौ क्रुधाऽरुणितलोचनौ || ९ || ग्रसन्ताविव सैन्यानि परेषाम् ययतुर्द्रुतम् | प्रत्येकमक्षौहिणीनां शतेन परिवारितौ || १० || उग्रकर्ममुखास्तस्य मन्त्रिणो भीमविक्रमाः | अनुजग्मुर्दैत्यपरिं शताऽक्षौहिणिसंयुताः || ११ || एवं प्रचलिते दैत्यनाथे समरकारणात् | रराज राजपथ्या तु प्रावृट्कालनदी यथा || १२ || कूलङ्कषा दैत्यजला रथाऽवर्तसमाकुला | तुरङ्गभङ्गा द्विरदग्राहा खेटककच्छपी || १३ || उन्मीषत्फेनपिण्डाऽढ्या पताकालहरीयता | खड्गदीर्घमहासर्पा तूणिमत्स्यविचित्रिता || १४ || दानवाऽस्याऽम्भोजततिस्तन्नेत्रशफरीगणा | विचित्रच्छत्रहंसादिपतत्रिततिमालिनी || १५ || उच्छलत्तुरगोत्तुङ्गशिंशुमारकुलाऽविला | रथघोषमहाघोषा वाहिणी जलवाहिनी || १६ || प्.६१९) निर्गमत्तत्पुरद्वारान्महतो रत्नगोपुरात् | कुल्यामुखाज्जलं ह्याशु केदारे प्रसृतं यथा || १७ || पुरद्वाराद्वाहिनी सा प्रसृताऽभुद्बहिः क्षणात् | तदन्त्रे तु विजयः प्राप्य दैत्येश्वरं द्रुतम् || १८ || मन्त्री प्रणम्य विन्यस्य मूर्ध्न्यञ्चलिपुटं स्थितः | प्राप्याऽज्ञामवदत्तं सुवचस्तत्कालसम्मतम् || १९ || दैत्येश्वर महाराज कीर्तिस्ते सर्वतस्तता | प्रतापतपनश्चोर्ध्वे ब्रह्माण्डानि तपत्यसौ || २० || बलवत्तर एषोऽत्र हरिरेको विभावितः | सोऽपि त्वत्सम्मुखं प्राप्य युद्दे भूयः पराजितः || २१ || तत्त्वां युद्धे जयेत्कश्चिदिति मोघो हि निश्चयः | तथाऽपि मन्त्रिणा काले चार्ऽथशास्त्रप्रमाणतः || २२ || विमृश्य राज्ञे वक्त्व्यं हितभागमसम्मितम् | काले युक्तमनुक्त्वा तु न सुमन्त्रित्वमर्हति || २३ || चत्वार एव सम्प्रोता उपाया दण्डसाने | तत्रैकिअओऽपि स्वे काले सम्मतो बलवत्तरः || २४ || अन्यकालेऽन्यमातिष्ठन्मूढदुर्मन्त्रिमन्त्रितः | नश्येदसदृशं भुक्त्वा ह्यामयीवाऽगदं नृपः || २५ || प्.६२०) तत्राऽध्यसितं प्राज्ञैर्दूतचारदृशाऽखिलम् | दृष्ट्वा युद्धं तेन श्रेयःसमाप्नुयात् || २६ || तत्सम्मतौ दूतचारौ परेषु द्रुतम् | तावत् सेनाऽपि सन्न्द्धा भविष्यत्यविशङ्किता || २७ || रक्षणं नगरस्याऽपि विहितं स्याद्यथाविधि | विज्ञप्तव्यमिदं काले मया ते स्वामिनः पुरः || २८ || विज्ञापितं तद्भवता कर्तव्यं कालसम्मितम् | निशम्य मन्त्रिवाक्यं तद्युक्तं कुशलसम्मतम् || २९ || समाधानाय बन्धूनामभिमन्यत मन्त्रणम् | निवेश्य सेनापतिभिः सेनां तत्र विभागशः || ३० || पुररक्षाविधानाय कुटिलाक्षमवाऽसृजत् | अमित्रघ्नं मन्त्रिवर्यं प्राह भण्डमहाऽसुरः || ३१ || गच्छाऽमित्रघन मच्छास्त्या तां ब्रूहि ललिताऽभिधाम् | नाऽहं त्वां सुन्दरीं देवीं सर्वथा संश्रयोचिताम् || ३२ || वाञ्छामि योद्धुं तत्कस्मान्मां योद्धुंत्वामिहागता | युद्धश्रद्धा तवेयं वै सम्म्तं मम सर्वथा || ३३ || न बिभेमि महायुद्धे तत्त्वद्युद्धे भयं कुतः | किन्त्वहं त्वां प्रियाकारां दृष्ट्वा द्रुतं मनोभवाम् || ३४ || प्.६२१) तत्सुराणां परित्यज्य पक्षं मत्संश्रया भव | साम्ना युद्धेन वाऽपि त्वां करोम्यात्मसमाश्रयाम् || ३५ || मद्विरोधेन ते लोके हानिरेव न संशयः | विमृश्यैतद्द्रुततरं पक्षमेकतरं भज || ३६ || इति तां ब्रूहि साम्ना च ज्ञात्वा तस्याः समीहितम् | बलञ्चसर्वं तत्कृत्यं ज्ञत्वाअ याहि द्रुत पुनः || ३७ || अथ मायाविनां श्रेश्ठं विद्युन्मालिनमाह सः | विद्युन्मालिन्महाप्राज्ञ मायाविकुलनायक || ३८ || परैरविदितो गत्वा देव्याः सेनामशेषतः | बलञ्च व्यवसायञ्च भेदच्छिद्राणि युक्तितः || ३९ || विचार्य शीघ्रमायाहि त्वमत्र कुशलोह्यसि | आज्ञप्तावितरौ दैत्यौ ययतुः शक्तिवाहिनीम् || ४० || अनन्तामब्नुधिप्रख्यामविगाह्य कथञ्चन | अमित्रघ्नो महासेनां विवेशाऽब्धिं यथा प्लवः || ४१ || उत्खातकरवालाभिः शक्तिभिः परिरक्षिताम् | प्रविष्टमात्रं शक्त्या स गृहीतो बलवत्तरः || ४२ || परिचारिकया दण्डनाथायाः काञ्चनाऽभया | चपेटया निहत्याऽशु गृहीत्वा तं गलेऽसुरम् || ४३ || प्.६२२) तर्जयामास वचनैः क्रोधयुक्तैर्भयङ्करैः | कस्त्वं सेनामिमां देव्या दण्डराज्ञीसुरक्षिताम् || ४४ || अविज्ञाप्य प्रविष्टोऽसि चाऽस्मत्प्रमुखवीक्षिताम् | आज्ञां विना दण्डराज्ञ्याः प्रविष्टो वाहिनीमिमाम् || ४५ || जीवन्नो यास्यसि पुनः साक्षान्मृत्युरपि स्वयम् | तदन्तरे तु सम्प्राप्ताः सैन्यरक्षानियोजिताः || ४६ || दण्डिन्याज्ञाप्रतीक्षिण्यः शक्तय शतशः क्षणात् | प्रबलाभिः समाकृष्टो निहतो मूर्च्छितोऽभवत् || ४७ || श्रुत्वा तदन्तरे दण्डनाथा दैत्यस्य सङ्गतिम् | समक्षं ह्यानयामास स्वपरीचारशक्तिभिः || ४८ || पृष्ट्वा तं ह्यागतं दूतं ज्ञात्वा भण्डाऽसुरस्य हि | विज्ञाप्य मन्त्रिणी देव्याः समीपमानयत्ततः || ४९ || साऽपि विज्ञाप्य तं प्राप्तं ललितायाः समीपतः | नीत्वा पप्रच्छ दूतं तं कृत्यं तत्राऽगमस्य हि || ५० || प्राह प्रणम्याऽमित्रघ्नः प्राप्तो भण्डनिदेशतः | दूतोऽहं तस्य दैत्यस्य तदुक्तं संब्रवीम्यहम् || ५१ || प्.६२३) आवयोर्न विरोधोऽस्ति कुतो योद्धुं समागता | युद्ध्वावाऽप्ययुद्ध्वावा वा देवि भूयास्त्वं मत्समाश्रया || ५२ || तत्त्वामात्मप्रियां हृद्यां योधयामि कथं वद ? तद्देवान् सम्परित्यज्य भव त्वं मत्समाश्रया || ५३ || वक्तव्येति त्वया गत्वा ज्ञेयं सेनाबलाऽबलम् | इत्यहं प्रेषितस्तेन दूतबध्या [धः] विनिन्दिता [नः] || ५४ || शास्त्रेषु दूतस्य वधं न वदन्ति विचक्षणाः | इति मत्वा प्रविष्टोऽहं लक्षैतः सर्वशक्तिभिः || ५५ || प्रविष्टमात्रोऽभिमतो गृहीतस्तव शक्तिभिः | आनीतस्ते समक्षञ्चेत्येतत् सर्वं निरुपितम् || ५६ || अग्रे देव्येव शरणमयोग्योमे वधो भवेत् | निशम्य दूतवचनं ललिताया मतं ततः || ५७ || विदित्वा मन्त्रिणी प्राह स्मेरमञ्जुलभाषिणी | माभैर्दैत्य व्रज सुखं हन्यसे न कदाचन || ५८ || ब्रूयास्तं भण्डदैत्येशं मयोक्तमवधार्य च | यदि ते जीवने श्रद्धा द्रुतमागत्य निर्भयः || ५९ || शरणीकुरु देवेशीं त्रिलोकीं सम्परित्यज | त्रिलोकेशो भवेदिन्द्र त्वं पाताले निवत्स्यसि || ६० || प्.६२४) कुरु सख्यं गोत्रभिदा सपुत्रबलवाहनः | अन्यथा न विमोक्षस्ते जीवन् क्वाऽपि भविष्यति || ६१ || नयैनं दण्डसाम्राज्ञि सेना दर्शय सर्वतः | दर्शयित्वा ततः सेनबहिरेनं विसर्जय || ६२ || इत्याज्ञप्ता कोलमुखीं प्रदर्श्य स्वामनीकिनीम् | व्यसर्जयत्तं दैतेयं बहिः सेनानिवेशनात् || ६३ || अथ मुक्तः पुनर्जातमात्मानं सममंसत | जगाम राजसविधं भयविह्वलिताऽन्तरः || ६४ || विद्युन्माली निशाम्यैनममित्रघ्नविहिंसितम् | भीतो रात्रौ महामायः कौशिकिं तनुमाश्रितः || ६५ || विचरन्नाकाशमार्गे सेनां सर्वां निशामयत् | गणयित्वा सर्वसेनां ब्रजन्तं गगनाऽध्वनः || ६६ || जग्राह काचिच्छक्तिस्तं खेचरी निशिरक्षिणी | गृहीतमात्रो मायावी प्रोड्डीय गगनोर्ध्वतः || ६७ || पञाशद्योजनादूर्ध्व युयोध स तया भृशम् | चिरं युद्ध्वा शूलहतस्तया मुक्तः कथञ्चन || ६८ || जगाम दैत्यनृपतिमीषत्प्राणाऽवशेषितः | पपात पुरतस्तस्य सूर्यस्योदयनं प्रति || ६९ || प्.६२५) दृष्ट्वाऽग्रपतितं दैत्यं म्रियमाणं भृशं हतम् | भण्डासुरो जपन्मन्त्रं पस्पर्शाऽङ्गेषु पाणिना || ७० || मन्त्रस्पर्शनमात्रेण जीवितश्च गतव्यथः | उत्थाय प्रणनामाऽशु दैत्यराजं पुरःस्थितम् || ७१ || अथपृष्टः प्राह विद्युन्माली वृत्तं स्वकं क्रमात् | महाराज त्वत्समक्षं गतोऽमित्रघ्नसंयुतम् || ७२ || दृष्टवानस्मि तां सेनां प्रलयाम्बुधिसन्निभाम् | अथाऽमित्रघ्न एवाऽदौ प्रविवेश महाचमूम् || ७३ || पऽऽयतो मे क्षणेनैव हृहीतः शक्तिभिर्बलात् | मधुवन्मक्षिकाभिः स समाक्रान्तोऽथ शक्तिभिः || ७४ || क्षणेन विगतप्रज्ञः समभूद्बलवानपि | अशक्तः स्पन्दितुमपि क्व युद्धं क्व पलायनम् || ७५ || कथञ्चिदपि नो जीवेत् स इत्थं मम निश्चयः | तावद्भीतोऽप्यहं दुरात् पलायनपरोऽभवम् || ७६ || भवदाज्ञागौरवेण न निवृत्तोऽस्मि ते भयात् | ततो दिनाऽवसानेऽहं मायाघूकत्वमास्थितः || ७७ || उपर्युपरि सेनायाः सञ्चरंस्तां निशामयम् | सा सेना महती दृष्टा भीमा भीषणनादिनी || ७८ || संवर्तकालसंक्षुभमहोर्मिजलधिर्यथा || दर्शनदेव सेनाया यस्यन्ति मृतिमासुराः || ७९ || प्.६२६) तत्र सर्वा महाभीमाः शक्त्यो भीमविक्रमाः | अहम्पूर्विकया यद्धं कर्तुमादौ समुत्सुकाः || ८० || तत्र बाला कुमारी या ललितायाः प्रियाऽत्मजा | कुमारिभिः कोटिशतसंख्याभिः परिवारिता || ८१ || शस्त्राऽस्त्रकौशलाऽभिज्ञा युद्धसन्नाहसम्भ्रमा | भण्डपुत्रान् निहन्मीति सा ब्रवीति पुनः पुनः || ८२ || कुमार्योऽपि चता ब्रूयुर्भण्डपुत्रसुवाहिनीम् | नाशयामः क्षणेनाऽतिगर्जन्त्यः समरोत्सुकाः || ८३ || अथ सम्प्त्करी चाऽश्वाऽरुढाख्या शक्तिनायिका | गजानश्वानसंख्यातान् महाशक्तिभिरास्थितान् || ८४ || कर्षन्त्यौ ते बलोदग्रे बालापार्श्वद्व्याऽश्रिते | अथ बाला पृष्ठतस्तु महारथनिवासिनी || ८५ || ललिता श्रीमहादेवी नवाऽवरणशक्तिभिः | अप्रमेयबलक्रौर्यशौर्थयुक्ताभिरावृता || ८६ || तस्याः पार्श्वद्वये मन्त्रनाथा दण्डधराऽस्थिता | प्रत्येकं रथमारुढा महाऽद्भुतपराक्रमा || ८७ || अनेककोटिमातङ्गकन्याभिः स्वसमाऽत्मभिः | चित्रवीर्याभिरभितः संवृतामन्त्रिणी स्थिता || ८८ || वाअराह्यपि महाभीमविकराऽकृतिनामभिः | शक्तिभिर्बटुकाद्यश्च संयुताऽतिरुषान्विता || ८९ || प्.६२७) सर्वत्र शक्तिसेनासु न मया क्वाऽपि लक्षितम् | यत्र ते वधवृत्तान्तसङ्गतिर्न हि संस्तुता || ९० || तत्रैकाऽप्यवर शक्तिः सर्वमस्मद्बलं क्षणात् | नाशयेदिति मे बुद्धिर्व्यवसायं समास्थिता || ९१ || शतकोटिपरार्धानां कोद्यर्बुदशतत्मिका | सेनैवं शक्तिनिचिता दैत्यराज ! वदामि ते || ९२ || शक्तिरन्यमता तेषु बले वीर्ये च विक्रमे | सर्वान् दैत्यगणानस्मानतितिष्ठति सर्वथा || ९३ || इत्युक्त्वा दैत्यराजं तं प्रणिपत्य कृताञ्जलिः | विद्युन्माली समभवत्तूष्णी दैत्यसभागतः || ९४ || इति श्रीमदितिहासोत्तमे श्रीत्रिपुराहस्ये ललितामाहात्म्ये भण्डदूतस्यविद्युन्मालिनश्चारवाक्यं नामैकषष्टितमोऽध्यायः || ५०७७ || प्.६२८) द्विषष्टितमोऽध्यायः राक्षसराजाय राक्षसगुप्तचरेणामित्रध्नेन यथायथं देवीसन्नाहवर्णनम् अथ क्षणादमित्रघ्नः प्राप्तो दैत्यसभान्तरम् | भण्डासुराऽङ्घ्यरोरपतद् भयविह्वलितान्तरम् || १ || आशवस्तः प्राह सचिवैः पृष्टो वृत्तं प्रवेपितः | महाराज त्वदाज्ञप्तो गतः शक्तिमहाचमूम् || २ || प्रविष्टः शक्तिभिस्ताभिर्गृहीतो बलवत्क्षणात् | न मे वीर्यं बलं वापि बभौ शक्त्यग्रतः क्वचित् || ३ || रविप्रभानिमग्नस्य खद्योतस्येव सुप्रभा | क्षनेन तासां ग्रहणाद्विसंज्ञोऽभवमञ्जसा || ४ || अथ नीतो दण्डनाथासविधं मृतवत् स्थितः | सा कुलाद्रिरिवोन्नम्रा क्रोडास्या काञ्चनप्रभा || ५ || क्रोधाग्निमुद्गिरन्तीव सुनेत्रैर्घर्घरारवा | तादृग्विधं शक्तिगणं तस्याः क्रोधप्रदीपितम् || ६ || दृ.ष्त्वाऽहमभवं भूयः श्वसितुञ्चाऽपि नो विभुः | तस्या नियोगान्नितोऽहं शक्तिभिर्मन्त्रिणीपुरः || ७ || प्.६२९) सा दृष्टा मन्त्रिणी देवि तापिच्छदलसन्निभा | सौन्दर्यकुलसारङ्गी पूर्णतारुण्यगर्विता || ८ || मन्दस्मितमुखी पानमदमाद्यद्विलासिनी | गीतहास्यपरा नित्यं विणावादननिष्ठिता || ९ || तस्याः प्रसन्ननेत्राब्जाऽमृतवर्षाऽभिजीवितः | अन्ववेक्षमहं सर्वसौभाग्यैकसमाश्रयाम् || १० || तयाऽनुयुक्तो निखिलमवदं तव भाषितम् | तया नीतो महाराज्ञ्याः समक्षमहमाश्वथ || ११ || सा दृष्टा ललिताराज्ञी महाविभवसंश्रया | सन्देशं वाचयन्मह्यं यत्तत्ते मन्त्रिणीमुखात् || १२ || वक्ष्यामि शृणु दैत्येश सावधानेन चेतसा | ब्रूयास्तं भण्डदैत्येशं जीवने यदि ते मतिः || १३ || त्रिलोकीं विसृजेन्द्राय शरणीकुरु मातरम् | निवस त्वं परीवारयुतः पातालसद्मनि || १४ || इन्द्रेण सङ्गतो भूयाः पुत्राऽमात्यदिसंयुतः | अकृत्वैवं न ते मोक्षो लोकाऽन्तरगतस्य च || १५ || इन्द्रशत्रिमहं त्वां तु (?) स नेष्याम्यात्मसंश्रयम् | इति त्वया तत्र गत्वा वक्त्व्यो भण्ददानवः || १६ || तदन्तरे शक्तिरेका श्यामा तुरगसंश्रया | करालकरवालोद्यत्करा तत्र समाययौ || १७ || प्.६३०) अवर्ह्या स्ववाहनात् सा प्रणम्य ललिताऽम्बिकाम् | मन्त्रनाताञ्च वृतान्तं बभाषे साऽनुयोजिता || १८ || प्रेषिता भण्डदैत्यस्य वाहिन्यां नगरेऽपि च | मद्भृत्याः शक्त्यो गत्वा दृष्ट्वा सर्वं समागताः || १९ || ताभिर्विभावितं सर्वं सैन्यं नगरमेव च | इति वृत्तं तया प्रोक्तं सर्वमस्मत्समाश्रयम् || २० || दैत्यानां सैनिकानाञ्च सर्वशः | न तयाऽविदितं किञ्चिनाऽस्ति बाह्याऽन्तरेषु च || २२ || स्त्रियः सर्वाः सुविदितास्तासाञ्चापि प्रभाषितम् | मन्त्रस्ते मन्त्रितोऽप्यत्र नाऽस्माभिर्विदितोऽपि यः || २३ || तया प्रोक्तोऽथं वचनं वृत्तञ्चापि पृथक् पृथक् | चित्रं मन्ये चिरादत्र वसन्नविदितञ्च यत् || २४ || तत सर्वञ्च तया प्रोक्तं यद्यथा समवस्थितम् | यत्त्वयाऽप्यत्र नो ज्ञातं तत्त्वया कथितं ननु || २५ || प्.६३१) मन्येऽहं तद्बलं देव्या अजेयं दैत्यपुङ्गवैः | एकाऽपि शक्तिरवरा सर्वन्नो नाशयेत् क्षणात् || २६ || दैत्येश्वराहं ते सैन्ये बलिष्वनवरो ननु | एन्द्रादयोऽपि विजिता मया भूयः समागमे || २७ || सओऽहं प्रविष्टमात्रोऽपि शक्त्या सामन्यया ननु | गृहीतो लीलयैवाऽशु हरिणा मृगशाववत् || २८ || यथा बालाः क्रीडनकमाच्छिद्याऽन्यकरस्थितम् | गृहणन्त्यहं तथा ताभिर्गृहीतो बलवानपि || २९ || न मेऽभूत् सपन्दितुमपि सक्तिः क्व नु विमोक्षणे | अशक्यं सर्वथा दैत्यैर्जेतुं नास्त्यत्र संशयः || ३० || इत्युक्त्वा विररामाऽथ दैत्यो दैत्येश्वराऽग्रतः | श्रुत्वेत्थं दैत्यवचनं भण्डः स्वाऽन्तरचिन्तयत् || ३१ || नूनं सा त्रिपुरेशानी कृपया मयि संश्रिते | प्रसादमकरोदद्य चिरकालाऽभिकाङ्क्षितम् || ३२ || यत्तया लोकमात्रोक्तं तदद्याऽवितथायितम् | धन्योऽहं त्रिपुरेशानीं दृष्ट्वा युद्धेऽनुभाष्य च || ३३ || तच्छस्त्राग्निमहाज्वालानिर्दग्धकलुषाऽङ्गकः | व्रजामि लल्लोकममुं महासुखसमाश्रयम् || ३४ || महापापसमुद्भूतो देहोऽयं पापसंश्रयः | दैत्यस्वभावविहितश्चिरभारायितो ननु || ३५ || प्.६३२) यथाऽविष्टिगृहीतो हि भारं क्षिप्त्वा पलायति | तथाऽहं दुःखदं देहममुंभारं विसृज्य तु || ३६ || पलायिष्ये सुखस्थानं न मे खेदोऽत्र विद्यते | नुनं वर्षसहस्राणां नियुतैर्दह एष मे || ३७ || सम्प्राप्तोऽत्यन्तसुखितामपि मे न हि रोचते | त एव भोगास्तद्राज्यं ताः स्त्रियस्तश्च सङ्गतम् || ३८ || अन्वहं सेवमानस्य सर्वं वैरस्यमागतम् | निर्विण्णोऽहं दृढतरमस्मात् पर्युषितात्मनः || ३९ || वाञ्छामि नाशं देहस्याऽमयं दीर्घाऽमयी यथा | परन्तु मे विरहिताः शोचिष्यन्ति प्रिया एमे || ४० || तथा तैरप्यहं हीनो न विन्दामि क्षणं सुखम् | आदौ वाऽनन्तरं वाऽपि दुःखदैअ मृतिर्भवेत् || ४१ || तदेतद्विषमं भाति कथं नार्ऽतिर्भवेन्मम | एवं मे त्रिपुरा देवी कृपां कुर्यादभीप्सिताम् || ४२ || युगपद्यदि नो हन्यात् क्षेमं मे प्रतिभाति तत् | भक्तवाञ्छासमधिकफलदा सा निसर्गतः || ४३ || कुतो न पूरयेदिष्टं सा निजाङ्घ्यराज्रयस्य मे | इत्थं विचिन्त्य मनसा नमस्कृत्य पराम्बिकाम् || ४४ || प्.६३३) नाट्ये नट इव स्वैरं क्रोधमहारयत् परम् | धिगस्त्वधम् दैतेय ! कथ मम समक्षतः || ४५ || अप्रियां परसंश्लघां कुर्वन्नपि न लज्जसे | परसंश्लाघनं यत्तल्लोके कापुरुषब्रतम् || ४६ || परन्तु बलिनं ज्ञात्वा न शूरः श्लाघते क्वचित् | बलीवाप्यबलो वाऽपि शूरास्तत्र न बिभ्यति || ४७ || इत्युक्त्वा खडगमुद्यम्य क्रुद्धः कालमहाऽहिवत् | वमन्निव नेत्रमुखात् क्रोधकाकोलपावकम् || ४८ || निर्ययौ नगरद्वारान्महाविलमुखादिव | पश्यन्तु दैत्या ये भीताः तस्यामेति पराक्रमम् || ४९ || अद्य मां समरे प्राप्य पुनः सा न भविष्यति | वदन्तमेव दैत्येशं सूतः सरथमग्रतः || ५० || अभ्याजगामाऽथ सोऽपि रथमारुह्य संययौ | तं मेनिरे जनाः कालं जगत्संहरणोद्यतम् || ५१ || नाऽस्य क्रोधाग्निमासाद्य जगद्भूयो भविष्यति | इत्यूचुः सहसा सर्वे भीताशचाऽसुरपुङ्गवाः || ५२ || निर्ययुः स्वस्वसेनाभिः सेनाऽध्यक्षाश्च मन्त्रिणः | पुत्राः पौत्राश्च भ्रातरः सर्वः एव ते || ५३ || भीता निःशेषतः सेनां समादाय विनिर्ययुः | अथाऽज्ञ्प्तो विशुक्रेण कुटिलाक्षश्च भूपतिः || ५४ || प्.६३४) अक्षौहिणीपञ्चकेन चक्रे नगररक्षणम् | तन्निवेद्य विशुक्राय विकर्षन्महईं चमूम् || ५५ || ययौ भण्डासुरस्याऽग्रे ग्रसन्निव ककुप्तटम् | एवं प्रचलिते दैत्यराजे निखिलसेनया || ५६ || अवादयंस्तु दैतेया रणभेरीः समन्ततः | पटहाऽनकभेरीणां वाद्यैर्द्दैत्यविगर्जनैः || ५७ || आस्फोटैर्नेमिघोषैश्च गजचीत्कारमिश्रितैः | वन्दिमागधसन्नादैर्हयद्नेषितवृंहितैः || ५८ || तुरङ्गखुरविक्स्.एपोन्मिषश्चटचटारवैः | हुङ्कृताऽह्वानसंरावैः संहतो हि महास्वनः || ५९ || बभौ जगत्पटीभेदप्रगल्भ इव पूरितः | सेनास्वनं समाकर्ण्य भण्डदैत्यसमागमम् || ६० || विदित्वा चारमुखतो निश्चित्य महदुद्यमम् | दण्डिनी त्वरिता मन्त्रनाथां प्राप्य व्यजिज्ञपत् || ६१ || सचिवेश्येष सम्प्राप्तो भण्डः सेनासमन्वितः | महासन्नाहसम्भारो युद्धं महदुपस्थितम् || ६२ || विज्ञाप्य ललितादेवीं समेता शक्तिभिर्वृता | संरक्षन्ती शक्तिगणैर्महाराज्ञ्या अनुव्रज || ६३ || अहं यास्ये तन्निरोद्धुं पुरतः सेनयाऽवृता | एष शब्दः श्रूयते वै गजवाजिसमाकुलः || ६४ || प्.६३५) मन्ये बाला सम्प्रवृत्ता युद्धे युद्धसमुत्सुका | सम्पन्नाथाऽश्वनाथाभ्यां युता चित्रपराक्रमा || ६५ || एवं वदन्त्यां तस्यान्तु प्राप्ता सन्देशहारिणी | वर्धयित्वा दण्डनाथांमन्त्रिणीञ्चाऽप्यभाषत || ६६ || देवि प्रवृत्तं सुमहद्युद्धं बालाम्बया सह | दैत्यराजस्य सन्नाहो महान् युद्धसमुद्यमः || ६७ || ब्रातृपुत्रादिसहितसर्वसेनासमावृतः | समागतः क्रुरतरो युद्यतिक्रूरविक्रमः || ६८ || इति विज्ञापनायाऽहं सम्पत्कर्या निरुपिता | किं वदामि पुनर्गत्वा तां देवीं गजवाहिनीम् || ६९ || श्रुत्वा सन्देशहारिण्या वाक्यां श्रीदण्डनायिका | प्राह तत्कालसदृशं वाक्यं विक्रमबृंहितम् || ७० || गच्छेभसेनानेत्रीं तां ब्रूहि श्रुत्वा मदीरितम् | अप्रमत्ततया नूनंयोद्धव्यं दैत्यपुङ्गवैः || ७१ || बाला कुमारिका नित्यं युद्धगोष्ठीसमुत्सुका | सर्वतः सा रक्षितव्या प्राप्ताऽस्म्यहमपि द्रुतम् || ७२ || यथा पलायय नो गच्छेन्मायया दैत्यपुङ्गवः | तथा संरुध्य योद्धव्यं यावन्मम समागमः || ७३ || ततोऽहं तस्य न चिरं यद्धश्रद्धांचिरन्तनीम् | नाशयामि क्षणेनैव तमः सूर्योदये यथा || ७४ || प्.६३६) गच्छ शीघ्रं समादाय सन्देशं गजवाहिनीम् | आज्ञप्तैव निर्गता सा शक्तिः सन्देशहारिणी || ७५ || ततः किरिरथारुढा दण्डिणी निर्ययौ द्रुतम् | असङ्ख्यशक्तिसेनाभिर्युता क्रोधसमाकुला || ७६ || निसर्गक्रोधना भूयो युद्धोपक्रमरोषिता | दिधक्षन्तीव लोकांश्च सर्वान् रोषाग्निना क्षणात् || ७७ || रथनेमिमहास्वनयुतः सेनामहारवः | परेषां हृदयं भिन्दन् श्रोत्रमार्गेण संविशन् || ७८ || प्रतिस्वानमहाघोषः प्रोच्चलद्भीषणाऽकृतिः | एवं श्रीदण्डसाम्राज्ञी जैत्रयात्रामुपाऽक्रमत् || ७९ || इति श्रीमदितिहासोत्तमे त्रिपुरारहस्ये श्रीललितामाहात्म्ये भगवत्यास्तनूजया बालया युद्धोद्योगवर्णनं नाम द्विषष्टितमोऽध्यायः || ५१५६ || प्.६३७) त्रिषष्टितमोऽध्यायः बालायाः समरपराक्रमवर्णनम् भण्डासुरमहासेनाकोलाहलमहाध्वनिम् | निश्म्य प्रैक्षदत्यन्तयुद्धोत्सुकतया दिशम् || १ || प्रागुदीचीं कुमारी सा ललिताया मनः प्रिया | ददर्श दैत्यसेनायाः सम्मर्दजनितं रजः || २ || प्रतिसञ्चरसम्भूतसांवर्तकसमूहवत् | ज्ञात्वा प्राप्तं दैत्यराजं सर्वसेनासमावृतम् || ३ || समरोत्सुकचित्ता सा बाला त्रिपुरसुन्दरी | लघुचक्ररथाऽरुढा रथनेत्रीमचोदयत् || ४ || श्रीमातुः प्रतिरोधं सा तर्कयन्त्यथ संयुगे | अदृष्ट्वैव महादेवीं मन्त्रिणीमभिसंययौ || ५ || सेनानेत्रीञ्च सेनाञ्चाऽप्याकाङ्क्षन्त्यतिसत्वरम् | दैत्यसेनाऽभिमुखतो वायुवेगेन संययौ || ६ || शरदीव महामेघ आकाशे वायुनेरितः | यथा पुरो निपतति तथा वेगाद्रथो ययौ | ७ || प्.६३८) बालाया युद्धयात्रां तां विषमां वीक्ष्य सत्वरम् | अश्वारुढा द्रुततरं तामनु प्रतिसंययौ || ८ || तुरङ्गैस्तुङ्गभङ्गाभैः पयोधिरिव तश्चमूः | उपाद्रवज्जगज्ज्वालाप्लावनायेव सर्वतः || ९ || सम्पत्करी च तत्पश्चाद्रणकोलाहलस्थिता | अनेककोटिमातङ्गसेनासंवलिता द्रुतम् || १० || वेगादनुससारोश्चैर्बालारक्षणहेतवे | नोदिता शीघ्रसंयाने रथविद्याविशारदा || ११ || बालायाः सदृशाऽकारा वाहयत् स्यन्दनं जवात् | प्रावृण्नदीव जलधिंदैत्यसेनां व्यवगाहत || १२ || सज्यं धनुर्विकर्षन्ती वर्षन्ती शरवर्षणम् | नदीवेगविभिन्नेऽब्धौ नौरिव स्यन्दनन्तु तत् || १३ || विवेश दैत्यराजस्य शरौघदलितां चमूम् | कुटिलाक्षो दैत्यसेनामुखे कुञ्जरसंस्थितः || १४ || महत्या सेनया बालां संरुरोध महाबली | दैत्यसेनापतिः सोऽपि दृष्ट्वा बालां कुमारिकाम् || १५ || सृजन्तीं शरवर्षाणि मेनेऽद्भुतपराक्रमम् | एकाकिनीं रथारुढां मृद्वङ्गीमष्टहायनाम् || १६ || प्.६३९) अहो चित्रतमं ह्येतत् केयमेका कुमारिका | निर्भया योधयत्यस्मानिन्द्रादीनाञ्चत्रासनान् || १७ || मन्येऽह्ं ललितामेनां निमित्तैश्चारसंस्तुतैः | लक्षये सर्वचिह्नानि किन्त्वेषा तरुणी न च || १८ || अप्येषा यस्य तनया भवेत् पूर्वं हि या श्रुता | कथं तत्तनया बाला सेनाविरहिता पुनः || १९ || एकला युद्धसन्नद्धा समागच्छेन्मृधे द्वचित् | नूनमेषैव सर्वान्नो जेष्यतीव विभाति मे || २० || लक्षयेनयुधि स्थातुं सम्मुखेऽस्या भवेत् प्रभुः | विशुक्रो वा विषङ्गो वा राजा वाऽष्यहमेव वा || २१ || कुतो राजकुमाराद्याः प्रत्येकं मिलिताश्च वा | अस्मत्सेना यत्र निरीक्षति ततस्ततः || २२ || शरजालेन शिथिलां करोति निमिषाऽर्धतः | कोटिशो निहता दैत्यास्त्रासिताऽस्मन्महाचमुः || २३ || एते विभिन्नवाह्व्ङ्घिहृदयक्रोडमस्तकाः | पतिताश्च मृताश्चाऽन्ये धावन्त्यन्ये महाभयात् || २४ || शोणितप्रवहांतर्तुमशक्ता भयकम्पिताः | पतितास्तत्र शतशो निमग्ना रक्तसिन्धुषु || २५ || प्.५४०) प्राप्तैषाऽस्मश्चमूंभित्त्वा प्रविशेत् क्षणमात्रतः | रोद्धव्येयं मया यत्नाद्धिङ्मामेवंविधंस्थितम् || २६ || योसिद्बाला मत्समक्षं भित्त्वा सेनां प्रवेक्ष्यति | नैतदिन्द्रेण मरुता वायुनाऽपि कृतं पुरा || २७ || विषमं मे ह्येतदेषा जेयेति सर्वथा | इति निश्चत्य तां रोद्धुं महागजसमास्थितः || २८ || ससार पुरतस्तस्याः शरजालान्यवाकिरत् | युयोधाऽतिबलो दैत्यः कुष्तिलाक्षस्तया सह || २९ || बालया युद्धकुशलो मायाशस्त्राऽस्त्रकोविदः | ववर्ष शरवर्षेण बालां युद्धेऽग्रतःस्थिताम् || ३० || उद्यन्तं भास्करमिव हिमसंहतिवर्षवत् | साऽपि बालाऽरुणाऽभाङ्गी शरतीक्ष्णतरांऽशुभिः || ३१ || अनयन्नाशमत्यन्तं तं वर्षं निमिषार्ऽधतः | अर्दयामास दैत्यस्य सेनां निशितसायकैः || ३२ || अतिलाघवतस्तस्याः शरसन्धानमोक्षणम् | न वेद कश्चित्कुशलोऽप्यतिसूक्षमदृशाऽपि च || ३३ || अपऽऽयन् शरसङ्घातधारां चापविनिर्गताम् | प्रावृङ्गिरिमुखात्तोयाधारमिव निरन्तराम् || ३४ || विधूय तां महासेनां मुहूर्ताऽष्टमभागतः | कुटिलाक्षं समासाद्य जघान् निशितैः शरैः || ३५ || प्.६४१) युयोध सोऽपि बलवान् सर्वप्राणेन संयुगे | तस्य शस्त्राऽस्रजालानि प्रतिशस्त्राऽस्त्रवर्षतः || ३६ || मोघं कृत्वा शरैस्तईक्षणैः प्राहरद्दैत्यनायकम् | एकेन तीक्ष्णभल्लेन चापं तस्याऽच्छिनज्जवात् || ३७ || ततश्चैकेन वाहस्य गजस्य प्राहरन्मुखे | इषुणा ताडितो वक्त्रे गिरिराजसमो गजः || ३८ || चीत्कुर्वन् विभ्रन् भूमौ गतासुरपतत् क्षणात् | मरिष्यन्तमिभं ज्ञात्वा कुटिलाक्षो गदाधरः || ३९ || क्रोधेनाऽभ्यद्रवद्धन्तुं बालां रथसमाश्रयाम् | ग्रसन्तमरुणं बालं राहुं द्रुतगतिं यथा | ४० || अपश्यन् विबुधाः सिधा नभोमण्डलसंश्रयाः | आयान्तमतिवेगेन गदाहस्तं निशाम्य सा || ४१ || शरेणाऽकर्णपूर्णेन विव्याध हृदयाऽन्तरे | स विद्धस्तीक्ष्णबाणेन बहुशोणितमुद्गिरन् || ४२ || पपात मूर्च्छितो भूमौ वज्राऽहतमहीघ्रवत् | अथ बाला प्राह सखीं रथनेत्रीं स्मिताऽनना || ४३ || सखि शीघ्रं नय रथं भण्डदैत्यसमीपतः | आयात्येषा पृष्ठतो मे दण्डिनी शूकरध्वजा || ४४ || उत्कण्ठिताऽस्मि दैत्येन योद्धुं भण्देन सङ्गरे | मामासाद्य दण्डनाथा प्रतिरोत्स्यति वै ध्रुवम् || ४५ || यथा नाऽसादयेन्मां सा तथा वाहय सत्वरम् | इत्युक्ता रथनेत्री सा बालां प्रोचे सखी तदा || ४६ || प्.६४२) दैत्यसेनां मध्यतस्तु ध्वजो योऽयं महओन्नतः | दृश्यते काञ्चनमयो रथस्तस्यैष एव हि || ४७ || इतो दूरतरे स स्यान्महद्भिर्दैत्यपुङ्गवैः | महारथिभिरत्युग्रः संवृतो ननु दृश्यते || ४८ || विवरन्तु न पश्यामि रथं येन नयामि तत् | शस्त्रेण सृज मार्गं त्वं वाहयामि ततो रथम् || ४९ || इत्युक्ता लघुहस्ता सा बाला मार्गमकल्पयत् | शरवृष्ट्या निमेषेण दैत्यसेनासु मध्यतः || ५० || सायदौघप्रवाहेण भग्नसेतुरिवऽबभौ | सेनामुखं महाशूरैर्दैत्यैरुद्धमपि क्षणात् || ५१ || केचिद्भग्नरथाश्चाऽन्ये नष्टाऽऽऽश्वगजवाहनाः || अस्ह्यां शरधारां तां प्राप्य दैत्याः प्रदुद्रुवुः || ५२ || अपरे छिन्नबाह्वक्षिचरणोदरमस्तकाः | तथाऽन्ये शस्त्रसङ्घातपातेन तिलशः कृताः || ५३ || बवुः शोणितवाहिन्यो भीरुणां सागरोपमाः | सुफेनिलास्तरङ्गढ्या उष्णोककवहा एव || ५४ || शरजालमहामेघच्छन्नसूर्यकरा दिशः | अन्धीभूता न विदिता दैत्यैर्विद्रावतत्परैः || ५५ || मेनिरे ते महामृत्युं प्राप्तं बालास्वरूपतः | पतन्ति सङ्घशस्तत्र दैत्यानां मस्तकान्यलम् || ५६ || प्.६४३) तृणराजफलानीव पक्वानि प्रौढवायुना | हा तात पुत्र सुसखे भ्रातर्मित्र हतोऽस्म्यहम् || ५७ || इति घोषो महानासीद्दैत्यानां रणसङ्कटे | तदन्तरे मुखे भग्ने सेनायास्तस्य वेगतः || ५८ || प्रवेशयद्रथवरं रथनेत्री निमेषतः | विशुक्रदैत्योऽवरजो भण्डदैत्यस्य संयुगे || ५९ || दृष्ट्वा भ्त्त्वा स्वसेनाया मुखं बालां समागताम् | गच्छन्तीं दैतराजेन योद्धुमुत्सुकितां तदा || ६० || ज्ञात्वा विचारयन्नूनमेषा बालाऽष्टहायना | निःसीमबलवीर्याऽढ्या युध्यत्यतिविचित्रितम् || ६१ || नैषा जेयाऽसुरःकैश्चिद्बलवद्भिरपि क्वचित् | तथाऽपि समरे शूरैर्योद्धव्यं सर्वथा ननु || ६२ || एषैव नाशयेत् सर्वान् दैत्यानस्मान्न संशयः | किं करिष्यति सा देवी ललिता समरे पुनः || ६३ || सर्वप्राणेन योद्धव्यं दैवमत्र परायणम् | इति निश्चित्य नागेन्द्रमैरावतकुलोद्भवम् || ६४ || श्वेतं चतुर्दन्तयुतं रजताऽद्रिसमप्रभम् | विशुक्र आरुह्य जवात् शरान् धाराधरो यथा ||| ६५ | वर्षन् विरेजे कैलासाऽरुढनीलाम्बुदोपमः | रुरोध बालां रथगां प्रविश्य दैत्यवाहिनीम् || ६६ || प्.६४४) समायान्तीं जवेनाऽजौ चिन्वतीं दैत्यजीवितम् | संरुध्य शरवर्षेण स्हिंहनादमथऽकरोत् || ६७ || आह्वानेन दैत्यसेनां विद्रुतां स न्यवर्तत | दैत्या नैतत्समं युद्धे कुलजानां पलायनम् || ६८ || भीत्या युद्दे विद्रुतन्तु धर्मश्चर्ऽथः प्रहास्यति | आहार्य वीर्यं क्रोधञ्च निवर्तध्वं समन्ततः || ६९ || विनिर्जिताः स्त्रिया युद्धे पलायय सदनं गताः | किं वक्ष्यथ गृहे स्त्रिभिः पृष्टा युधान्निवर्तने || ७० || मृतिरेव ततः श्रेयः स्त्रीक्र्टादपमानतः | विशुक्रवचनं श्रुत्वा परावृत्तस्ततस्तु ते || ७१ || आगत्य बालां त्रिपुरां परिबव्रुः समन्ततः | दैत्यसेनाभिराक्रान्ताः सा बाला रथसंस्थिता || ७२ || परिवेषितबालार्क इव तत्र व्यराजत | अथ तां रथनेत्रीं सा सखी प्राह प्रियंवदा || ७३ || कुमारि ! मन्ये दैत्यानां सेनाभारोऽतिदुःसहः | न ते पार्ष्णिग्रहा काचिश्चक्रगोप्त्र्यधिविद्यते || ७४ || अग्रे सेनाभरो भूयान् मन्यसे चेदहं द्रुतम् | रथं निवर्तयाम्येषा सेनायुक्ता पुनर्द्रुतम् || ७५ || आगत्य चैतान् दैत्येन्द्रान् यथेछं योधयिष्यसि | स्रुत्वा सखीवचः प्राह प्रहस्य मृदुभाषिणी || ७६ || भीताऽसि किं प्रिये युद्धे नैवं शतगुणा अपि | पर्याप्ता मे दैत्यसेना युध्यन्त्या युधि मे द्वचित् || ७७ || प्.६४५) लीलयाऽहं विलम्बेन युध्यामि रणकौतुकी | मन्यसे चेदिमं पश्य क्षणं निर्दैत्यलोककम् || ७८ || इत्युक्ता सा पुनः प्राह सखी रथवहा तदा | देवि नास्त्येव मे भीतिः सैन्येऽपीतः ऽऽशतोत्तरे || ७९ || तथा.प्क् रथनाथाया ज्ञेयं चित्तं रणोद्यमे | शङ्के श्रीलितादेव्या यदाज्ञामन्तरा त्वया || ८० || युद्धे विनिर्गता चाऽस्मि एतावत् साध्वसं मम | ब्रूहि शीघ्रं रथमहं क्वनयामि रणाऽवनौ || ८१ || इति श्रीमदितिहासोत्तमे श्रीत्रिपुराहस्ये माहात्म्यखण्डे ललिताचरित्रे देवीशक्तिगणदैत्यसैन्ययुद्धोद्यमे बालापराक्रमवर्णनं नाम त्रिषष्टितमोऽध्यायः || ५२३७ || प्.६४६) सखीवचो निशम्याऽथ बाला संहृष्टमानसा | प्राह शिघ्रं नय रथं यत्राऽसौ गजसंश्रयः || १ || स्तूयमानो बन्दिगणैर्विशुक्राख्यो महासुरः | इत्याज्ञ्प्ता क्षणादेव निनाय स्यन्दनोत्तमम् || २ || बालाऽपि दैत्यसेनां तामपरां सागरप्रभाम् | शरसन्ततिधाराभिश्चक्रेऽतिशिथिलां तदा || ३ || नाशयत् कुलिशास्त्रेण भस्मशेषत्वमानयत् | हतास्तत्र महादैत्याः कुलिशाऽस्त्रेण सर्वतः || ५ || भस्मशेषीकृताः केचित् केचिद्धतवराऽगकाः | एकबाह्वक्षिचरणपार्श्स्वीभूतास्तथा परे || ६ || महाक्रन्दभीमत्वां नष्तप्रयां चमूं निजाअम् | निशाम्य प्राहिणोन्नागमैरावतकुलोद्भवम् || ७ || प्.६४७) योद्धुं विशुक्रस्तां बालां दृष्ट्वाऽद्भुतपराक्रमाम् | ववर्ष शरधाराभिर्मणिशृङ्गमिवाऽम्बुदः || ८ || प्रतिवर्षं ववर्षाऽथ प्रतिदैत्यं शिलीमुखैः | शरवर्सं द्वयं तत्तु तमोभूतं रणाऽवनौ || ९ || तदन्तरे तु निशितशरेणाऽनतपर्वणा | जघानाऽकर्णपूर्णेन हस्ते तां रथवाहिनीम् || १० || सा गाढविद्धा बाणेन किञ्चित्कशमलमागमत् | त्ददृष्ट्वा रोषताम्राक्षी गर्जन्तं दैत्यपुङ्गवम् || ११ || जघान तरसा भाले तीक्ष्णभल्लचतुष्टयैः | भल्लार्दितो गाढमूर्च्छां विशुक्रः प्रापतद्गतः || १२ || पुनः क्ष्णेन चोत्थाय ववर्ष निशितान्शरान् | अथ बाला क्षणेनैव लघुहस्तक्रियाऽन्विता || १३ || द्वाभ्यां चापञ्च छत्रञ्च चिछेद युगपन्मृधे | अथैकेनाऽकर्णशरेण नतपर्वणा || १४ || विव्याध वाहनगजमैरावतकुलोद्भवम् | इन्द्रायुधं गिरिमिव ददार स शरो गजम् || १५ || कुम्भप्रदेशे जघनाभ्यां विनिर्गतः | संछिन्नः क्रकचेनेव महास्थाणुर्बभौ गजः || १६ || प्.६४८) तादृग्विधं गजपतिं व्यसुं वीक्ष्य स दैत्यराट् | खड्गहस्तः खमुत्पत्य तां प्रहर्तुमुपद्रुतः || १७ || आयन्तमन्तकनिभं करवालकरोद्यतम् | लाघवेनैव सा बाला दूरादेकेन पत्रिणा || १८ || करवालं द्विधा चक्रे तं मूर्घ्नि त्रिभिराहनत् | विशुक्रमूर्घ्नि तन्मग्नं किञ्चिद्बाणत्रयं यदा || १९ || व्यराजत तदा दैत्यस्त्रिशृङ्गो नगराडिव | गाढविद्धोऽपि धैर्येण पक्षिराडिव वेगवान् || २० || आदाय बालां पाणिभ्यामुच्चचालनभोऽङ्गणम् | निशाम्य ह्वियमाणां तां रथनेत्र्यब्रवीदिदद्म् || २१ || अलं बाले लीलया ते महाऽनर्थाऽवसानया | जहि वीर्येण दैतेयं यावद्दूरं न गच्छति || २२ || श्रुत्वा सखिवचो बाला मत्वा कालसमं वचः | निर्वर्त्य मुष्टिं सुदृढां पातयत्तस्य मूर्ध्नि || २३ || वज्रकल्पमुष्टिहतो भिन्नमूर्धा वमन्नसृक् | गाढमूर्छासमाविष्टो निपपात महीतले || २४ || अथ बाला रथारुढा सखिं तामभिचोदयत् | प्रिये शिघ्रं नय रथमेषोऽग्रे दैत्यनायकः || २५ || श्वेताऽतपत्रराजीभिश्चामरैरभिसेवितः | यथा नीलगिरिर्हसैर्जलनिर्झरसंवृतः || २६ || प्.६४९) आस्ते यथा राजतेऽयं नय तत्र रथं द्रुतम् | एषा पृष्ठतो मे दण्डनाथा चमूवृता || २७ || श्रूयते सिंहवाहस्य गर्जतो भैरवो रवः | अवश्यं मम युद्धस्य विहतिं सा करिष्यति || २८ || तावद्द्रुतं योधयामि भण्डदैत्यं महाबलम् | उत्कण्ठिताऽस्मि तद्युद्धे सर्वथा नय मां द्रुतम् || २९ || श्रुत्वा तद्गदितं सऽपि सखी रथमचोदयत | यावद्भण्डस्य पुरतस्तावद्रथवराऽश्रयः || ३० || ज्ञात्वा सर्वं विषङ्गोऽपि मत्वाऽजेयां सुराऽसुरैः | अनया युद्ध्यमानस्य दैत्यराजस्य सर्वथा || ३१ || जीवतो न विमोक्षोऽस्ति विजितस्त्वनया यदि | तदा चिरार्जिता कीर्तिर्व्यर्थं हीयेत सर्वथा || ३२ || यदि सा ललिता राज्ञी विजेष्यति समं हि तत् | तस्मादत्र यथाशक्त्या यतितव्यं भवेन्मया || ३३ || इति निश्चित्य बालाया निपपाताऽग्र्तो बली | आयान्तं सम्मुखं दैत्यं दृष्ट्वा रथवरस्थितम् || ३४ || प्.६५०) भण्डयुद्धमहाविघ्नं मत्वा प्राह सखीं प्रति | प्रिये! भण्डेन योद्धव्ये महान् विघ्नो ह्युपस्थितः || ३५ || पश्य मे लाघवञ्चैनंम् वारयामि सुदूरतः | इत्युक्त्वा निशितान् बाणांश्चतुरो विससर्ज ह || ३६ || तैस्तस्य बाहा निहताः प्रोन्नम्रा वातरंहसः | अथैकेन ध्वजं छित्त्वा सूतमेकेन पत्रिणा || ३७ || निजघानाऽथ दैतेयो विषङ्गोऽत्यन्तकोषितः | मोघं सोद्योगमालक्ष्य तुरङ्गाऽन्तरसंश्रयः || ३७ || आदाय परिधं घोरमभिदुद्राव वेगतः | तुरगेण समायान्तं वातनुन्नाऽभ्रखण्डवत् || ३९ || ववर्ष सायकौधेन प्रावृडब्द इवाऽचलम् | शरवर्षमगणयन्नायान्तमाभिमुख्यतः || ४० || दृष्ट्वा बाला द्रुततरं शरेणैकेन कर्णिना | अकरोद्ब्यसुमश्व तं हताश्वोऽथ् विषङ्गकः || ४१ || उद्यम्य परिघं घोरमुपाऽयान्तं सुभीषणम् | समुद्रमिव गर्जन्तं कालान्तकयमोपमम् || ४२ || सुपुयङ्खेन शरेणाऽशु जघान बलबद्धृदि | सपुङ्खेन शरेणाऽशु जघान बलाद्धृदि | स गाढविद्धो बाणेन भ्रमन्नुष्णमसृग्वमन् || ४३ || प्.६५१) मूर्च्छितः प्रापतद्भूमौ कृत्तपक्षमहीघ्रवत् | तदद्भुतं कर्म दृष्ट्वा दैत्या देवाश्च विस्मिताः || ४४ || अहो दैत्याऽधिपो ह्येषः पुरा शक्रमुखान् सुरान् | बहुधा ह्यजयद्युद्धे विष्णुतुल्यपराक्रमः || ४५ || स एष बालया नूनं लीलयैव निपातितः | सर्वान् विजेष्यत्येषैव ललिता किं करिष्यति || ४६ || प्राहुरेवमथ पुनारथनेत्री रथं नयत् | भण्डासुरसमक्षं स्त्वं दृष्त्वा बाला महासुरम् || ४७ || साधु प्रियं कृतं ह्यद्य चिराऽभिलषितं मम | अनेन युद्ध्वा सन्तुष्ये चिराभिलषितन्त्वतः || ४८ || इत्युक्त्वा शरवर्षेण ववर्षाऽसुरभूपतिम् | अथ भण्डासुरो दृष्ट्वा बालां सम्मुखसङ्गताम् || ४९ || जहृषे वाञ्च्छितं प्राप्य चिरायाऽभिमतं तदा | स काल एष सम्प्राप्तः श्रियोक्तश्चिरवाञ्छितः || ५० || एषा दृष्टा महादेवी भक्तवाञ्छितपूरणी | नूनमेषः क्षणो मेऽद्य घोरदेहवियोजकः || ५१ || अनया निहतस्त्वत्र ब्रजामि समलोकताम् | एषा श्रीललिताराज्ञ्याः कुमार्द्भुतविक्रमा || ५२ || प्.६५२) तस्या बिम्बसमुद्भूतप्रतिबिम्बवदास्थिता | मां निहन्तुं साऽपि देवि रमावचनगौरवात् || ५३ || आयास्यति न सन्देहो रमोक्तं नाऽन्यथा भवेत् | भवत्वेनां पूजयामि तदबिम्बादुत्थिताऽत्मिकाम् || ५४ || कालोपपन्नविधिना शरभूतप्रसाधनैः | इत्थं विचिन्त्य सशरं जग्राह सुदृढं धनुः || ५५ || जलाऽस्त्रमन्त्रितशरुअ प्राक्षिपत्तस्याः पादयोः | अथाऽपरं पौष्पमन्त्रमन्त्रितं मूर्धनि क्षिपत् || ५६ || शरु सिषिचतुः पादौ निर्मलैः शीतलैर्जलैः | शरोऽपरो मूर्घ्नि तस्या मालावर्षमवाऽकिरत् || ५७ || तदद्भुतं निशाम्याऽथ पप्रच्छ रथनायिका | कुमार्येतन्महश्चित्रं प्रपश्याम्यसुरेश्वरे || ५८ || तेनैव विहितं किं वा जातं स्यात्तव तेजसा | त्वयि वर्षं किरन्त्यां वै शराणामाहवाऽवनौ || ५९ || एतस्य पूजनविधिः शरैः किमिव ते भवेत् | अहं संशययुक्ताऽस्मि तन्मे दूरिकुरु द्रुतम् || ६० || पृष्टैवं प्राह सा बाला शृणु प्रेयसि मद्वचः | पुरा श्रुतं यल्ललिता प्रोक्तमत्यन्तगूहितम् || ६१ || प्.६५३) एष लक्ष्म्या महादूतो नाम्ना माणिक्यशेखरः | शापेन दैत्यतां प्राप्तस्त्रिपुराभक्तशेखरः || ६२ || एष युद्धे विनिहतः श्रीपुरं प्रतिपत्स्यति | मां मत्वा ललितापुत्रीं पूजयामास सायकैः || ६३ || तमीक्ष मत्प्रतिकृतिमित्युक्त्वा शरमुत्सृजत् | स शरः पञ्चशाखात्मा पस्पर्श तस्य मूर्धनि || ६४ || कराम्बुजं मस्तके स्वे न्यस्तं मेने महासुरः | प्रसादमकरोद्देवी चेति संहृषितोऽभवत् || ६५ || तद्दृष्ट्वा विस्मिताऽत्यन्तं बालाया रथनायिका | अथाऽभवन्महायुद्धं कुमारीभण्डदैत्ययोः || ६६ || कृतप्रतिकृतोपेतं घोरं भीरुभयावहम् | द्वन्द्वभूतमनुपमं द्वैरथ्यं शरवर्षणम् || ६७ || भण्डासुरोऽपि भक्त्यैवाऽद्भुतः स्वीयपराक्रमैः | देवीं सन्तोषयामीति युयोध बलवत्तरम् || ६८ || विकिरन्तौ शस्त्रगणान्मर्मप्रहरणोद्यमौ | ज्ञात्वाऽन्योन्यं शस्त्रयोगलाघवं श्लाघनापरौ || ६९ || प्.६५४) साधु शूर रणश्लाघ्य साधु देवि महाबले | इत्येवं युध्यतोस्तत्र कुमारीभण्डदैत्ययोः || ७० || प्रावर्तन्त महास्त्राणि लोकमोहकराणि वै | कुलिशाऽस्त्रं पार्वतस्य नागाऽस्त्रस्य च गारुडम् || ७१ || आग्नेयस्य च पार्जन्यं तस्य मारुतनामकम् | तस्य सार्पं तस्य पुनर्नाकुलं तस्य चैव हि || ७२ || वैडालं कुक्कुरं तद्वद्बकं वैयाघ्रमेव च | महाव्याघ्रं मृगेनद्रञ्च तस्य शारभमस्त्रकम् || ७३ || गण्डमेरुण्डमित्येवं तथा याम्यञ्च वारुणम् | कौबेरं नैऋतञ्चैन्द्रं रौद्रं मोहनमेव च || ७४ || पैनाकं वैष्णवं ब्राह्ममेवमस्त्रैस्तु सङ्कुलम् | युद्धमासीन्महाघोरं कुमारीभण्डदैत्ययौ || ७५ || तत्र दैत्याः शक्त्यश्च सहायार्थसमागताः | प्रेक्षाञ्चक्रुर्विचित्रेण युद्धेनाऽत्यन्तविस्मिताः || ७६ || एवं प्रवृत्ते समरे बालाया लाघवात्तु सः | हीयमानः समभवद्भण्डदैत्यो यदा तदा || ७७ || विषङ्गश्च विशुक्रश्च कुटिलाक्षश्च भूपतिः | संवृत्ता दैत्यसेनाभिः परिवार्य कुमारिकाम् || ७८ || युयुधुः शस्त्रसङ्घातैर्वमद्भिर्वह्निमुल्वणम् | बालापि तान् लीलयैव योधयामास सर्वतः || ७९ || एवंविधेद्धे महायु प्रवृत्ते बालया सह | सम्प्राप्ता दण्डसम्राज्ञी जित्वा दैत्यमहाचमूम् || ८० || प्.६५५) भित्त्वा सेनामहाद्रिं तं दैत्यानामतीस्तृतम् | मुसलात्ममहावज्राऽयुधेन क्रूरविक्रमा || ८१ || आससाद महायुद्धे बालां युद्धरसोत्सुकाम् | युध्यन्तीमेकलां दैत्यैः पऽऽयन्ती विस्मिता तदा || ८२ || इति श्रीमदितिहासोत्तमे त्रिपुरारहस्ये माहात्म्यखण्डे श्रीललिताचरित्रे बालापराक्रमवर्णनं नाम चतुःषष्टितमोऽध्यायः || ५३१९ || प्.५५६) पञ्चषष्तितमोऽध्यायः बालायाः समरपराक्रमवर्णनम् अथ भण्डस्य सा सेना कोलवक्त्रापराक्रमात् | विशीर्णा पर्वत इव देवेन्द्राऽयुधगौरवात् || १ || सेनायां दैत्यराजस्य वाराहीमुसलाऽहतेः | विशीर्णायामपश्यत् सा बालां दैत्यैः सुसङ्गताम् || २ || एकलां योधयन्तीं तान्महादैत्यान् समन्ततः | समरोत्सुकितां भूयो दृष्ट्वा विष्मयमागमत् || ३ || अथ तां प्राह कोलास्य समासाद्य विशृण्वतीम् | अलं बाले साहसेन युद्धेन विषमेण ते || ४ || नैतदन्यत्र पश्यामि साहसं यत्त्वमेकला| दैत्यान्महाबलान् भीमान् संयुगे जितवत्यसि || ५ || त्वां निशम्यैकलां दैत्यैर्युध्यमानां महेश्वरीम् | श्रीदेवी वत्सला नूनं भवेद्व्याकुलितान्तरा || ६ || इमं क्षणं द्रष्टुमर्हसि याहि तत् | इत्युक्ताऽज्ञापयच्छक्तिमश्वसेनाऽधिनायिकाम् || ७ || प्.६५७) अश्वारुढे प्रयाह्येनां समादायाऽतिसत्वरा | महाराज्ञ्येऐ निवेद्यैनामागच्छ त्वरितं पुनः || ८ || अश्वारुढैवमाज्ञप्ता समरादनिवर्तिनीम् | बालाया रथाअविश्य न्यवर्तयत तं रथम् || ९ || अथाऽऽगत्य महाराज्ञ्यै बालां तां विनिवेदयत् | मातरेषा युद्धभुवो बलात्कारान्निवर्तिता || १० || अतिसाहसचारित्राऽद्भुतवीर्यपराक्रमा | त्वदाज्ञाया वयं यावदेनां युद्धान्निवर्तितुम् || ११ || प्रयातास्तावदेषा तु दैत्यसेनामहार्णवम् | प्रविष्टा तत्र दैत्यानां कोटयो बलात्तराः || १२ || निपातिता महायुद्धे भण्डदैत्या वरोद्भवौ | निर्जितौ भीमचारित्रौ तौ विशुक्रविषङ्गकौ || १३ || ततो भण्डं समादाय जितलोकेश्वराऽसुरम् | युद्ध्वा तेनाऽपि सुचिरं जितमायं चकार वै || १४ || कथञ्चिदेषा वाराह्या विक्रम्याऽसादिता भवेत् | इत्युक्त्वा निर्ययौ साऽपि युधाय तुरशाऽश्रया || १५ || प्.६५८) अथ बालां महाराज्ञी स्वाङ्कमानीय सत्वरम् | परिष्वज्याऽतिवात्सल्यान्मूर्ध्न्यु पाजिघ्रदम्बिका || १६ || वत्से ! नैवं पुनः कार्यं क्वचित् साहसमात्रया | अनुक्त्वैव गता युद्धे नैतदौपयिकं तव || १७ || अथ प्राह कुमारी सा ललितां मातरं प्रति | एषाऽरुणितनेत्रान्ता निःश्वसन्ती पुनः पुनः || १८ || मातश्चिरादहं युद्धक्रीडाकौतुकिताऽन्तरा | शङ्कमाना त्वया तत्र विघ्नं नैतमवेदयम् || १९ || युद्धक्रीडारसभरादवितृप्तैव वारिता | तावक्या दण्डराज्ञाऽहं वृथैव समराङ्गणात् || २० || त्वत्तोऽतिभीतयाऽसाद्य मानिता रणसम्भ्रमे | अन्यथा साऽपि मद्युद्धं विमदा प्राप्य वै भवेत् || २१ || वदन्तीमिति तां बालां परिष्वज्य महेश्वरी | मैवं वत्से ! पुनब्रूर्या इत्युक्त्वा सान्त्वयत् परा || २२ || अथ दण्डमहाराज्ञी किरिचक्रसमाश्रया | युयोध भण्डदैत्येन युतेन दैत्यसेनया || २३ || प्.६५९) शक्तिसेना दैत्यसेना युध्यमाना परस्परम् | क्रोधाऽवेशसमायुक्ता प्रविष्टाऽभूत्परस्परम् || २४ || दैत्याः शक्तिगणान् ध्नन्ति मुसलप्रासतोमरैः | नाराचैर्भिन्दिपालैश खड्गशूलपरश्वधैः || २५ || शक्त्योऽपि प्रहरणैर्विविधेर्दैत्यपुङ्गवान् | जघ्नुर्युद्धे महाभीमे मर्षिता बलवत्तराः || २६ || तत्र शक्तिगणाहतच्छिन्नबाहूरुनासिकाः | केचिद्द्विधा क्र्टाःशस्त्रैः केचित्तु तिलशः क्र्टाः || २७ || केचिन्महाभारशस्त्रिअर्निष्पष्टाऽशेषदेहकाः | क्रन्दन्तः पुत्र मित्रेति हा भ्रातस्तात इत्यपि || २८ || एवं श्क्तिगणाऽस्त्राग्निभस्मशेषत्वमागताः | दैत्याः शिष्टाः सुवित्रस्ताः पलायनपरास्तदा || २९ || अभवन् सा युद्धभूमिरगम्याऽभवदञ्जसा | शोणितोदा ववुर्नद्यः फेनिला भीषणस्वनाः || ३० || प्रेतगोमायुकङ्काऽदिशवाऽहारमहोत्सवाः | एवं विनिहतप्रायां दैत्यसेनामुपद्रुताम् || ३१ || विशुक्रः स विषङ्गोऽथ निवार्याऽभ्याययौ मृधे | पुनस्तत्राऽभवद्युद्धं क्रूरं शक्तिगणैःसह || ३२ || प्.६६०) मायया शक्तिसेनां तां विशुक्रो मोहयत् क्षणात् | ससर्ज मायया ध्वान्तं तत्र वर्ष शिलामयम् || ३३ || वह्निवायुसमोपेतं तेन शक्तिमहाचमूः | वित्रासिता मूर्च्छिता चाऽप्यभवद्भीमसऋअवा || ३४ || तं दृष्ट्वाऽभ्याययौ सम्पत्करी गजसमाश्रया | विशुक्रेण महायुद्धे सङ्गताऽतिद्रुतं बभौ || ३५ || अश्वारुढाऽपि युयुधे विषङ्गेण महाबला | वाराही भण्डदैत्येन युयोधाऽतिरुषाऽन्विता || ३६ || रणकोलाहलाऽख्यानं गजमारुह्य वेगिनम् | असङ्ख्यगजसैन्येन युता सम्पत्करी परा || ३७ || विशुक्रं योधयामास महागजसमश्रयम् | ववर्ष शरवर्षेण विशुक्रं मायया युतम् || ३८ || विमायाऽस्त्रेण हत्वा तन्मायामत्यन्तभीतिदाम् | प्रतिवर्षेण दैत्योऽपि ववर्ष विशिखात्मना || ३९ || एवं युद्ध्वा चिरं तस्य धनुश्चिच्छेद मद्यतः | सोऽप्यन्यदाददे चापंतञ्चाऽप्येषा समाच्छिनत् || ४० || एवं धनुःशतं छीन्नं गृहीतन्तु पुनः पुनः | अथाऽतिक्रोधसंयुक्तो विशुक्रोऽद्भुतविक्रमः || ४१ || प्.६६१) भल्लेन प्राहरत्तस्याः सम्पत्कर्या महाभुजे | भल्लाऽहतभुजात्तस्या न्यपतत्तन्महद्धनुः || ४२ || सम्पत्करी ततः क्रुद्धा प्राहिणोद्वाहनं गजम् | जगर्ज पतितं दृष्ट्वा हस्ताश्चापं महत्तरम् || ४३ || प्रहितस्सोऽपि करिराङ् दैत्येभमनुसंययौ | तयोरभून्महद्युद्धं करिणोरगयोरिव || ४४ || करसंवेष्टनैः कुम्भसङ्घट्टैः पार्श्वधर्षणैः | दन्ताऽक्रमैर्महाशब्दैर्मुहूर्तमतिभीषणम् || ४५ || रणं कोलाहलश्चाऽथ बलवान् दैत्यवारणम् | आक्रम्य भूमौ वेगेन निपात्य रदनद्वयम् || ४६ || उदरे विनिवेश्योर्ध्वमुत्थाप्य प्राक्षिपद्रुषा | एवं निक्षिप्तमात्रस्तु चीत्कुर्वन् कुञ्जरधिपः || ४७ || अपतत्त्रिःपरिक्रम्य व्यसुः पर्वतशृण्गवत् | पतन्तं बाहनेभन्तमालक्ष्य स महासुरः || ४८ || उत्पत्याऽङ्कुशमादाय रणकोलाहलं गजम् | प्राहरत् कुम्भयोर्मध्ये सर्वप्राणेन रोषितः || ४९ || गतोऽङ्कुशेन बलवत् स गजो भिन्नमस्तकः | अपाऽसरत् पञ्चधनुर्मात्रं चीत्कारभैरवः || ५० || विशुक्रः पुनरुत्पत्य सृणिहस्तो महागजम् | तमेव वाहनं तस्या सम्पत्कर्या युयोध ह || ५१ || प्.६६२) तस्याः करगतं चापमाच्छिद्य त्वरितं रुषा | बभञ्ज तद् द्विधा मध्ये समादायैकखण्डकम् || ५२ || प्राहरन्मूर्घ्नि बलवान् सम्पत्कर्याः सुवेग्तः | एवं हता सा बलवदीषत्कश्मलमागता || ५३ || पुनर्मुष्टि विनिर्वर्त्य वज्रसारां न्यपातयत् | मूर्ध्नि तस्य विशुक्रस्य रुषा सम्पतकरी बलात् || ५४ || मुष्टिपाताद्भन्निमूर्धा वहद्रक्तोऽतिमूर्च्छितः | कृत्तपक्षः शैल इव पतात वसुधातले || ५५ || ताव्द्गजोऽपि सङ्क्रुद्धः पदाऽक्रान्तुं समुद्यतः | आलक्ष्य तद्भण्डसुतः युध्यमानः समीपतः || ५६ || मत्वा हतं पितृव्यं वै मायया तमपाऽबहत् | एवं पराजितः सम्पन्नाथया स महासुरः || ५७ || तथाऽश्वारुढया युद्ध्यद्विषङ्गो वाजिवाहनः | विविधैरस्त्रशस्त्रैश्च युध्यन्तं तं महासुरम् || ५८ || अश्वाऽरुढाऽश्वसंस्थाना प्राहरद्गदयोरसि | ताडितो गदया चेषन्मूर्च्छां प्राप्य पुनर्जवात् || ५९ || पदासिकां खेटकञ्च शतचन्द्रमनुत्तमम् | समादायाऽश्वसेनासु विचचाराऽन्तकोपमः || ६० || प्.६६३) पट्टासिप्रान्तसंछिन्नास्तुरगाः शक्त्योऽपि च | छिन्नमूर्धाङ्गचरणाः प्रपेतुः सङ्घसङ्घशः || ६१ || एवं शक्तिर्विनिघ्नन्तमश्वाऽरुढाऽतिकोपिता | बद्ध्वा पाशेन गदया साऽश्वं हन्तुं समुद्यता || ६२ || अथ सोऽपि महादैत्यो मत्वा स्वात्मपराभवम् | अन्तर्धानं ययौ साश्वोमायया मायिनां गुरुः || ६३ || एवं पलायितो युद्धे विषङ्गो वाजिनाथया | दण्डनाथा च भण्डेन युयोध बलसम्भृता || ६४ || विहत्याऽस्त्राणि चाऽस्त्रौघैः शस्त्रैः शस्त्राणि सर्वशः | पराक्रमेणाऽक्रमत भण्डां कोलमुखी युधि || ६५ || खडगयुद्धे गदायुद्धे धनुःपरशुयुद्धयोः | मुष्टियुद्धे च दैत्येशमत्यरिच्यत दण्डिनी || ६६ || एवं पराजितः शस्त्रयुद्धेषु विमृशंस्ततः | मायां प्रादुश्चकारोश्चैर्मायिनां शेखरोऽसुरः || ६७ || अन्धकारं महावायुं विद्युद्वर्षं महारवम् | शिलावर्षंसर्पवर्षञ्च पावकम् || ६८ || सारमेयान् वृकान् व्याघ्रांस्तरक्षून् राक्षसानपि | सिंहांश्च शरभानाण्डभेरुण्डानसृजद्युधि || ६९ || एवं तेन महामायां सृज्यमानां पुनः पुनः | प्रतिक्रियाऽस्त्रसन्धानैर्नाशयामास सर्वतः || ७० || प्.६६४) अथ दण्डमहारज्ञीशस्त्रतेजोभिरर्दितः | नभस्यन्तर्हितो भूत्वा युयोध सरथोऽसुरः || ७१ || प्रादुश्चकाराऽश्मवर्षमतिभीमं महारवम् | शस्त्राऽशनिगणोपेतं शक्तिसेनाभयंकरम् || ७२ || तेन वर्षेण महता पीडिता शक्तिवाहिनि | भिन्नसेतुदकमिव विलुप्ताऽभूत् समन्ततः || ७३ || दृट्.वा तदक्रमं दण्डराज्ञी चण्डप्रकोपना | उत्पपाताऽतिवेगेन सायुधा नभसोऽङ्गणम् || ७४ || वर्षं पतन्तं तदाविश्य शिलामयमतिद्रुतम् | मृगयामास दैत्येशं नभस्यन्धतमोवृते || ७५ || निजाऽङ्गकान्त्या कुर्वन्ती नभोदेशं सुभास्वरम् | अपहत्य महामायामाससाद महासुरम् || ७६ || रथसंस्थं शैलनिभं सृजन्तं शैलवर्षणम् | गदयाऽभ्याहनन्मूर्घ्नि वज्राऽहत इवाऽद्रिराट || ७७ || पपात मूर्च्छितो भूमौ स्त्रोतः कृततटो यथा | पुनः सा गदयैवाऽशु रथमश्वांश्च सारथिम् || ७८ || विनाशयद्दण्डनाथा क्रोधेन महताऽवृता | तावन्मूर्च्छाविनिर्मुक्तो गदाहस्तो हासुरः || ७९ || उत्पपात नभो वेगाद्योद्धुं किरिनिभाऽननाम् | अथाऽभवन्महायुद्धं वाराहीदैत्यराजयोः || ८० || प्.६६५) गदाप्रहारतुमुलं व्ज्रपातमहारवम् | मुहूर्तमात्रं युद्ध्वैवं बलोतसिक्तं महासुरम् || ८१ || मत्वा चकर्ष सीरेण मुसलोद्यन्महाभुजा | तावन्मत्वा निजात्मानं हतं मुसलघाततः || ८२ || चिन्तयद्भण्डदैत्येशः पुरा लक्ष्मीप्रभाषितम् | नूनं प्रोक्तं रमादेव्या यत् पुरा न तदन्यथा || ८३ || बह्वेत मुसलघातेनाऽमोघेन स्यां कथं हतः | त्रिपुरा सा महादेवी भक्तवाञ्छितपूरणी || ८४ || मां हन्यात् समरे साक्षादेतन्मेऽभिमतं चिरात् | दैत्ये विचिन्तयत्येवमभवन्नाभसं वचः || ८५ || दण्डनाथे ! नैष वध्यस्तव युद्धे कथञ्चन | अमोघो मुसलस्तेऽयं सन्निवर्य वै द्रुतम् || ८६ || श्रुत्वेत्थं नाभसवचश्चण्डिका दण्डनायिका | मोचयत्तं सीरगर्भान्मत्वाऽवध्यं सुरेश्वरम् || ८७ || अथ सोऽन्तर्हितो दैत्योनिर्जितो दण्डनाथया | दैत्यसेनाशक्तिगणैर्गाढविद्धा पलायिता || ८८ || दृष्ट्वा भग्नां दैत्यसेनां जयभेरीमवादयत् | शक्त्यो विविधांश्चापि वाद्यान् जयविधौ मतान् | ८९ || अथ द्रुतं प्रेषयित्वा जयाऽख्या नाथदण्डिनी | ललितायै शक्तिसेनां समवाप्याऽभितः स्थिताम् || ९० || प्.६६६) क्षता हताः शक्त्यो या अमृतेशी च ता द्रुतम् | अजीवयद्विरुजयत् ततो हृष्टाञ्च तां चमूम् || ९१ || संनह्य स्वरथाऽरुढा सम्पद्देव्याऽनुसङ्गता | पुरोऽव्रजदश्वनाथा सेनया दण्डनायिका || ९२ || द्रष्टुं तां ललितादेवीं ययौ द्रुततरं मुदा | गजवादित्रशब्दौघैः ख्यापयन्ती स्वकं जयम् || ९३ || इति श्रीमदितिहासोत्तमे त्रिपुरारहस्ये माहात्म्यखण्डे ललिताचरित्रे भण्डासुरपराभवो नाम पञ्चषष्टितमोऽध्यायः || ५४१२ || प्.६६७) षट्षष्टितमोऽध्यायः सम्पत्कर्यश्वारुढाभ्यां दुर्मदवधवर्णनम् अथ गत्वा दण्डनाथा शक्तिभिर्विविधैर्युता | आसाद्य मन्त्रिणीं देवीं प्रणम्य जयमादिशत् || १ || साऽपि प्रीता परिष्वङ्गं तस्यै मानेन संददौ | अथ गत्वा तया सार्धं महाराज्ञीं प्रणम्य च || २ || जयवृत्तं समाचख्यौ शक्तिचक्रप्रहर्षदम् | भण्डासुरोऽपि दैत्यानांसेनया नष्टशेषया || ३ || ययौ बहिःखिन्नतय हृष्टश्चाऽन्तरभीप्सितात् | शून्यकं नगरं प्राप्य जगामाऽन्तःपुरं स्वकम् || ४ || ततः प्रियाः सममेत्य भण्डं सम्मोहिनीमुखाः | ब्रूयुर्नाथ किमद्य त्वां पश्यामः कृपणं यथा || ५ || नारदेन पुरोक्तं यत्तदन्यथयितं कथम् | प्राह पत्निवचः श्रुत्वा ज्ञात्वा स्वाऽभिमतं शुभम् || ६ || नारदोक्त्याऽभिविदितमाभिः सर्वात्मनेत्यथ | अभवत् प्रकट्स्तासु प्रियाः शृणुत मे वचः || ७ || प्.६६८) कथमिष्टार्थलाभेषु खिन्नः स्यामतिमुग्धवत् | विदितं ते नारदोक्तेः सर्वं मे समभीप्सितम् || ८ || अचिरादेव तल्लोकं प्राप्स्यामि परया हतः | किन्तु दैत्येषु स्वरूपं निगूहितुमिति स्थितिः || ९ || अथ प्राहुः पुनर्दारा नाथन्रूमोऽभिवाञ्छितम् | यदि ते निश्च्यो युद्धे हता यास्यामः तत्स्थितम् || १० || इति चेद्वैत्वदेकान्ता नयाऽस्मान् सहभावतः | तत्ते मार्गः प्रविदितो वदाऽस्माकं कथं गतिः || ११ || भक्ता हातुमयोग्यास्ते वयं छायेव सङ्गताः | श्रुत्वा प्रोक्तं प्रियाभिस्तत् प्राह हर्षसुनिर्भरः || १२ || शृणुध्वं मद्वचस्तथयं मयेतश्चिन्तितं पुरः | न भवेदन्यथा ह्येतत् सर्वथा कारनम् ब्रुवे || १३ || रमादेव्याः प्रसादेन स्मरामि प्राक समुद्भवम् | नूनं सा मेऽब्रबीदेवं त्रिपुराऽस्मत्समाश्रया || १४ || संश्रितानां सुभक्तानां वाञ्छितं सा हि सर्वथा | दिशत्यसाध्यमपि च ततो नः स्यात् समीहितम् || १५ || मयाऽभिवाञ्छितं यामि भवतीभिः सहेति वै | तल्लोकं तद्भवेदेवं सर्वथा ऽपि न संशयः || १६ || प्.६६९) अथऽपि मे समीहाऽन्या चाऽस्ति (?) पुत्रादिभिः सह | गन्तव्यमिति तत्रापि भवेदेव तथा ऽप्यहम् || १७ || चिन्तयाम्यक्रमेणैव भवेत्तस्याः कृपावशात् | नूनं लोके सुहृद्बन्धुवैधुर्यं जातु वै क्षणम् || १८ || सोढुं न योग्यं वै यत्र त्रुटिः कल्पगणायते | एतावत् प्रार्थ्यते नूनं न भवेत् सक्षणः क्वचित् || १९ || तस्माद्युष्ंआभिरप्येतत् प्रार्थनीयमहर्निशम् | सा साधयति भक्तानामसाभ्यमपि वाञ्छितम् || २० || एतदन्यौर्न विज्ञेयमित्यहं शुछ्यवस्थितः | शोकं जहथ राज्~योऽत्र प्राप्तोऽभुदय उच्छ्रितः || २१ || इत्युक्त्वाऽस्तङ्गते सूर्ये विवेशमहतीं सभाम् | अथाऽगता विशुक्राद्या भ्रातरो मन्त्रिणस्तथा || २२ || पुत्रा भृत्याः सभास्ताराः सभामध्येऽतिभास्वरे | प्रणम्याऽसुरभूपालं विविशुः स्वस्वविष्तरे || २३ || विशुक्रः प्रेक्ष्य राजानं शोचन्तमिव संस्थितम् | कृताऽञ्च्जलिः प्रणम्या.ऽह वर्धयित्वाऽद्भुतं वचः || २४ || श्रीदेव्या भण्डैत्येशवाञ्छितार्थसमीहया | नाशिताऽखिलदैत्यानां बुद्धिर्नीतिसमानुगा || २५ || प्.६७०) योऽतिबुद्धिमतां श्रेश्ठो विचारे शुक्रसम्मितः | विशुक्रः सोऽपि विमतं प्राह स्वार्थविषर्ययम् || २६ || अगस्त्यैतावदेवेह कृत्यं कालस्य भावितम् | भाव्यर्थस्याऽनुरोधेन भुद्धिमुन्मेषयत्यलम् || २७ || महाराज लक्ष्यसे म शोचन्निव सभास्थितः | जीवत्स्वस्मासु दैत्येषु पऽऽयाम्येतदसाम्प्रतम् || २८ || इत्युक्तःपुनरुचे स दैत्येशो दैत्यमण्डले | विशुक्र किं वदाम्यद्य कालस्यैवं विपर्यये || २९ || योऽहं पञ्चोत्तरशतब्रह्माण्डानां प्रसासकः | यस्य युद्धे विष्णुमुखा यूयो जाताः पराङ्मुखाः || ३० || यस्य नाम्नाऽपि वृत्रघ्नो निद्रामप्येतिनोक्वचित् | सोऽद्याऽहमबलासङ्घैर्व्यर्थयुद्धे कदर्थितः || ३१ || किं तादृशं पृच्छसि मां शोचसीति मृतप्रभम् | काले मृतिः श्लाघ्यतमा नेदृशस्य कदर्थना || ३२ || विशुक्र इति तद्वाक्यं श्रुत्वा प्राह ततो वचः | दैत्येशैवं नर्ऽहसि त्वं भाषितुं करुणंवचः || ३३ || अबला योषिदित्येवं कारुण्यं नाऽप्नुयात्तु कः | नैसर्गिकस्ते धर्मोऽयं स्त्रीषु शस्त्रपरावृतिः || ३४ || प्.६७१) अलं त्वया मया वाऽपि राजपुत्रादिभिस्तथा | दैत्येष्ववन्यतमोऽप्येकस्वयाऽज्ञप्तो मुहूर्ततः || ३५ || हन्याच्छक्तिगणं सर्वमत्र पादौ स्पृशामि ते | त्वं तिष्ठाऽन्तःपुरे क्रीढन् सुरवारगणैः सह || ३६ || गतोऽहं तां विजित्यैव पादौ पश्यामि ते पुनः | इत्युक्वा पर्श्वतः प्रैक्षत् कुटिलाक्षं चमूपतिम् || ३७ || तावत् सोऽपि प्रणम्यैनं कृताञ्जलिरभाषत | युवराज किमेवं त्वं ब्रवीषि मयि जीवति || ३८ || राज्ञा सह विषङ्गेण राजपुत्रैरूपाविश | सेनासेनाधिपैः साकं गत्वाऽहं साधयामि ताम् || ३९ || अन्यथा नाऽगमिष्यामि सत्यं प्रतिशृणोमि ते | इत्युक्त्वा प्रणिपत्यैतान्निर्ययौ नगराद्बहिः || ४० || अनेकाऽक्षौहिणीसेनायुक्तः सेनाऽधिणैः सह | अथाऽगत्य दुर्मदाऽख्योवाहिनीषो महाबलः || ४१ || दशाऽक्षौहिणिकायुक्त उष्ट्राऽरोहो गदाधरः | प्राहाऽहङ्कारशैलस्थः प्रणम्याऽत्मचमूपतिम् || ४२ || सेनाधिश! त्वमत्रैव तिष्ठ सेनासमावृतः | अवलाविजयेनैव प्रयाणं वः सुसम्मतम् || ४३ || प्.६७२) आनेष्यामि मुहूर्तेन बद्ध्वा तामबलाधिपाम् | मुहूर्तमात्राद्यदि तां नाऽनेष्यामि ततस्त्वया || ४४ || यतितव्यञ्च गन्तव्यमित्युक्त्वा निर्ययौ जवात् | वादयन् जैत्रयात्राऽङ्गवादित्राणि मुहुर्मुहः || ४५ || ययौ शक्तिचमूवक्त्रं सूर्यस्योदयनं प्रति | दैत्यसेनासमारभ्मकोलाहलमहरवम् || ४६ || श्रुत्वा सम्पत्करी देवी चाऽश्वारुढा महाबला | गत्वा श्रीमातरं नत्वा मन्त्रिणी दण्डिनीमपि || ४७ || विज्ञाप्य दैत्यसन्नाहमनुज्ञातेऽतिमोदिते | ययतुः शक्तिसेनाभिरसङ्ख्याभिः समायुते || ४८ || तत्र सम्पत्करी देवी समारुह्य महागजम् | रणकोलाहलाऽख्यानं प्रालेयाऽद्रिरिवोन्नतम् || ४९ || सुवण भा जपाऽरक्तवासोरत्नविभूषणा | तारुण्याम्भोधिलहरी लावण्यौघसमुद्रिका || ५० || विकर्षन्ती मणिमयं चापमिन्द्रधनुष्प्रभम् | दैत्याम्बुधेः शोषणाय शरान् भानुकरोपमान् || ५१ || किरन्ती निर्ययौ सूर्य उदयाऽद्रिगतो यथा | असङ्ख्या वारणाऽरुढा शक्त्यश्चाऽपि तादृशाः || ५२ || प्.६७३) परिवार्य ययुर्बाणान् विकिरन्त्यः समन्ततः | प्रत्येकं तादृशी शक्तिर्गर्जने त्र्यङ्कुशग्रहा || ५३ || गजग्रीवासमारुढा नयती शत्रिवाहिनीम् | कस्मिंश्चिदेका संरुढाऽनेकाश्चाऽन्येषु संस्थिताः || ५४ || इत्यसङ्ख्येभसेनाभिः समेता सम्पदीश्वरी | ग्रसन्तीव दैत्यसेनां व्याप्य भूमिमुषाऽययौ || ५५ || निसर्गभिन्नगण्डास्ते गजाः पर्वतसन्निभाः | दैत्यसेनां समासेदुस्ते युद्धेष्वनिवर्तिनः || ५६ || अथ विआदित्रनिस्वानः सेनयोरुभयोरभूत् | प्रवृत्तः ऽऽशस्त्रपातोऽपि प्राणचोरमहारवः || ५७ || दैत्या रथेभतुरगखरोष्ट्रमृगरोहिणः | गृघ्रकाककङ्कघूकभासकेक्यधिसंश्रयाः || ५८ || अन्ये मार्जारनकुलसरटप्रेतवाहनाः | चण्डशूलखड्गचक्रभिन्दिपालधराः परे || ५९ || तोमरप्रासपरिघभुशुण्डीलगुडाऽयुधाः | एवंविधैर्दैत्यगणैः समेता शक्तिवाहिनी || ६० || युयुधे प्रौढसंरम्भा क्रोधसंरक्तलोचना | परस्परं क्षिपन्तस्ते वाक्यैः कटुरसोदयैः || ६१ || प्.६७४) हतोऽसि तिष्ठ शौर्येण पृष्ठ स्वं न प्रदर्शय | इत्यादिबहुवाक्यानि वदन्त्यः शक्त्यो रणे || ६२ || जघ्नुर्दत्यांस्तेऽपि तद्वन्निजघ्नुः शक्तिवाहिनीम् | एवं प्रवृत्ते समरे प्राणद्युते भयङ्करे || ६३ || छिन्नबाह्नङ्घ्रिमूर्धानः पाटितार्ऽधार्ढदेहिनः | एवंविधाः शक्त्योऽपि दैत्यहेतिभिराहताः || ६४ || पाटिताऽङ्गा अपि दृढं क्रोधात् सन्दष्टदच्छदाः | जघ्नुः प्रत्यर्थिनां वृन्दं शस्त्रैर्दन्तैश्च मुष्टिभिः || ६५ || नष्टशस्त्राः परकराच्छस्त्रामाच्छिद्य वै बलात् | अन्ये भग्नैरथाङैश्च हेतिभिर्युयुधुर्भृशम् || ६६ || एवं प्रवृत्ते समरे घोरे संहृतिसन्निभे | बवुर्नद्यो लोहितौघाः सफेनिलतरङ्गिकाः || ६७ || शक्तिभिर्गजरोहाभिर्दैत्यसैन्यं विनाशितम् | पलायितं गाधविद्धं दशाऽक्षौहिणिशेषितम् || ६८ || दृष्ट्वा दुर्मद एवं स्वां भग्नां सेनां समन्ततः | उष्ट्राऽरुढो गदाहस्तः कालाऽन्तकयमोपमः || ६९ || दशतालसमुन्नम्रं करभं पिङ्गलाऽकृतिम् | प्राहिणिच्छक्तिसेनासु महावेगं महाबलम् || ७० || प्.६७५) अथ प्रविष्टः शक्तीनां सेनासूष्त्रोऽतिवेगवान् | सृक्किणीप्रान्तविगलन्मांसपिण्डाऽभजिह्वकः || ७१ || समुद्रमथनोदञ्चन्महाशब्दप्रतिस्वनः | फेनपिण्डानुद्गिरंश्च मूत्रयन् पृष्ठतो बहु || ७२ || उरसा पादविक्षेपैस्तुण्डाऽघातैः करिव्रजम् | नाशयन् दशनैश्चैव व्यचरच्छक्तिसैन्यके || ७३ || दुर्मदोऽपि गदाऽघातैरिभंच्छक्तीश्च नाशयन् | शक्तिसेनाऽन्तक इव कदनं प्रकरोद्रुषा || ७४ || तद्दृष्ट्वा शक्तिसेनाया नाशनं सम्पदीश्वरी | रणकोलाहलं तस्य नाशाय समचोदयत् || ७५ || अथेभराज आसाद्य करभं दैत्यवाहनम् | अयुध्यत विषाणाऽग्रकुम्भाऽघातैर्मुहुर्मुहः || ७६ || सोऽपि दन्तैर्मूर्धघातैः पदक्षेपैरयुध्यत | एवं युद्धं समभवत्तुमुलं करभेभयोः || ७७ || अथेभराजः करभं प्रसह्यापतयद्भूबि | निपात्य पादेनाऽक्रम्याऽकरोत्तं करभं व्यसुम् || ७८ || मरिष्यन्तं विदित्वोष्ट्रं गदाहस्तः खमाप्लुतः | संभ्राम्य पातयन्मूर्घ्नैंगदां वारणकुम्भ्योः || ७९ || प्.६७६) गदयाऽभिहतो हस्ती भीन्नमूर्धा भ्रमन्नुरः | जानुभ्यां विकलो भूमिं प्राप्तः शोणितमुद्ग्निरन् || ८० || तावत् सम्पदधीश्याऽपि शरेणोरसि ताडितः | जहौ प्राणान् दुर्मदोऽपि द्विधोरसि विपाटितः || ८१ || हतं सेनाधिपं दृष्त्वा विद्रुता दैत्यसैनिकाः | अदृष्ट्वा पृष्टतो यान्तिः शक्तीर्जीवितहेतवे || ८२ || इति श्रीमदितिहालोत्तमे त्रिपुरारहस्ये माहात्म्यखण्डे श्रीललितामाहात्म्ये दुर्मदवधो नाम षट्ष्टितमोऽध्यायः || ५४९४ || प्.६७७) सप्तषष्टितमोऽध्यायः नकुलीपराक्रमे करङ्कादिबधवर्णन्म् दुर्मदं निहतं श्रुत्वा कुरण्डो दुर्मदाऽग्रजः | क्रुद्ध आज्ञां समादाय कुटिलाक्षान् महाबलः || १ || विंशत्यक्षौहिणीयुक्तो योद्धुमभ्याययौ जवात् | विलोक्य पुनरायान्तीं दैत्यसेनां नभोनिभाम् || २ || अश्वारुढाऽश्सेनाभिरपाराभिरभिब्रजत् | तुरङ्गा विविधास्तुङ्गास्तरङ्गा इव रेजिरे || ३ || पृथग्वर्णा सङ्घशः सा सेनाऽत्यन्तं व्यराजत | फेनपिण्डनिभानश्वानारुढाः कनकप्रभाः || ४ || नीलांऽशुकाः खड्गखेटधरास्तारुण्यगर्विताः | अपराः कालजीमूतनिभवाजिसमाश्रयाः || ५ || चन्द्रकान्तिसमाऽभासः शोणाऽभरणवाससः | धनुर्बाणधरा नीलरत्नकोटीरशोभिताः || ६ || अन्या गारुतत्मतनिभानश्वानारुह्य वेगिनः | कुरुविन्दसमानाङ्ग्यः पाटलांशुकभूषणाः || ७ || प्.६७८) द्वचित् समानाऽङ्गभूषांऽशुकाऽश्वाः शक्त्यो ययुः | एवं विचित्राऽभ्रयुतसन्ध्याऽकाशनिभा चमुः || ८ || अतिवेलाऽम्बुधिनिभा ग्रसद्दैत्यचमूं द्रुतम् | भेरीकाहलगोशृङ्गपटहाऽनकनिस्वनः || ९ || तुरङ्गखुरकुद्दालतालनिस्वनमिश्रितः | हुङ्काराऽह्वानविक्षेपाऽस्फोटसंरावमांसलः || १० || द्यावापृथिव्यन्तरालमापूर्याऽधिव्यरोचत | अथ प्रवृत्तः समरः करालोऽसुविकर्षणः || ११ || हेतिपातमहाशब्दबधीरीकृतदिङ्मुखः | तुरङ्गखुरविक्षेपविधूतरजसां गणः || १२ || सांवर्तकमहामेघसङ्घवत् खं समाक्रमत् | क्षणं कुहुनिशीथाऽभं जातं हीनाऽवलोकनम् || १३ || ततो हेतिप्रपतनोच्छलच्छोणितवृष्टिभिः | रजोऽन्धकारः संशान्तः पुनरासीन्महारणः || १४ || परस्परं प्राणहरः शक्तिसन्यस्य चाऽसुरैः | बलीयसीभिर्दैत्यानां शक्तिभिस्तेज आहृतम् || १५ || प्.६७९) भग्नाऽभवद्दैत्यसेना शक्तिभिर्गाढमर्द्दिता | छिन्नपादकरश्रोत्रकुक्षिपृष्ठा महासुराः || १६ || प्रास्य शस्त्राणि परितो विधुन्वन्तः करान्मुहुः | वदन्तो हा हतास्मेति त्वक्त्वा युद्धं विदुद्रुवुः || १७ || निशाम्य सेनां स्वां भग्नां कुरण्डः क्रोधमूर्च्छितः | अश्वारुढो महश्चापं विकर्षन् सायकान् क्षिपन् || १८ || शक्तिसेनां समाविश्य नाशयत्ताः सहस्त्रशः | शरवर्षैः कुरण्डाऽब्दनिर्मुक्तैः शक्तिवाहिनी || १९ || भग्ना सेतुरिवोन्नब्रा महाजलसमागमात् | भग्नायां शक्तिसेनायामश्वारुढा समासदत् || २० || अपराजितनामानं वाजिनं समधिष्ठिताम् | तप्तहेमनिभामच्छदुकूलाऽभरणोज्ज्वलाम् || २१ || पाशाऽङ्कुशधनुर्बाणधरां दृष्ट्वाऽब्रवीद्वचः | दुष्टेऽबलिप्ताऽसि चिरं मोचयाम्यवलेपकम् || २२ || यन्मे त्वया हतो भ्राता तत्फलं प्राप्स्यसि द्रुतम् | त्वां निहत्य रणे पश्चान्मुक्त स्यां भ्रातृदोषतः || २३ || मयि प्रदर्शयाऽदौ ते वीर्यं यश्चिरसम्भृतम् | एवं प्रोक्ता रोषिताऽश्वारुढा तीक्ष्णैः शरैस्त्रिभिः || २४ || विव्याध तत्र चैकेन वाहस्य शिर आच्छिनत् | द्वितीयेन च कोटीरं पातयामास भूतले || २५ || तृतीयेन तस्य वक्षो दारयामास वेगतः | हताऽश्वो भ्रष्टमुकुटो विहतो बलवद्धृदि || २६ || मूर्च्छितः कृत्तमूलस्य पपातेव महासुरः | क्षणेन मूर्च्छानिर्मुक्तः प्राह तां रणमूर्ध्नि || २७ || रण.श्लाध्या हि साधुत्वं सम्मताऽसि रणे मम | श्रुत्वेत्याह पुनर्देवि धिक्त्वं जीवसि दैत्यक ! || २८ || यत्नान्मया भासितुं त्वं जीवशेषीकृतो ह्यसि | पश्येमं तं जीवहरं शरं शत्रुमदाऽपहम् || २९ || श्रुत्वा देवीवचो दैत्यः क्रोधाग्निज्वलिलाऽकृतिः | देव्याश्चापं प्रचिच्छेद शरेणाऽनतपर्वणा || ३० || चिच्छेद साऽपि खड्गेन धनुर्दैत्यकरस्थितम् | अथ दैत्योऽपि खड्गेन तस्याः खड्गं द्विधाऽकरोत् || ३१ || पुनर्जघान तुरगं खड्गेनैवाऽतिवेगतः | खड्गप्रहारनिर्भिन्नमस्तकोऽश्वो ह्यपऽक्रमत् || ३२ || तावद्देव्यपि संक्रुद्धा बद्ध्वा पाशेन वै दृढम् | आकृष्य प्राहरन्मूर्घ्नि सृणिना दीप्ततेजसा || ३३ || प्.६८१) तेनाऽङ्कुशेन निर्भिन्नमूर्धा दैत्यो ममार् ह एवं कुरण्डं निहतं श्रुत्वा सेनाऽधिपो रुषा || ३४ || पार्श्वस्थान् प्रेक्ष्य सेनेशान् करङ्कप्रमुखांस्तदा | कुटिलाक्षः प्राह सेनाधीशोऽरुणितलोचनः || ३५ || हे हे करङ्कप्रमुखाः पञ्च युयं स्वसेनया | युता गत्वा द्रुतं हत्वा बद्ध्वा तां वारणे द्रुतम् || ३६ || समानयध्वं वः शक्तिरस्ति मायामयी ननु | सर्पिण्याख्या तया सर्वे नन्वजेयाः सुराऽसुरैः || ३७ || इत्याज्ञ्प्ताः करङ्काद्या नत्वा सेनाधिपेश्वरम् | विंशत्यक्षौहिणीयुताः प्रत्येकं योद्धुमाययुः || ३८ || करङ्को गर्द्दभरथे करभे वज्रदन्तकः | वज्रलोमा गृघ्ररथे गजे काकमुखस्तथा || ३९ || वज्रवक्त्रः खरबरे संरुढा भीमदर्शनाः | युद्धसंरम्भदैत्यानां निशम्याऽतिमहाध्वनिम् || ४० || अश्वारुढा च सम्पतीदेवी सेनामयुयुजत् | अथ सम्मुखमासाद्य सेने ते शक्तिदैत्ययोः || ४१ || विचित्रवादित्ररवे हेतिसञ्चलनोज्ज्वले | चक्राते शरवर्षाणि दुरान्मेघतती इव || ४२ || प्.६८२) अथ सेनाद्वयं श्लिष्टं विनिघ्नदितरेतरम् | क्रोधदष्टदच्छदाढ्यं भ्रुकुटीकुटिलाननम् || ४३ || पाटितं सितखड्गेन प्रोतं भल्लेषु प्रांशुषु | छिद्रितं शरजालेन परिघोत्पातपेषितम् || ४४ || शस्त्रैरुश्चावचैरेव परस्परमनाशयत् | गजवाजिमहासेना शक्तीनामतिरोषिता || ४५ || मुहूर्तेनैव निःशेषाञ्चक्रे दैत्येन्द्रवाहनीम् | दृट्वा सेनां हतप्रायां करङ्काद्या महासुराः || ४६ || प्रविश्य शक्तिसेनां ताम् नाशयामासुरोजसा | काल्यमानां दैत्यवरैः सेनां दृष्ट्वा पराहताम् || ४७ || अश्वारुढा तथा सम्पत्करी दैत्यानयुध्यत | ताभ्यां भग्ना युधि तदा करङ्काद्या महासुराः || ४८ || निर्ममुस्तां महामायां सर्पिणीं सर्पभूषणाम् | भीमरूपां चण्डरवां विविधं सर्पमण्डलम् || ४९ || सृजमानां शक्तिसेनानाशाय समराऽवनौ | अथ सा मुखेनेत्रादिसम्भूतैः सर्पमण्डलैः || ५० || नाशयामास शक्तीनां सेनामधर्मुहूर्ततः | तद्वैशसमतीवोग्रं दृष्ट्वा काश्चन शक्त्यः || ५१ || प्.६८३) पलायिताः समाख्यातुं दण्डराज्ञ्यै द्रुतं ययुः | प्राप्य तां कोलवदनां श्रीमातृसविधे स्थिताम् || ५२ || प्रणम्य मन्त्रिणीञ्चाऽपिप्रोचुर्दत्याश्च हा भयम् | दण्डनाथे वयं याताः सम्पद्देव्या सहाऽसुरैः || ५३ || तत्र युद्धं समभवद्घोरं प्राणहरं परम् | दुर्मदो निहतो युद्धे सम्पदीश्या कुरण्डकः || ५४ || नीतोऽश्वारुढ्या कीर्तिशेषं सेनाऽपि भूयसी | नाशिताऽस्माभिरत्युग्रा एवं दैत्या विनिर्जिता || ५५ || करङ्काद्यैः पञ्चसेनानायकैर्हतपत्तिभिः | प्रवर्तिता महामाया सर्पिण्याख्या हि साम्प्रतम् || ५६ || नेत्राद्यक्षैः सृजन्ती साऽसङ्ख्यान् सर्पगणान्मुहुः | तैः सर्पैर्निहता दष्टा बद्धा भस्मीकृता परा || ५७ || शक्तिसेना मृतप्राया सञ्जाता ननु सर्वशः | देव्यौ ते शरवर्षेण सर्पान् घन्न्त्यौ मुहुर्मुहः || ५८ || हन्तुं दैत्यान् सुहीमेन मुसलेन विनिर्ययौ | निवार्य तां मन्त्रनाथा ज्ञात्वाऽमोघाञ्च सर्पिणीम् || ६० || प्.६८४) तद्वृत्तं तरसा गत्वा स्वयं देव्यै व्यजिज्ञपत् | अथ ध्यात्वा क्षणेनाऽम्बा जृम्भमाणा मुखाऽम्बुजम् || ६१ || विकाशयत्तद्वक्त्रात्तु निर्जगामाऽतिवेगतः | कनकाभा महाशक्तिर्देवीतालुसमुद्भवा || ६२ || सुपर्णसंस्था नकुली वाग्देवी रत्नभूषणा | तां प्रणम्य स्थितामग्रे प्राह श्रीललितेश्वरी || ६३ || गच्छ वत्से सर्पिणीं तां नाशयाऽशु स्वतेजसा | इत्युक्ता सा क्षणेनैव सम्प्राप्ताऽहवमण्डलम् || ६४ || सुपर्णपक्षवातेन सर्वे सर्पाः पलायिताः | सर्पबन्धविनिर्मुक्ताः शक्त्यः प्रोत्थितास्ततः || ६५ || भूयः ससर्ज सर्पान् सा नाशितुं शक्तिमण्डलम् | तद्दृष्ट्वा सर्पनिवहव्याप्तं शक्तिगणं मुहः || ६६ || ससर्ज नकुलान् स्वीयरोमभ्योऽतिबलान् क्षणात् | नकुलास्ते महावेगाश्चित्रवर्णाः सुरोषिताः || ६७ || स्तब्धरोमबालधयो वज्रदन्ता दृढाऽङ्गकाः | ते सृष्टा नकुलाः शीघ्रं तान् सर्पान् सर्वतः स्थितान् || ६८ || ददंशुर्वज्ररदनैः खण्डञ्चक्रुर्द्वधा त्रिधा | नकुलस्तादृशैः सर्पाः खण्डिता भक्षिता अपि || ६९ || प्.६८५) निःशेषिताः शक्तिसेना नाशकामा यथोत्थिताः | अथ ते नकुलाः सर्पान् विनाश्याऽपरिशेषतः || ७० || ददंशुः सर्पभूषाढ्यां सर्णीमपि सर्वतः | सर्पिण्यान्तु प्रणष्टायां करङ्काद्या महासुराः || ७१ || युयुधुर्नकुला देव्या शस्त्राऽप्यस्त्रैरनेकशः | ततस्तेषाञ्च शस्त्राणि वाहनान्यपि सर्वतः || ७२ || प्रणाश्ययुगपत्तेषां खड्गेन शिर आच्छिनत् | खड्गच्छिन्नोत्तमाङ्गास्ते निपेतुर्विगताऽसवः || ७३ || तावत् सेनापि संशिष्टा भीता दिक्षुप्रविद्रुता | जयशब्दैर्वर्ध्यमनान्नकुलीनकुलान् हिताम् || ७४ || साऽङ्गे संहृत्य वाराहीं मन्त्रिणीं ललितेश्वरीम् | प्रणम्य जयवृत्तान्तमाचख्यौ विधृताऽञ्जलिः || ७५ || इति श्रीमदितिहासोत्तमे त्रिपुरारहस्ये माहात्म्यखण्डे श्रीललिताचरित्रे नकुलीपराक्रमे करङ्कादिवधो नाम सप्तषष्टितमोऽध्यायः || ५५७० || प्.६८६) अष्टषष्टितमोऽध्यायः कुटिलाक्षविषङ्गसम्वादे देवीपराजयार्थयुक्तिविमर्शवर्णनम् अथ दैत्यैर्विदित्वा तान् करङ्कप्रमुखान् हतान् | कुटिलाक्षो विनिःश्वस्य चिन्तामाप महत्तराम् || १ || नूनमेषा महाशक्तिरविजेयेव भाति मे | दुर्मदश्च कुरण्डश्च बलिनौ निहतौ रणे || २ || अस्तु तन्न विचिन्त्यं स्याज्जयस्याऽनियतस्थितेः | एते करङ्कप्रमुखाः सर्पिण्यामोघया युताः || ३ || अजेया देवदैत्यानां कथं युद्धे निपातिताः | या श्रूयते शक्तिगणनायिका ललिताऽभिधा || ४ || सा स्थितैव परीवारशक्तिभिर्निहतं बलम् | अहो ! किं न भवेल्लोके विपरीते विधौ ननु || ५ || आश्चर्यमेतन्निहता करङ्काद्याश्च योषिता | बलं क्षीणं चतुर्थांऽशंसैन्येशा बलिनो हताः || ६ || न हता शक्तिसेनायां मुख्यैकाऽपि कथं भवेत् | प्रतिज्ञाय शक्तिजयं राज्ञेऽहं कथमद्य वै || ७ || प्.६८७) अशक्यमिति वक्ष्यामि पुनः कापुरुषो यथा | एवं चिन्तासमाक्रान्ते कुटिकाक्षे चमूपतौ || ८ || आजगाम् विषङ्गोऽपि विशुक्रेण प्रयोजितः | दृष्ट्वा विषङ्गं सेनेशः कुटिकाक्षः समुत्थितः || ९ || आसानाद्यैः पूजयित्वा निषसादाऽसने स्वके | अथ दृष्त्वा विषण्णाऽस्यं विषङ्गः सैन्यनायकम् || १० || अब्रवीत्तं भण्डदैत्यप्रार्थितं या समीहति | तया भक्तेष्टदायिन्या मोहितो दैत्यपुङ्गवः || ११ || कुटिलाक्ष ! विषीदन्तमिव पऽऽयामिते मुखम् | तद्वदाऽशु किं निमित्तं समं सर्व करोम्यहम् || १२ || श्रुत्वा प्रोचे सोऽपि सर्वं दैत्यनाशं हत्तरम् | अविशाशञ्च शक्तीनां महाभयमुपस्थितम् || १३ || श्रुत्वा जहास दैतेयं आ मोह इति संवदन् | मोहितो मायया देव्या बभ्दाषे बुद्धिमानिव || १४ || शृणु सेनापते ! सर्वं इदित्वैवाऽहमागतः | विना युक्त्या न जीयेत महाबलवता परः || १५ || जयो युक्तौ सर्वथैव स्थितः सा बूधिसंश्रया | मया शक्तिजयो प्रायो निश्चितः सूक्ष्मबुधिना || १६ || प्.६८८) जहि शोकाऽन्धकारं त्वं मद्युक्तेरविसंश्रयः | अहं मन्ये हताः शक्तिगणा इत्येव युक्तितः || १७ || शृणु ते तत् प्रवक्ष्यामि यन्मया निश्चितं जये | कूटेनैव विजेया सा तत्क्र्मं निश्चितं ब्रुवे || १८ || अद्यैव चरमे भागे दिनस्य दैत्यसेनया | महत्या दंशिताः सर्वे विशुक्रेणाऽपि संवृताः || १९ || युद्धाय परतो यान्तु राजपुत्रैश्च संयुताः | गन्तव्यमेव यद्धाय यथा शक्तिगणाः अपि || २० || निःशेषेणैव युध्यन्ति ललितैकाकिका भवेत् | तावद्रात्राबन्धकारैर्देत्यैर्बहुभिरावृतः || २१ || निर्गम्य पार्श्वभागेन पृष्ठदेशं समाश्रयन् | तस्या रथं समारुह्य तत्रत्या अपि काश्चन || २२ || शक्तीर्हत्वा ग्र्हीष्यामि जीवग्राहं बलादहम् | ललितामबलां दुष्टां शक्तिसङ्घशिफात्मिकाम् || २३ || न जीवग्रहणं याति चेद्ध्न्मि गदया भृशम् | तस्यां हतायां बद्धायामपि वा शक्तिवाहिनीम् || २४ || नष्टप्रायामवेहि त्वं भवद्भिर्नाश्यतेऽपि च | या तु सा ललिता राज्ञीसुकुमारकराङ्घ्रिका || २५ || प्.६८९) न समर्था मया योद्धुं विदितं मे चिरादिदम् | एवं मया व्यवसितं बुद्ध्याऽत्यन्तप्रगल्मया || २६ || सखे कश्चित्तव मतं दोषभेदविवर्जितम् | ऽऽश्रुत्वा विषङ्गवचनं कुटिलाक्स्ऽश्च भूपतिः || २७ || त्रिपुरामायया मुढो जितां तामभिमन्यत | प्रहृष्ट उत्थाय च तं तं द्रुतं स परिषस्वजे || २८ || साधु दैत्यकुलश्लाध्य वेद्मि त्वां बुद्धिमत्तमम् | काले जयवहा बुद्धिर्दुर्लभा सर्वथा ननु || २९ || नैवंविधा ह्यौशनसी बुद्धिराङ्गिरसी तथ | चिरं जीव राजकार्यसाधकस्त्वं मतो मम || ३० || तत् प्रयाह्यचिरं राज्ञे निवेद्याऽदय मन्त्रिणः | राजपुत्रान् विशुक्रञ्चाऽयाहि युधाय सर्वथा || ३१ || लम्बत्येष दिवानाथो प्रयातुं सलिलाऽर्णवम् | वयं यदा शक्तिसेनां नियुध्यामस्तदा द्रुतम् || ३२ || साधयिष्यसि तत्कार्यं बुद्ध्या वीर्येण संवृतः | इत्युक्ते कुटिलाक्षेऽथ विषङ्गो नगरं ययौ || ३३ || तत्र राज्ञे विशुक्राय चाऽपि संवेद्य सर्वशः | मायाविमूडैर्दैत्येशः सम्मतः संययौ द्रुतम् || ३४ || राजपुत्रैर्विशुक्रेण मन्त्रिभिश्चाऽभिसंवृतः | कुटिलाक्षेण सङ्गम्य सर्वसेनासमावृतः || ३५ || प्.६९०) योद्धुमभ्याययौ तत्र यत्र शक्तिमहाचमुः | विदित्वा दैत्यराजस्य सन्नाहमतिसंवृतम् || ३६ || सर्वसैन्यदैयवरसङ्गमं चारवक्त्रतः | मन्त्रिणी ललितादेवीं नत्वा वृत्तं व्यजिज्ञपत् || ३७ || आज्ञ्प्ता ललितादेव्या मन्त्रिणी प्राह दण्डिनीम् | वत्से भण्डासुरस्याऽयं संरम्भो दृश्यते महान् || ३८ || एकं दैत्येश्वरं मुक्त्वा सर्वे युद्धाय सङ्गताः | अस्माभिरपि गन्तव्यं निःशेषेण द्रुतन्तु तत् || ३९ || कुरु सैन्यस्य सन्नाहं शक्तीनां प्रविशेषतः | इत्याज्ञप्ता कोलमुखी सर्वशक्तिचमूवृता || ४० || मन्त्रिण्या च समायुता देवीं नत्वा ययौ मृधे | निर्गता शक्तिसेना सा गजवाजिरथाऽकुला || ४१ || समुद्र इव लोकानां ष्लावकः प्रतिसञ्चरे | युद्धवादित्रनिनदैर्गजवाजिरथस्वनैः || ४२ || मिश्रितः सिंहनादो वै शक्तीनामभिवर्धत | तं भीमं लोकदलनं श्रुत्वा दैत्या महास्वनम् || ४३ || व्यमुञ्चन् प्रतिरावं ते ततोऽतिविपुलं तदा | स घोषः सेनयोर्मिश्रो व्यरुचद्रोदसीगतः || ४४ || भीरुणां प्राणहरणः पल्वलानां प्रशषणः | अथाऽभवन्महायुद्धं सेनयोः शक्तिदैत्योः || ४५ || प्.६९१) जघ्नुदैत्याः शक्तिगणं विचित्ररायुधैः पृथक् | तथा दैत्यान् शक्त्योऽपि ममद्र्दुर्हेतिपातनैः || ४६ || शरप्रहारैस्तिलशः केचित्तत्र कृता रणे | देचित् कृपाणिना मध्ये पाटिताः शकलीकृताः || ४७ || केचिच्छक्तिषु भल्लेषु प्रोताः शूलेषु मध्यतः | केचिश्चक्रेण संच्छिन्नकन्धरोदरबाहवः || ४८ || पेषिताः परिघैः केचिच्छतघ्नीमुद्गरादिभिः | अमोघपाशैः परितः पाशिताः केचिदञ्जसा || ४९ || केचित् कुठारपरशुप्रमुखैर्मूर्ग्नि भेदिताः | विक्षताः केचिदुरसि तोमराऽङ्कुशसारणैः || ५० || एवं युद्धे बभौ तत्र मुहूर्तं समभावतः | अथशक्तिगणैर्भग्ना दैत्यसेना प्रविद्रुता || ५१ || क्र्न्दमाना हताः स्मो वै हा हेति च दृढं हताः | अनुद्रुताः शक्तिगणैः शरणं प्रेप्सवोऽभितः || ५२ || असृग्वहा बवुस्तत्र क्रव्यादशुभदर्शनाः | तरङ्गैः कङ्कालगणान् वाहयन्त्यः समेधिताः || ५३ || केचित्तासु प्रपतिता नीता दूरं निमेषतः | एवं दैत्यप्रविद्रावं दृष्ट्वा भण्डाऽनुजस्तदा || ५४ || विशुक्रः प्राह पार्श्वस्थान् बलाहकमुखाऽसुरान् | प्रोवाचाऽहूय विज्ञाय तानमेयपराक्रमान् || ५५ || प्.६९२) हे बलाहक ! पश्येमान् दैत्यान् शक्तिगणैर्हतान् | अनाथानिव युद्धेषु काल्यमानान् समन्ततः || ५६ || गच्छ त्वं भ्रातृभिर्युक्तो नाशय प्रत्यरीनिमान् | तपसा भवतां नेत्रे सूर्यः स्वांऽशं ददौ किल || ५७ || गत्वाऽवलोकनेनेमा भवन्तो निर्दहन्तु वै | इत्याज्ञप्तो भ्रातृयुतो ययौ शक्तीर्विहिंसितुम् || ५८ || बलाहकः कालमुखो विकर्णो विकटाऽननः | सूचीमुखः करालाक्षः करटश्चेति सप्त ते || ५९ || भ्रातरोऽतिक्रूरवला यमीक्षन्त्यतिरोषतः | स सन्तप्तोऽतितर्षेण प्रयाति निधनं द्रुतम् || ६० || तैरूपास्य दिवानाथं प्राप्तमेवंविधं बलम् | एवं विधास्ते सेनायां प्रविश्य युगपत्तदा || ६१ || विनिघ्नन्तः शक्तिगणं ददृशुः क्रूरचक्षुषा | अथ ताः शक्त्यः सर्वा दैत्यानामवलोकनात् || ६२ || महत्या तृषया व्याप्ताः सन्तापेनाऽखिलाऽङ्गकैः | एवमत्यन्तसन्तापतृषाभ्यां समभिप्लुतम् || ६३ || अवसन्नं शक्तिगणं शङ्घशः समराऽवनौ | मन्त्रिणीं दण्डिनीं त्यक्त्वा सर्वं शक्तिगणं यदा || ६४ || गजाऽश्ववाहनोपेतं पतितं तापहेतुतः | तन्नेत्रवीर्यं न तयोः प्रवृत्तं तन्महित्वतः || ६५ || प्.६९३) निशाम्य तद्द्ण्ण्दनाथा मन्त्रिण्यै संन्यवेदयत् | विचार्य मन्त्रिणी चाऽपि विदित्वा रव्यनुग्रहम् || ६६ || श्रीदेवीचक्ररक्षार्थ या नाऽयाता महायुधि | सस्मार मनसा शक्तिं तिरस्करणिकाऽभिधाम् || ६७ || सा प्राप्ता स्मृतिमात्रेण कालाञ्जननिभे हये | समारुढा नीलवपुर्नीलांशुकविभूषणा || ६८ || नीइलमाल्यधरा गाढघ्वान्तसन्तमसा वृता | स्वसमाकारशक्तीनां कोटिभिः परिवारिता || ६९ || न तदिच्छां विना कोऽपि पऽऽयेत्तं जगतीतले | आगत्य मन्त्रिणीं नत्वा प्राह किं संस्मृतेति वै || ७० || पृष्टैमुक्त्वा दैत्यानां बलं तन्नाशनाय ताम् | विसर्जयामास पुनः शक्तीनां शान्तिहेतवे || ७१ || अमृतेशीं सुधासिन्धुमाज्ञापयदनुद्रुतम् | आज्ञप्तैवं समारुह्याऽदृश्यवाहनमुत्तमम् || ७२ || तिरस्कृतिरदृश्याङ्गी तादृक्शक्तिगणावृता | नाशयामास दैत्यानां सेनां शस्त्रनिपातनैः || ७३ || तिर्स्कृतिः ससर्जाऽस्त्रमन्धाख्यं तेन तेऽसुराः | अन्धीभूताः किञ्चिदपि ददृशुर्नो कथञ्चन || ७४ || तथापि युध्यमानांस्तान् बलवीर्येण सम्भृतान् | चिरं युद्धैर्विनिर्जित्य तिरस्करणिका ततः || ७५ || प्.६९४) खड्गेन युगपत्तेषामाहरन्मस्तकं रुषा | हते बलाहकमुखे तिरस्करणिकां सुराः || ७६ || अवर्षन् दिव्यकुसुमैर्वादयन्तश्च दुन्दुभीन् | जहृषुर्देवतामुख्या लोककण्टकनाशनात् || ७७ || अमृतेश्यमृताऽसारैर्मृताः शक्तीरजीवयत् | एवं तिरस्कृतिर्जित्वा दैत्यांस्तपनलोचनान् || ७८ || मन्त्रिणीं दण्डिनीं नत्वा प्रोवाच विजयं स्वकम् | आलिङ्ग्य ते कृतं कृत्यमसाध्यं सर्वथा त्वया || ७९ || इत्यूचस्तुष्टुवतुर्मन्त्रिणीदण्डनायिके | एवं बलाहकमुखे हते सूर्योऽस्तमाययौ || ८० || इति श्रीमदितिहासोत्तमे त्रिपुरारहस्ये माहात्म्यखण्डे श्रीललितामाहात्म्ये तिरस्करणिकायुद्धे बलाहकादिवधो नामाऽष्टषष्तितमोऽध्यायः || ५६५० || प्.६९५) एकोनसप्तततिमोऽध्यायः विषङ्गच्छलयुद्धवर्णनम् एवं तपननेत्रेषु तिरस्कृत्याऽहतेष्वपि | त्रिपुरामायया मुढाः सङ्कल्पजयहर्षिताः || १ || विशुक्रकुटिलाक्षाद्या विषङ्गमसुरैर्वृतम् | पार्ष्णिग्रहविधानाय प्रेषयित्वा विधान्तः || २ || युयुधुः शक्तिसेनाभिराहृताऽत्यन्तविक्रमाः | विशुक्रो मन्त्रिणीं दण्डराज्ञीं सेनापतिः स्वयम् || ३ || बालां भण्डसुताश्चाऽपि मन्त्रिणश्च तिर्स्कृतिम् | उलूकजित्प्रभृतयो गजवाजिवहे तथा || ४ || दैत्यसेनाःशक्तीसेनां योधयामास सङ्गताः | अस्तं याते सवितरी सर्वतस्तमसाऽवृते || ५ || प्रवृत्तः समरोऽत्यन्तदारुणः शक्तिदैत्ययोः | मुहूर्तमात्रं (तत्?) सन्ध्याप्रकाशैरभवद्रणः || ६ || ततो गाढेऽन्धतमसि प्रवृत्ते सर्वतो दिशम् | अभवद्दारुणं युद्दं शक्तिदानवसेनयोः || ७ || प्.६९६) तारा ज्योतिः समूहेन शब्देन च परस्परम् | युयुधुः शस्त्रजालैस्ते शक्तिभिर्दैत्यपुङ्गवाः || ८ || अथाऽतिसम्मर्द्दवशात् सेनयो रज उथितम् | आच्छादयन्नभोभागं तारकागणसंवृतम् || ९ || अन्धकारसमाविष्टा भूयो रोषाऽन्धतां गताः | युयुधुः शक्तिदैत्याणां गणाश्चाऽक्र्मयोगतः || १० || केचित्तत्राअऽह्वयाञ्चक्रुरन्ये ताननुसंययुः | शस्त्रण्यन्येषु युञ्जन्ति तान्यन्यान् घातयन्ति हि || ११ || शब्दवेधमहायुद्धमभवद्भृशदारुणम् | तत्र दैत्यैर्हता दैत्याः शक्तिभिः शक्त्यस्तथा || १२ || एवमत्यन्तबीभत्सं युधमाक्रन्दभीषणम् | केच्छिस्त्रैर्विनिहताः परे रथविघर्षिता || १३ || अश्वैरास्फालिताश्चाऽन्ये गजाऽक्रामैः सुपेषिताः | एवं महत्तरे तत्र सम्म्र्द्द सति वैशसे || १४ || न केऽपि संविदुः स्वीयां तथा सेनां परामपि | अन्तं मध्यमथाऽदिं वा सेनायाः केऽपि नो विदुः || १५ || निशाम्यैतन्मन्त्रनाथा मत्वा तं विषमं रणम् | ज्वालामुखीं महादेवीं सस्मार त्रिपुरांशजाम् || १६ || प्.६९७) स्मृतमात्रैव सा देवी प्रादुरासीद्रणाऽजिरे | ज्वलत्पर्वतसङ्काशा ज्वालाव्याप्तदिगन्तरा || १७ || तस्या अङ्गप्रभापुरैर्नाशितं निखिलं तमः | तदा दैत्याः शक्त्योऽपि युयुधुः क्रमसङ्गताः || १८ || एवं पुनः क्रमाद्युद्धे प्रवृत्ते निशि कुम्भज ! | बाला भण्डसुतैर्युद्धं विचित्रमतनोद्भृशम् || १९ || चतुर्बाहुमुखा भण्डसूनवो विष्णुविक्रमाः | त्रिंशत्संख्या एककालं युयुधुर्बालया दृढम् || २० || रथाऽरुढा विचित्रेषून् किरन्तः सर्वतो दिशम् | बालां समाच्छदुः शस्त्रैर्दिनेशं स्तुहिनैरिव || २१ || अथ बालाऽपि शस्त्रौघान्निजशस्त्रस्य तेजसा | नाशयामास वेगेन तमः सूर्योदयो यथा || २२ || ततोऽतिद्रुतसन्धानाश्चतुर्भिर्निशितैः शरैः | प्रत्येकं भण्डतनुजरथाश्वानकरोन्मृतान् || २३ || रथनेतॄंस्तथैकेन धनूंष्येकेन चाऽच्छिनत् | तथैकेन पुनस्तेषां हृदि विव्याध् लीलया || २४ || प्.६९८) हताऽश्वानष्टशस्त्रास्ते विद्धा बाणेन वक्षसि | मृतप्रायाः समभावन् व्यथया गाढमूर्च्छिताः || २५ || उलूकजित्प्रभृतयो भण्डस्य भगिनीसुताः | ते षष्तिसङ्ख्या युद्धेषु भीमवीर्याः सुयोधिनः || २६ || तैर्युयोध हयारुढा सम्द्देवी च सायकैः | विचित्रयुद्धं तन्वाते द्रष्टृविस्मापनं परम् || २७ || पृथग्युद्धं समभवत्त्रिंशत्सङ्ख्यै र्द्वधा स्थितैः | युद्ध्ध्वा चिरं हयारुढा बद्ध्वा पाशेन तान् क्रमात् || २८ || चिच्छेद सितधारेण शिरः खड्गेनरोषिता | सम्पन्नाथाऽपि तैर्युद्ध्वा भूयो भल्लेन तान् क्रमात् || २९ || हृदि विद्ध्वाऽन्तकपुरं प्रेषयामास सत्त्वरम् | उग्रकर्मप्रभृतयो युयुधुस्तत्र संयुगे || ३० || तिरस्करणिकादेव्या शस्त्रैरस्त्रैरनेकशः | युद्ध्वैवं मन्त्रिभिः साऽपि क्रुद्धा खड्गेन पातयत् || ३१ || परस्परं ववृषतुः शरैः स्वर्णविचित्रितैः | परस्परप्रयुक्तानि नानाशस्त्राणि चिछिदुः || ३३ || रथस्थो भण्डसेनेशः कुटिलाक्षः प्रकोपनः | प्रसह्य कोलवदनां युयोधाऽतिसुशिक्षितः || ३४ || प्.६९९) युद्ध्वैवं कोलवदना वाजिनस्तस्य पत्रिभिः | निष्प्राणानकरोदष्टौ कर्णाऽकृष्टैर्घनुश्च्युतैः || ३५ || एकेन सरथिं हत्वा निछखानाऽपरं हृदि | शरेणोरसि संविद्ध ईषत् निष्प्रज्ञतां गतः || ३६ || पुनर्मूर्च्छाविनिर्मुक्तो गदां प्रादाय चोत्प्लुतः | किरिचक्ररथाऽबद्धसिंहमूर्घ्नि प्रपातयत् || ३७ || गदां सर्वाऽयसीं वज्रकल्पां सर्वबलेन सः | तथा जगर्ज करिणं हत्वेव हरिलोचनः || ३८ || सिंहोऽपि गदया विद्धो मूर्च्छां प्राप्य निमेषतः | पुनः प्रज्ञां प्राप्य रुषा दृष्ट्वा दैत्यं पुरः स्थितम् || ३९ || तलेन वक्षस्यहनद्धतो हरितलेन सः | पातितोरःस्थलो रक्तधारां मुञ्चदनेकधा || ४० || पुनराप्लुत्य वाराहीरथं दितिकुलोद्भवः | परिवारशक्तिगणः कदनं कल्ययद्रुषा || ४१ || एवं तं रथमारुह्य युध्यमानं महासुरम् | वाराह्या वृत्तिमुख्या या जम्भिनी शक्तिरुत्तमा || ४२ || साऽयुध्यत् कुटिलाक्षेण चिरं पश्चादतीव तम् | युध्यमानं शरेणाऽस्ये निजघान महाबला || ४३ || प्.७००) हतो गाढं शरेणाऽस्ये क्षणं स्तब्धोऽतिषीडया | पुनरुत्प्लुत्य गदया तां मूघ्नि प्राहरद्रुषा || ४४ || अथ सा गाढसंविद्धा रथोपस्थे उपाऽविशत् | एवंविधां शक्तिगणा दृष्ट्वा हा हेति चुक्रुशुः || ४५ || तावत्तस्या धनुर्दैत्यो बभञ्जाऽच्छिद्य सत्वरम् | उत्थिता जम्भिनी भूयो दृष्ट्वा भग्नं निजं धनुः || ४६ || रुषा ज्वलन्ती महतीं गदां स्वीयां पराऽमृशत् | अथाऽभवद्गदायुद्धं भीमं त्वाष्ट्रेन्द्रसन्निभम् || ४७ || जम्भिनीदैत्ययोर्दृष्त्वा विष्मिता देवदानवाः | मत्वा रथं सङ्कुचितं भूमौ ताभ्याम् भूत् कृतम् || ४८ || गदासङ्घट्टनोदञ्चत्पावकौघप्रवर्षणम् | विचित्राऽक्रमणोत्प्लावचित्रसंस्थानसुन्दरम् || ५० || तत उल्प्लुत्य वेगेन हन्तुं तामभिचक्रमत् | यावत्तावत्तया मुर्घ्नि बलवद्गदया हतः || ५१ || प्रस्फुटद्दृगजुहावक्त्रादुच्छलद्रक्तधारया | वर्षस्तां पतितो भूमौ शीर्णसर्वाऽङ्गबन्धनः || ५२ || गदामालिङ्ग्य तरसा मुमोचाऽसून् लुठन् भूवि | हतं वीक्ष्य चमूनाथं दैत्या भीताः पलायिताः || ५३ || प्.७०१) देवताः शक्त्यश्चाऽपि जहृषुः शत्रुनाशनात् | एवं दैत्यं निहत्याऽशु जम्भिनि दण्डनायिकाम् || ५४ || प्रणम्य संस्रिता पार्श्वं दण्डिनी च प्रहर्षिता | ददौ परीरम्भं प्रेम्णा तां प्रसमीक्षत || ५५ || विशुक्रेण युयोधोश्चैर्मन्त्रिणी वीर्यवत्तरा | विशुक्रोऽपि महाशूरो युवराजोऽतिवीर्यवान् || ५६ || विचित्रमकरोद्देव्या रणमाश्चर्यकारणम् | परस्परस्य शस्त्राणि प्रतिशस्त्रैर्विनाशयन् || ५७ || अस्त्रैरस्त्राणयपि तथा नाशयन्तौ परस्परम् | एवं चिरं नियुध्यन्तमत्यद्भूतपराक्रमम् || ५८ || दृष्त्वा मन्त्रमहाराज्ञी दर्शयन्ती स्वचातुरीम् | युगपच्छरसङ्घेन रथमश्वांश्च सारथिम् || ५९ || धनुर्मुकुटकं केतुं चिच्छेद निमिषाऽर्धतः | एवं युद्धे परीभूतो विशुक्रो मन्युना ज्वलन् || ६० || जगृहे खेटनिस्त्रिंशौ हन्तुं देवीं मनो दधे | अथाऽयान्तं खङ्गकरं दूरादेकेन पत्रिणा || ६१ || करवालं द्विधा कृत्वा खेट्मन्येन भेदयत् | छिन्नखेटकनिस्त्रिंशमायान्तं बद्धमुष्टिकम् || ६२ || प्.७०२) जघानोरसि भल्लेन निशितेन गरीयसा | भल्लाहतो विशुक्रोऽपि सफेनं रुधिरं वमन् || ६३ || घूर्णितो विभ्रमन् क्रोशद्वये वेगेन पातितः | अवशः संवर्तकेन वायुनेव महागिरिः || ६४ || गाढमूर्च्छामुपगतो यथा लोकान्तरात् कृती | एवं विशुक्रेऽभिहते दैत्यसेना ह्यभिद्रुता || ६५ || निक्षिप्य हेतीन् सन्त्यज्य वाहनानि दिशो दश | विशुक्रं मूर्च्छितं दैत्याः समादाय पुरं ययुः || ६६ || विशुक्रादिषु युध्यत्सु निःशेषशक्तिसेनया | विदित्वा ललितां चक्ररथस्थामेकलां तदा || ६७ || कतिचित्परिवाराऽत्मशक्तिसङ्घैकसंश्रयाम् | जेतुं शक्येति संहृष्टो ययौ तत्राऽसुरो द्रुतम् || ६८ || दमनाद्यैः पञ्चदशाऽक्षौहिणीपैः सुसंवृतः | अल्पसेनापरीवारः शस्त्रास्त्रबहुसङ्कुलः || ६९ || प्रयाणे पादसङ्घातशबदमालक्ष्य सोऽसुरः | गजारुढैर्युतो मत्तगजमारुह्य संययौ || ७० || सर्वे नीलांऽशकधरा नीलाभरणभूषिताः | समेत्य संविदं कृत्वा पृथङ्नागैश्च सण्घशः || ७१ || प्.७०३) ययुर्दैत्यचमूपृष्ठे योजनद्वयतः परम् | ततः केचिछक्तिसेनां वामतोऽन्ये च दक्षतः || ७२ || परिक्रम्य ययुर्मध्ये हित्वा योजनयुग्मकम् | एवं पृथक् सङ्घशस्ते ययुर्दस्युर्यथा ततः || ७३ || चक्रराजशताऽङ्गस्य क्रोशदूरे हि पृष्ठतः | मिलितास्ते सर्व एव ततो निमिषमात्रतः || ७४ || समासेदुः पृष्ठभागं विषङ्गप्रमुखाऽसुराः | विद्यामयी श्रीललिता ज्ञात्वाऽप्यसुरसम्मतम् || ७५ || तत्रा.आ.चख्यौ लीलयैव स्थिता ज्ञातेव तत्र सा | शक्त्यो युद्धसन्देशं श्रुत्वा दूरे सुनिर्भयाः || ७६ || सुष्वषुः सर्व ऐवताः स्वस्थानेषु रथोत्तमे | सुप्तशक्तिगणोपेतं प्रज्वलद्दिपसङ्घकम् || ७७ || दीपप्रभामूर्च्छनेन समेधितमणिप्रभम् | सङ्घैर्मणिगणैर्द्योतमानं समन्ततम् || ७८ || दृष्ट्वा समेत्य दैतेया दूरादेकप्रपाततः | आरोढुं रथराजन्तं समीपमभिसंययुः || ७९ || उत्खातकरवालसु सहस्त्रमितशक्तिषु | रथस्य परितो गुप्त्यै प्राक्रमत् सुविशेषतः || ८० || प्.७०४) काश्चिद्दृष्ट्वादैत्यसङ्घं जजारुढः समन्ततः | कृत्वाऽह्वानमहाशब्दं प्रविशुर्दैत्यवाहिनीम् || ८१ || खड्गेन जघ्नुर्दैत्यांस्तानाक्षिपन्त्यो वचोगणैः | तदा दैत्यैः शक्तिभिश्च युद्धमासित् सुभैरवम् || ८२ || इति श्रिमदितिहासोत्तमे त्रिपुरारहस्ये माहात्म्यखण्डे श्रीललिताचरित्रे शक्तिचक्रोपरिदैत्यप्रहारवर्णनं नामैकोनसप्ततितमोऽध्यायः || ५७३२ || प्.७०५) सप्ततितमोऽध्यायः विषङ्गपराजयवरणनं अथ शक्तिसमाह्वानं श्रुत्वऽवरणशक्त्यः | विज्ञाय दैत्याऽगमनमणिमाप्रमुखास्तदा || १ || स्वस्ववाहसमारुढाः शस्त्रास्त्रैरभिसंवृताः | युयुधुर्दैत्यसेनाभिः समेत्य बलवत्तरम् || २ || शुऽऽश्रुवुः क्रमशः सर्वाः शक्त्योरथसंस्थिताः | व्यजिज्ञपुस्तच्छ्रीदेव्यै नित्याः कामेश्वरीमुखाः || ३ || कामेश्वर्याज्ञया ज्वालामालिनी या चतुर्दशी | नित्या सा पर्वताऽकारवपुषा ज्वालयाऽवृता || ५ || जज्वाल तज्ज्वालया हि परितो योजनाऽयतम् | प्रकाशितमभूत्तत्र युयुधुः शक्त्योऽसुरः || ६ || जघ्नुर्विविधशस्त्रैस्तान् दैत्यान् युद्धसमागतान् | एवं तानसुरान् युद्ध्वा निन्युर्यमपुरं द्रुतम् || ७ || प्.७०६) अथ शिष्टा दैत्यगणाः पलायनपराऽभवन् | ते शक्तिभिः परिवृता नाऽलभन्निर्गमं क्वचित् || ८ || हन्यमानाः शक्तिगणैर्हा हेत्युश्चैर्विचुक्रुशुः | तद्दृष्ट्वा दैत्यनिधनं दमनाद्या महासुराः || ९ || विकिरन्तः शरैः शक्तीर्न्यरुन्धन् सर्वतोभृशम् | उश्चावचैः शस्त्रगणैर्जघ्नुः शक्तीः समन्ततः || १० || एवं दैत्यर्हता गाढं शक्त्योऽपि निजाऽयुधैः | वबृषर्गिरिशृङ्गाणि घणा घनागणा इव || ११ || मुहूर्तमभवद्युद्धं शक्तीनां दमनादिभिः | तावत्ते दैत्यसेनेशा दमनाद्या महाबलाः || १२ || चक्रुर्व्याकुलितं शक्तिगणं शस्त्राऽस्त्रवर्षणैः | नष्टवाहा नष्टशस्त्रा नष्टाऽङ्गा नष्टजीविताः || १३ || न सेहुर्दैत्यशस्त्राणां प्रपातं प्राणकर्षणम् | मूर्च्छिताः शक्तयः काश्चित काश्चित् प्राणान् जहुः पराः || १४ || संछिन्नाः खण्डशश्चाऽन्या पाटितऽङ्ग्यो गताऽयुषः | दृष्टैवं निहतं शक्तिगणं कामेश्वरीमुखाः || १५ || तिथिदेव्यो रथारुढाश्चुक्रुधुर्बलवत्तराः | दमनाद्यैस्तिथिमितैः सङ्गताः समसङ्ख्यकाः ||| १६ || प्.७०७) युयुधुः शस्त्रनिचयैर्बलवीर्यसुसम्भृताः | शस्त्राणि प्रतिशस्त्रैस्ता अस्त्राण्यस्त्रैर्विनाश्य तान् || १७ || जघ्नुर्लाघवयोगेन दैत्यान् मर्मसु सायकैः | एवं ताभिर्हन्यमाना दैत्याः क्रोधं परं ययुः || १८ || चक्रुरत्यद्भूतं युद्धंवीर्यसाहससंयुतम् | वडवेव धनुर्वक्त्रादुद्गिरन्तः शरार्ऽचिषः || १९ || लोकान् दिधक्षन्त इव व्यराजन्त रणाऽजिए | अथ तांस्तिथिदेव्यस्ता युद्ध्वाऽद्भुतपराक्रमान् || २० || अश्वान् रथं सारथिञ्च ध्वजं छित्त्वा क्रमेण तान् | भङ्क्त्वा चापं तीक्षणभल्लैः शिरश्चिच्छिदुरोजसा || २१ || अथ तेषु प्रणष्टेषु दैत्येषु दमनाऽदिषु | विद्रुता दैत्यसुभटाः शिष्टा भीत्या दिशो दश || २२ || विषङ्गो गजसंरुढो युयोध तिथिशक्तिभिः | बहुभिर्बलवानेको युयोधाऽतिरुषाऽन्वितः || २३ || युध्यन्तमतिदैर्येण् परिवार्य समन्ततः | जघ्नुः कामेश्वरिमुखा नित्याः सायकवर्षनैः || २४ || प्.७०८) अथ कामेश्वरी प्राह विषङ्गं युद्धसङ्गतम् | दैत्याऽधमाऽलं युद्धे न प्राणान्तकरणेन ते || २५ || शस्त्रं त्यक्त्वा पादचारो गच्छ शीघ्रं यथासुखम् | विषमं बहुभिर्युद्धमेकस्य प्रतिभाति ते || २६ || श्रुत्वा कामेश्वरी वाक्यं जहासोच्चैर्महासुरः | किं कत्थसि वृथा दुष्टे हित्वा लज्जां सुदूरतः || २७ || अहमेकः क्षणेनैव सर्वां शक्तिं चमूमिमाम् | हत्वा वो ललितां देवी बद्ध्वा जीवग्रहेण वै || २८ || नेष्याम्यत्र न सन्देहः शस्त्रं ते प्रुअ आलभे | स्त्रिषु कारुणिकत्वं मे सर्वथा तेन वै चिरम् || २९ || इत्युक्त्वा निशितैर्भल्लैः प्रत्येकं ता जघान ह | तच्छ्रौत्वा प्राह नित्याऽद्या एवं चेदस्तु वै रणः || ३० || एकैकया मया साकं समभावेन सत्वरम् | इत्युक्त्वा देऐत्यराजं तं प्राह भूयो महेश्वरी || ३१ || भगमालिनिमुख्या हे मद्वाक्यं शृणुताऽदरात् | अहमेनं योधयामि यूयमेनं न् हि यूयमेनं हि रक्षथ || ३२ || यथा पलायय नो गच्छेत् सावधानेन सर्वतः | इत्युक्त्वा दृढबाणेन विद्ध्वा दैत्यमुवाच ह || ३३ || रे मूढ मयि त्वं दयां त्यक्त्वा हि सर्वथा | युध्यस्व सर्ववीर्येण पश्यामि तव पौरुषम् || ३४ || प्.७०९) यदि त्वं पुरुषस्तर्हि अपलायय ब्रजिष्यसि | अहं त्वां नव हिंस्यामि कुर्यां त्वां हि पलायतम् || ३५ || श्रुत्वा पुरुषभावेन युध्यस्व विगतत्रपः | इत्युक्त्वा निशितान् भल्लान् देहे तस्य समाक्षिपत् || ३६ || युयुधे सोऽपि कामेश्या बलमाहार्य रोषतः | अथ कर्णान्तपूर्णेन शरेण तस्य वाहनम् || ३७ || जघान कुम्भयोर्मध्ये तेन बाणेन स द्विपः | द्विधा विदलोइतो भूमौ पपात व्यसुरद्रिवत् || ३८ || हतवाहो विषङ्गओऽपि गृहीत्वा सशरं भनुः | योद्धुमभ्यायौ क्रोधाद्भ्रुकुटीकुटिलाऽननः || ३९ || अथ त्रिभिः शरर्देवी धनुस्तूणीरमेव च | मुकुटञ्चाऽपि चिच्छेद कामेशी क्षणमात्रतः || ४० || ततः करालं विपुलमादाय करवालकम् | उपधावद्यावदसौ तावत्तीक्ष्योषुणा पुनः || ४१ || त्रिधा छीत्त्वा महाखड्गं स्मितपूर्वमुवाच तम् | दैत्य ! शूरतमस्त्वं विअ कथमेवं नियुध्यसि || ४२ || शस्त्रं न खलु कस्मान्मे पातितं किञ्चिदङ्गके | किं दया ते सुमहती जातः कस्मान्निरायुधः || ४३ || कथं तां ललितां बद्ध्वाऽस्मान् जित्वा नेष्.यसीरय | उपलब्धं शस्त्रं व्यर्थं विजयहेतवे || ४४ || प्.६१०) पलायय वा गच्छ मम पुरतो यदि पौरुषम् | श्रुत्वा कामेश्वरीवाक्यं कटुकं सोपहासकम् || ४५ || मुष्टिमुद्यम्य तां हन्तुं प्रययौ सम्मुखे तदा | तदा त्रिभिः शरिअर्भूयो विव्याधाऽतिबलेन तम् || ४६ || पादहृन्मुष्टिषु तथाऽहतस्थानत्रयाऽतुरः | पदान्न चलितुं द्रष्टुं मुष्टिञ्च विनिवर्तितुम् || ४७ || असमर्थो लज्जितोऽथ गतोनतर्धानमाऽऽशु वै | तावत् कामेश्वरी देवी शरजालैश्च सर्वतः || ४८ || रुरोध मार्गं दैत्यस्य तद्दभुतामिवाऽभवत् | रुद्धोऽथ सर्वतो मार्गे मायां दैत्यो वितानयत् || ४९ || शस्त्राऽश्मरुधिराऽहीनां पांश्वङ्गारमयीभृताम् | वृष्टिञ्चक्रे महभूतान् राक्षसप्रेतसङ्घकान् || ५० || प्रादुश्चकार विविधां मायामतिभयावहाम् | सृष्टां सृष्टाञ्च तां मायां दैत्यस्यास्त्रैरपाऽकरोत् || ५१ || अथोन्मत्तो महामूर्तिः करालः कृष्णपिङ्गलः | सहस्रवक्त्रो नियुतहस्तपादोऽतिवेगवान् || ५२ || भूत्वा जगाम तां हन्तुंव्यात्ताऽस्यः पावकं वमन् | दृष्ट्वा भीतं शक्तिगणं तं योजनमितोन्नतम् || ५३ || दृष्ट्वाऽसुरस्य सा मायां निर्मायाऽस्त्रमवाऽसृजत् | तेनाऽस्त्रेण क्षणादेव मायाः सर्वा व्यनीनशत् || ५४ || प्.७११) अथाऽप्यन्तर्हितं दैत्यं कामेशी मन्त्रपाशतः | बद्धवा निपातयामस स्वपुरः क्षणमात्रतः || ५५ || स दैत्यः पाशसम्बद्धः पतितः पादसन्निधौ | लज्जितो नम्रवदनो मृतवन्मीलितेक्षणः || ५६ || बधमेवं विषङ्गं तं चक्रराज रथाऽन्तिकम् | आनयध्वं शक्तिगणा नित्यासा (प्यवदत्तदा) हि सा (?) || ५७ || ययौ नित्या परिवृता श्रीदेवीपादसन्निधिम् | गत्वा रथंसमारुह्य प्रणेमुर्ललिताऽम्बिकाम् || ५८ || आचख्युर्विजायञ्चाऽपि तावता मन्त्रिणीमुखाः | समाजग्मुर्विजित्याऽरीन्नत्वा प्रोचुर्जयं रणे || ५९ || श्रुत्वा सा मन्त्रिणी मुख्या दैत्यानां कैतवोद्यमम् | विस्मितास्तत्र सुराश्चाऽपि दैत्यानां शठतां प्रति || ६० || अथाऽनीतं शक्तिगणैर्बद्धं दैत्याऽनुजं तदा | निशाम्य शक्त्यः प्रोचुरतिक्रोधतयाऽकुलाः || ६१ || बध्यतां हन्यताञ्चैव छिद्यतां भिद्यतामिति | श्रुत्वा दण्डाऽधिसम्म्राज्ञी वधं तस्य व्यचिन्तयत् || ६२ || प्.७१२) अथ श्रीमातृसम्मत्या मन्त्रिणी प्रब्रवीद्वचः | वधो न युक्तो बद्धस्य मृततुल्यो हि स स्मृतः || ६३ || गछत्वेष समाख्यातुं दैत्यराजाय स्वां दशाम् | इत्युक्त्वा मोचयामास प्राह तं मन्त्रिणी तदा || ६४ || रे दैत्य भूयो मैवं त्वमकार्षिः शूरगर्हितम् | श्रुत्वैवं मन्त्रिणीवाक्यं लज्जितो दैत्यपुङ्गवः || ६५ || नताऽननो ययौ शीघ्रमपश्यन् पृष्ठदः पुनः | अथ तत्र शक्तिगणं समेतं ललिताऽम्बया || ६६ || परस्परं युद्धवृत्तं महायुद्धमद्य दैत्यैः सुभीषणम् | रात्रिरल्पावशेषाऽस्ति पुनः सूर्योदयं प्रति || ६८ || भवेद्युद्धमतीवोग्रं दैत्या कपट्योधिनः | तदस्माभिः पुनर्युद्धे गन्तव्यं सर्वसेनया || ६९ || पुनरत्र चक्रराजरथस्तिष्ठेत चैकलः | यद्यपि श्रीमहादेव्या महिम्नो नाऽस्ति दुर्घटम् || ७० || तथाप्यसाम्प्रतञ्चैतद्भाति तत्र कथं भवेत् | विमृश्य मन्त्रं बुद्ध्यैतद्युक्तं ज्ञात्वा समीकुरु || ७१ || इतिं वाक्यं समाकर्ण्य दण्डिन्या मन्त्रिणी स्वयम् | अमंसताऽथ तद्युक्तंविचार्यशुद्धया धिया || ७२ || प्.७१३) ललितां प्राणिपत्याऽह मातराचक्ष्व मे वचः | वदत्येषा वराहाऽस्या सूरस्योदयनं प्रति || ७३ || पुनर्युद्धाय गन्तव्यस्मभिः शक्तिसेनया | अकोशे सेनया हीने रथ एष तवाऽश्रयः || ७४ || न शोभते ह्यनौचित्यादथ शक्तिगणोऽखिलः | नियुद्धश्रान्तिमभ्येत्य रात्रौ विश्रान्तिमेष्यति || ७५ || अद्य संवृत्तयुद्धेन कैतवेन विशङ्किताः | न स्वस्थहृदया भूयो विश्रामं नोपयन्ति वै || ७६ || मन्यसे यदि तत्राऽलमनुजानीहि मां पुनः | प्रविट्तिं भावयिष्यामि शत्रूणामप्रधर्षिणीम् || ७७ || इति विज्ञापिता देवी प्रवृत्तौ तां समादिशत् | अथ सा तिथिर्नित्यासु या तत्राऽस्ति चतुर्दशी || ७८ || आज्ञापयत्तं हि सालनिर्माणे शत्रुरोधने | आज्ञामात्रेण सा देवी ज्वालामालिनिकाऽभिधा || ७९ || वह्निज्वालामहासालं निर्ममेऽसुररोधनम् | वलयीकृत्य शक्तीनां सेनां सालः समास्थितः || ८० || अनुल्लङ्घयोन्नम्रमूर्तिर्बहिर्ज्वालोऽतिभीषणः | अन्तः शीतलयन् शक्तीर्बहिर्योजनदूरगम् || ८१ || दहन् योजनविस्तारमध्यद्वारो व्यराजत | अथैवं सालमालोक्य शक्त्यो गतसाभ्वसाः || ८२ || सुष्वपुः सौख्यतस्तत्र युद्धश्रान्ता हि शक्त्यः | सहस्रसङ्ख्या रक्षर्थ मन्त्रनाथा समादिशत् || ८३ || एवं ज्वालासालमध्ये स्थिता श्रीललिताम्बिका || ८४ || इति श्रीमदितिहासोत्तमे त्रिपुरारहस्ये माहात्मयखण्डे श्रीललिताचरित्रे विषङ्गपराजयवर्णनं नाम सप्ततितमोऽध्यायः || ५८१६ || प्.७१५) एकसप्तततिमोऽध्यायः श्रीचक्रनाशाय विशुक्रेण विघ्नयन्त्रप्रयोगवर्णनम् बन्धमुक्तो विषङ्गोऽथ ययौ दैत्यचमूं प्रति | दुक्षितोऽतितरां दीनो हतोत्सहोऽतिनिःस्वसन् || १ || एकलो विजने क्वाऽपि निविष्टो हीनवर्चसः | तत्र शुश्राव सेनेशं कुटिलाक्षञ्च मन्त्रिण्ः || २ || हतांस्ततोऽपि दुःखाब्दौ निर्मग्नः समजायत | तावद्विशुक्रोऽभिययौ राजपुत्रसमावृतः || ३ || ददर्षाऽतिविषण्णाऽस्यं विषङ्गमनुजं स्थितम् | पप्रच्छ वत्स किं तेऽद्य पश्यामि मलिनं मुखम् || ४ || पार्ष्णियुद्धे किमासीत्ते वद मे तदशेषतः | श्रुत्वैवं भ्रातृवचनं निःश्वसन् प्राह सऽनुजः || ५ || भ्रातः किं तेऽभिवक्ष्यामि नाऽसीदेवं कदापि मे | जानामि दैत्यनाशाय काल एषोऽप्रदक्षिणः || ६ || अहोऽतिचित्रं दैत्यानां विष्णुवीइर्याऽतियोधिनाम् | पराभवोऽबलासङ्घैर्मृगेशस्यैवजम्बुकैः || ७ || प्.७१६) एवं दशाऽभिपन्नस्य न युक्तं जीवितं मम | तत् किं करोमि नासीन्मे मृत्युर्युद्धेषु सर्वथा || ८ || अहो धन्या ये मृतास्ते कुटिलाक्षादयोऽसुराः | न तैऽस्वात्मा परीभूतो दृष्तो दुःखाय कुत्रचित् || ९ || भर्तृपिण्डविनिर्योगं कृत्वोत्तमतमां गतिम् | ख्यातिञ्च सङ्गतास्तेऽस्मिन् लोकेऽमुष्मिन्नपि ध्रुवाम् || १० || धिङ् मामेवंविधं दैत्यं न जीवन्तञ्च नो मृतम् | भ्रातः किं बहुनोक्तेन सारंशृणु वदामि ते || ११ || दैत्यानामेष सम्प्राप्तः कालोऽत्यन्तमदक्षिणः | तस्मादहं न जीविष्ये स्त्रीभिर्युद्धे पराजितः || १२ || इतो दैत्यैः समेतोऽहं प्रयातः क्षणदामुखे | पार्ष्णियुद्धे तां विजेतुं समयस्याऽनुरोधतः || १३ || तद्रथस्य पार्ष्णिभागे वयं सर्वे हि सङ्गताः | यावद्रथं समारुह्य तां ग्रहितुमभीप्सवः || १४ || तावत् प्राप्ताः शक्तिगणा रथरक्षाविधौ स्थिताः | तं रथं परैवर्तन्त्यो धृतोद्वातकृपाणिकाः || १५ || अस्माभिस्तर्जयन्त्यस्ता युयुधुर्बलवत्तराः | अनालोके रस्खलन्त्यस्तमिस्त्रायान्तु सर्वतः || १६ || प्.७१७) तावत्तस्या रथऽऽश्रेष्ठान्निर्गतास्तिथिसङ्ख्यकाः | निर्ममुर्ज्वलितं शैलमन्धकारनिवारणम् || १७ || परिवब्रुः समेत्याऽस्मान् व्र्षन्त्यः शरसन्ततीः | क्षणेन दमानाद्यांस्ता हत्वा मामभिसंययुः || १८ || तासु मुख्या शक्तिरेका कामेश्यद्भुतविक्रमा | द्वन्द्वे मामभिसङ्गम्य बबन्धाऽर्धनिमेषतः || १९ || न तस्यां मे विक्रमोऽभूद्वीर्यं मायाबलं तथा | बद्धो नीतः पातितोऽथ ललिताचरणान्तिके || २० || तस्या या सचिवेशाणी तमालदलसच्छविः | सौन्दर्यसारसुतनुर्मधुराऽलापरेशला || २१ || तयाऽहं बन्धनान्मुक्तो दयमानस्वभावया | ततो मे जीवतो नार्थो हतकीर्तेर्हतौजसः || २२ || श्रुत्वैवं लषितं तस्य विशुक्रः प्राह सस्मितम् | भण्डाऽभिमतसिद्धयर्थंहतधीर्ललिताऽम्बया || २३ || वत्स त्वं न विजानासि नीतिं युधजयाऽवहाम् | युद्धे महान्तः शूराश्च क्वचिदलपैर्जिता ननु || २४ || भवन्त्येव न तश्चित्रं फलं वा शूरसम्मतम् | गच्छन्हि पादवान् भूमौ दिवाऽपि स्खलति क्वचित् || २५ || प्.७१८) न स्खलनित् क्वचिदपि स्थावराः किं ततो बवेत् | जयाऽजयौ युद्ध विधावनिर्देश्यौ कथञ्चन || २६ || परन्तु जय एवैष यः पर्यवसितो भवेत् | नाऽन्यो जयो जयः प्रोक्तस्त्वन्तरा संविभावितः || २७ || अहो मोहस्य माहात्म्यं किं वदाम्यहमद्य ते | विचारो धैर्यसहितो मन्त्रयुक्तो जयावहः || २८ || विरमैवं विपर्यासाभावत् सर्वार्थनाशनात् | शृणु मे मन्त्रितं सद्यस्तव दुःखविनाशनम् || २९ || येनोपायेन विबुधाः शक्रमुख्या विनिर्जिताः | पुरा भूयो विस्मृतं ते तदहं शृणु यद्ब्रू वे || ३० || प्रत्यरिप्रत्यूहकरमाभिचारात्मकन्तु तत् | यन्त्रं शत्रुप्रतीघातं विदितं भार्गवान्मया || ३१ || तदद्य रचयाम्याशु विधिदृश्टेन वर्त्मना | तत्प्रयोगाद्भवेदेवं निहतं शक्तिसैनकिम् || ३२ || लिखित्वाऽहं शिलापदे तुभ्यं दास्यामि सम्प्रति | त्वं युक्त्या शक्तिसेनासु प्रक्षिप्याऽगच्छ सत्वरम् || ३३ || ततस्ताः शक्त्यो नष्टवीर्योद्योगास्ततो वयम् | तग्वा दैत्यचमूयुक्ता अनायासेन सत्वरम् || ३४ || प्.७१९) नाशयावः शक्तिगणं नाऽत्र संशयमाप्नुहि | उत्तिष्ठ जहि सन्तापं शोकजं वीर्यनाशनम् || ३५ || श्रुत्वेत्थं भ्रातृकथितं महामायाविमोहितः | जितमित्येव निश्चित्य हर्षमाहारयत् परम् || ३६ || तुष्टाव भ्रातरं भ्राता संश्लाघन् बुद्धिकौशलम् | अथैतद्दैत्यराजाय मन्त्रमावेद्य सम्मतः || ३७ || निर्ममे तद्विग्नकरं यन्त्रं दार्षदपट्टके | स्नात्वा शुचिविधानेन यन्त्रमालिख्य तद्द्रुतम् || ३८ || सम्पूज्य तत्र देवीं तामासुरीं विघ्नकारिणीम् | सुरामांसोपहाराद्यैर्निवेद्य विविधैस्तदा || ३९ || स्वयं दिग्वसनो भुत्वा श्मशानभसिताऽश्रयः | पपौ सुरां करोटीस्थां वाममार्गसमाश्रयः || ४० || जजाप जप्यं कैकस्या मालया दक्षदिङ्कुम्खः | समन्तान्नग्नयुवतीगणेन परिवारितः || ४१ || एवं संसाध्य तद्यन्त्रं विषङ्गाय ददौ तदा | वत्सैतच्छक्तिसेनाया मध्येऽभिमुखभावतः || ४२ || ललितारथराजस्य निक्षिप्याऽयाहि सत्ववरम् | अमोघं विघ्नयन्त्रं तदादाय तत्र संययौ || ४३ || प्.७२०) रात्रिशेषे विषङ्गोऽथ ज्वालासालं ददर्श ह | अघृष्यं तं समालक्ष्य द्वारे शक्तिगणं तथा || ४४ || न तत्समीपं गतवान् भीत्या दूरे समास्थितः | विचार्य खमवप्लुत्य सालं तमतिवर्तितुम् || ४५ || असमर्थो बलेनाऽन्तः प्रक्षिप्य प्रययौ पुनः | मत्वा कृतार्थमात्मानमाचख्यावग्रजाय तत् || ४६ || विघ्नयन्त्रेण विहताः शक्त्यः स्युरतो द्रुतम् | यस्मादमोघं तद्यन्त्रमापूर्य समधिष्ठितम् || ४७ || इति मत्वा युधविधाविद्योगं विदधेऽसुरः | विशुक्रः सर्वदैत्यानां भ्रातृसंयुतः || ४८ || राजपुत्रैश्च राज्ञा च निर्ययौ नगराद्बहिः | योषितस्थविरबालांश्च वर्जयित्वाऽखिलाऽसुराः || ४९ || रक्षणार्थ शून्यकस्य निक्षिप्याऽक्षौहिणीमिताम् | निर्ययुः सर्वः एवैते दैत्या युद्धाय दंशिताः || ५० || आजग्मुरग्निसालस्य समीपमतिवेगतः | दृष्ट्वाऽप्रघृष्यन्तं सालं भेत्तुं ते मन आदधुः || ५१ || विशुक्रप्रमुखा दैत्या अस्त्राणि ससृजुस्ततः | वायव्यं पार्वतं चान्द्रं शैशिरं पार्थिवं तथा || ५२ || सामुद्रं वारुणं वारं पार्जन्यप्रमुखानि च | विसृष्टं सालमभितो मन्त्रसन्धानसन्धितम् || ५३ || प्.७२१) संवर्ताऽग्निस्तृणमिव सालो निःशेषतां नयत् | मत्वाऽभेद्यन्तु तं सालं विशुक्रप्रमुखाऽसुराः || ५४ || उत्प्लुत्य यातुमन्तस्ते मन उच्चैः समादधुः | उत्प्लुत्य यावद्यो दैत्यो गन्तुमन्तः समीप्सति || ५५ || ततोऽधिकतरं तत्र प्राकारः समवर्धत | तद्दप्यशक्यं मत्वा ते प्रवेष्तुं द्वारमाययुः || ५६ || प्रविशन्तं ततोऽष्यग्निः क्षणाद्भस्मीकरोत्यलम् | मत्वाऽन्तर्गमनं तस्य दुर्घटं द्वारदेऽऽशगाः || ५७ || शस्त्राणि द्वारमार्गेण चाऽस्त्राण्यलमवाऽसृजुः | विदित्वा दैत्यसेनायाः सन्नाहं द्वाररोधनम् || ५८ || दण्डराज्ञी शक्तिसेनासज्जनार्थं समादिशत् | विघ्नयन्त्रेण विहताः शक्त्यः सर्वतः स्थिताः || ५९ || आलस्यओपहताश्चाऽन्या निद्रामोहसमाकुलाः | दण्डराज्ञीसमादेशंन किञ्चिन्मानयन्ति ताः || ६० || किन्नः कृत्यं युद्धविद्धौ दैत्यानां घातनं कुतः | न नोपराद्धं दैतेयैः कथं तैर्विग्रहो मतः || ६१ || कुतो बध्या दैत्यगणा देवानामिष्टसिद्धये | दैत्येष्टसिद्धये कस्मान्न बध्या देवतागणाः || ६२ || प्.७२२) प्रकृत्या कोपना दण्डराज्ञी सा मन्त्रिणी तथा | पानप्रकर्षतो मत्ता विचारः स्यात्तयोः कुतः || ६३ || महाराज्ञपि कामेशविलासपरमा तदा | युक्ताऽयुक्तविचारेण स्वतो हीना तु सर्वदा || ६४ || मन्त्रिण्या मत्तया प्रोक्तं मनुते सर्वथा हितम् | बालायाः को विचारः स्यात् क्रीडासक्ता हि सा सदा || ६५ || अहो मोहस्य माहात्म्यं किमर्थमसुरा हताः | व्यर्थहिंसाऽपराधेन प्राप्स्यामो नाशमञ्ज्सा || ६६ || इतो निर्गत्य तीर्थेषु गत्वा विहितमार्गतः | दैत्यहिंसनदोषस्य कुर्मो निष्कृतिमादरात् || ६७ || काश्चिदाहुर्वृथा युद्धादलं नो दुःखवर्धनात् | गत्वा स्नानेषु तपसा साधयामः समीहितम् || ६८ || अन्या ऊचुरलं युद्धैर्दुःखदैर्देहनाशनैः || अनुरूपं पतिं प्राप्य क्रीडामोऽविरतं सुखम् || ६९ || वदन्त्य इत्यादि बहुपृथङ् मतसमाश्रयाः | न युध्यामो वयं व्यर्थं तवाऽज्ञायां न च स्थिताः || ७० || क्रोधं करिष्यसि यदि युध्यामस्तर्हि वै त्वया | वृथाऽभिमानं माकार्षीर्मन्त्रिण्या मत्तया सह || ७१ || प्.७२३) अस्मान् युद्धे समासाद्य विमदा शीघ्रमेष्यसि | तत्रोचुरन्याः संक्रुद्धाः शूकरास्ये सदा हि नः || ७२ || कुतः क्रुध्यसि नेत्राणि करालान्यवमुञ्चसि | व्रज शीघ्रमितो नो चेदक्षीणि विनिपातये || ७३ || न निर्लज्जा शूकरास्या त्वत्समा भवति द्वचित् | अन्याऽब्रवीत् खड्गकरा निषत्याऽभिमुखे ततः || ७४ || किं बलास्यति मे वाक्यं शृणु कोलाऽनने यदि | दर्पोऽस्ति चेन्मया युद्धे वीर्याद्बुद्धिं समीकुरु || ७५ || जीवितं हास्यसि मुधा युद्ध्वा शस्त्रहता मया | इति दृष्ट्वा शक्तिगणं दण्डिन्यत्यन्तविस्मिता || ७६ || कुत एतदकाण्डे वै शक्तीनां बुद्धिनाशनम् | इति मत्वा द्रुतं गत्वा मन्त्रिण्यै तन्निवेदयत् || ७७ || मन्त्रिण्यपि च शक्तीनां बुद्धिनाशं निशाम्य तु | विस्मिता श्रीमहाराज्ञीमासाद्य प्रणतब्रवीत् || ७८ || मातरत्यद्भुतो विघ्नो नन्वस्माकमुपस्थितः | नूनं भवेत्तु दुष्टानां दैत्यानामेव चेष्टितम् || ७९ || शक्तीनां बुद्धिनाशोऽत्र दृश्यतेऽतिभयङ्करः | दैत्याः सालमुखप्रान्ते सन्नद्धाः समुपस्थिताः || ८० || प्.७२४) दण्डनीं माञ्च चक्रस्थशक्तीर्हित्वा ह्यशेषतः | भिन्नस्वभावाः सम्भूताः शक्त्यो रोषभाषणाः || ८१ || द्रुतं विधेहि यत्कृत्यं नार्ऽहः कालो विलम्बने | यद्यप्यखिलदैत्याश्च तव भ्रुभङ्गमात्रतः || ८२ || न भवेयुस्तथाप्येतन्नाऽस्माकं सम्मतं सम्मतं भवेत् | अस्मासु दयया मातर्द्रुतं प्रतिविधत्स्व तत् || ८३ || इति श्रीमदितिहासोत्तमे त्रिपुरारहस्ये माहात्म्यखण्डे श्रीललिताचरित्रे शक्तिसेनासु विघ्नयन्त्रप्रयोगजनितविघ्नकरणवर्णनं नामैकसप्ततितमोऽध्यायः || ५८९८ || प्.७२५) द्विसप्ततितमोऽध्यायः सर्वसेनासमागमवर्णनम् प्रार्थितैवं श्यामलया श्रीमाता परमेश्वरी | लीलां वितन्वती शीघ्रं संस्मितप्रेमभावतः || १ || कोटीन्दुकिरणाऽभासान् शृङ्गाराऽमृतवर्षणान् | कटाक्षान् कामेशमुखसौन्दर्याब्धावमूर्च्छयत् || २ || अथो देवी स्मिताऽलोककामेशमुखसङ्गतेः | गणनाथः समुदभूदिभास्योऽरुणसम्प्रभः || ३ || गदां शूलं शङ्खमब्जं विषाणं दक्षबाहुभिः | मातुलुङ्गं धनुश्चक्रं पाशं धान्यस्य मञ्जरीम् || ४ || वहन् वामकरैः शुण्डासमात्तमणिभाजनः | रक्तकौशेयवसनो दिव्यामाल्यविभूषणः || ५ || त्रिनेत्रश्चन्द्रचूडालो मणिकोटीरमण्डितः | शक्त्या समाश्लिष्टदेहो गलन्मदजलाऽइलः || ६ || प्रणम्य ललितां देवीं बद्धाञ्जलिपुटोऽब्रवीत् | देवी ब्रूहि मया यत्तत्कृत्यमत्र रणोद्यमे || ७ || प्.७२६) तते कृपावशादेव साध्याम्यतिदुःशकम् | श्रुत्वैवं प्राह गणपं ललिताम्बा महेश्वरी || ८ || गच्छ वत्स दैत्यकृतमभिचारं विनाशाय | एवं तया समाज्ञप्तो गणेशो धूनयन् करम् || ९ || विचिन्वन्नब्न्हितस्तत्र क्षणाद्यन्त्रं समासदत् | आसाद्य विघ्नयन्त्रं तच्छक्तिसङ्घस्य पश्यतः || १० || वज्रसारमपि क्रोधाद्बिभेद रदघाततः | निमिषात्तच्चूर्णयित्वा तिलशस्तदनन्तरम् || ११ || ज्वलत्सलद्वारभागान्निर्ययौ योद्धुमुत्सुकः | निविश्य दैत्यसेनां तां युयुधे दैत्यपुङ्गवैः || १२ || पिपेष गदया काश्चित् काश्चिश्चिच्छेद चक्रतः | शूलेन दारयश्चान्यान् शरैरन्यान् विभेद च || १३ || अमारयद्विषाणेन दैत्यानन्यान् सहस्रशः | एवं दैत्यपतीन् भूयो गणेशः क्षयमानयत् || १४ || कर्णतालमहावायुविधूता दैत्यवाहिनी | नासावायुमहावेगविकृष्टाः सङ्घऽऽशोऽसुराः || १५ || अवशा विवशुः शीघ्रं शुण्डासुषिरमार्गतः | शुण्डाऽन्तर्भागसङ्घट्टान्मृताश्छिन्नाऽङ्गबन्धनाः || १६ || प्.७२७) केचिन्मूर्च्छामनुप्राप्ता निश्वासाद्भुवि पोथिताः | प्राणान् जहुस्तथाऽन्ये चाऽक्षताः श्रोत्रविलायनात् || १७ || विनिर्गताः कर्णतालाऽस्फालिता जीवितं जहुः | एवं विनाशयन् दैत्यांस्तत्सेनायां गणेश्वरः || १८ || भण्डपुत्रान् समादाय गदापापैरपातयत् | विषङ्गं हृदि दन्तेन चकराऽत्यन्तविक्षतम् || १९ || विषङ्गो राजपुत्राश्च यदा मूर्च्छामुपाऽययुः | तदा दृष्ट्वा दैत्यगणा मत्वा प्रत्यक्षमन्तकम् || २० || हा हेति भीताः समरं त्यक्त्वा दूरं पलायिताः | दृष्ट्वैवं विद्रुतं सैन्यं विशुक्रोऽतिरुषान्वितः || २१ || आययौ रथसंस्थानो युध्यन्तं विघ्ननायकम् | अथाऽभवन्महायुद्धं विशुक्रगजवक्त्रयोः || २२ || शस्त्राऽस्त्रवर्षणं घोरं परस्परजयैषणम् | अथेभवक्त्रः सङ्क्रुद्धो गदापातेन तद्रथम् || २३ || साऽश्वं ससारथिं शीघ्रं चूर्णयामास संयुगे | अथ क्रुद्धो विशुक्रोऽपि गदामुद्यम्य वेगतः || २४ || प्राहरत् कुम्भयोस्तस्य सर्वप्राणेन मन्युना | गदाप्रहारसम्भिन्नकुम्भदेशाद्गणेशितुः || २५ || बहु सुस्त्राव रुधिरमथ क्रुद्धो गणाधिपः | जघान शूलेन हृदि विशुक्रस्याऽतिवेगतः || २६ || प्.७२८) शूलनिर्भीन्नहृदयो विशुक्रो मूर्च्छितोऽपतत् | एवं विशुक्रं निर्जित्य ययौ भण्डरथं प्रति || २७ || दृष्ट्वाऽयान्तं नियुद्धाय गणेशं स्वात्मना सह | विचारयत् स्वान्तरङ्गे तमजेयं विभावयन् || २८ || एष योद्धुं समायाति सिन्धुरास्यो मया सह | अजेयोऽयं महावीर्यः सर्वैर्देवासुरैरपि || २९ || मम सङ्क्ल्प एषोऽस्ति तदा श्रीललिताऽम्बया | शर्स्त्रहत इमं देहं त्यक्त्वा तल्लोकमाप्नुयाम् || ३० || तत्र विघ्नमिमं मन्ये कथं मे स्यात् समीहितम् | नूनमेष पुरा युद्धं चक्रे येन महौजसा || ३१ || द्विपाऽसुरेण तं स्रक्ष्ये तेनैष समियाद्रणे | ततोऽहं तां समायास्ये योद्धं श्रीललिताम्बिकाम् || ३२ || इति निश्चित्य ससृजे गजदैत्यं महाद्भुतम् | पर्वताऽभं महाभीमं परिघोद्यत्सुपुष्करम् || ३३ || अभिद्रवद्गणपतिं स दैत्यो भण्डदेशितः | आसाद्य गजदैत्यं तं युयोध गणनायकः || ३४ || एवं युध्यति नागास्ये विघ्नयन्त्रस्य नाशनात् | शक्त्यः प्रकृतिं प्राप्य निर्युर्युद्धगेतवे || ३५ || प्.७२९) आलक्ष्य युद्धसन्नहं भण्डदैत्यस्य सर्वथा | अशेषदैत्यसेनानां मन्त्रिणी दण्डिनीयुता || ३६ || मन्त्रयित्वा महाराज्ञी स्वयं युद्धाय निर्ययौ | अशेषशक्तिसेनाभिर्दशिताभिः परिवृता || ३७ || आदौ सम्पत्करी देवी र्णकोलाहलाऽभिधे | समारुह्येभसेनाभिर्निर्जगामाऽतिसम्भ्रमात् || ३८ || अथाऽपराजिताऽशवस्था निर्ययौ परमेश्वरी | अश्वारुढाऽश्वसेनाभिरावृता युद्धसम्भ्रमात् || ३९ || तन्मध्ये श्रीमहाराज्ञ्या प्रतिरुद्धा रणोत्सुका | बाला प्रणम्य ललितां प्राह मञ्जुलया गिरा || ४० || मातर्मामनुजानीहि युधाय कृतनिश्चयाम् | सदा युद्धविधानाय समुत्सुकितमानसाम् || ४१ || त्वयाऽहं प्रतिरुद्धाऽस्मि प्रसक्तेऽपि महारणे | पादौ मूर्ध्ना स्पृशाम्येषा देह्यज्ञां समराय मे || ४२ || चिरादुत्कण्ठिता युद्धे निर्गमं नो लभाम्यहम् | आद्ये दिनेऽपि मे युद्धं नाऽसीन्मानसपूरणम् || ४३ || प्.७३०) मध्ये तया कोलमुख्या विहता युधि वै मुधा | अद्य मे पूरयस्वाऽशां चिराद्युद्धाय सम्भृताम् || ४४ || इति बालावचः श्रुत्वा ललिता श्रीपराम्बिका | प्रहसन्ती मन्त्रनाथामुखं समवलोकयत् || ४५ || देव्याशयं विदित्वा सा कुमारीं प्राह मन्त्रिणी | कुमारि ! शृणु मे वाक्यं यदि त्वं योद्धुमिच्छसि || ४६ || तत्त्वया समन्येनैव योद्ध्व्यं यदि मन्यसे | एकेन सह युध्यस्व दण्डिन्या च मया सह || ४७ || युद्धे नौ न परित्यज्य दैत्यसेनासु चैकला | प्रवेष्टव्यं क्वचिद्वाऽपि तवाऽवां पक्षसंश्रये || ४८ || भवावस्तद्वदत्रैव केन युद्धंहि वाञ्छसि | श्रुत्वैवं मन्त्रिणीवाक्यं प्राह बालाऽम्बिका पुनः || ४९ || युध्याम्यहं भण्डपुत्रैर्न तेष्वन्या कथञ्चन | सर्वथा बाणमेकं वा विसृजेदहमेकल || ५० || युद्ध्वा तस्तान्निहन्म्येव न तद्वाहा रथा अपि | आयुधादिनि नाश्यानि अन्याभिर्जातु कुत्रचित् || ५१ || प्.७३१) श्रुत्वा बालावचो भूयो मन्त्रिणी तामुवाच ह | एकेन युध्यस्व रणे देव्यादिष्टे कथं त्वया || ५२ || त्रिंशद्भिर्विरियते युधं नेदमौपयिकं तव | भण्डपुत्र महाशुरा भण्डतुल्यपराक्रमाः || ५३ || भीमसंहननाः सर्वे कूटयुद्धविशारदाः | एकेन तेषु युध्यस्व येन योद्धुं समीप्सितम् || ५४ || इति वाक्यं श्यामलायाः शुत्वा बालाऽम्बिका ततः | प्रणम्य भूयस्तैर्युद्धमयाचत कृताऽञ्जलिः || ५५ || याचतीं तां समालोक्य प्रीता सा ललिताम्बिका | ददावनुज्ञां समरे आश्लिष्य प्रीतिपूर्वकम् || ५६ || अथ प्राह पुनर्देवीं बाला श्रीत्रिपुरां तदा | मातरन्यच्छृणु वचो दण्डिन्येसा मया सह || ५७ || न तिष्ठतु युद्धभुवि भूय एषा पुरा मम | व्यनाशयद्युद्धरसं यद्यागच्छेन्मया सह || ५८ || पृष्ठतस्तिष्ठतु न तु विघ्नं भूयः करिष्यति | यदि युद्धे पुनर्विघ्नं करिष्यति तदा शृणु || ५९ || मया पराहतां युद्धे द्रुतमेनां प्रपश्यसि | एवं वदन्तीं बालां तां मत्वा रुष्टाञ्च ओत्रिणी || ६० || प्.७३२) नत्वा तां सान्त्वयामास मृदुवाक्यैः सुपेशलैः | देवि शङ्कांत्यज मयि आगच्छामि त्वया सह || ६१ || निशामयामि ते युद्धं करोमि तव यत्प्रियम् | तवाऽज्ञामनुरुध्यैव पुरतः पृष्टोऽपि वा || ६२ || स्थास्यामि न हि विघ्नं मे भविष्यति च ते युधि | इति श्रुत्वा दण्डिनीं सा मोदादाश्लिष्य सत्वरम् || ६३ || रथमारुह्य तरसा निर्ययौ समरोत्सुका | मन्त्रिणी दण्डनाथा च स्वस्वस्यन्दनसंस्थिते || ६४ || ययतुः पार्श्वयोस्तस्याः शक्तिसेनासमावृते | अथ श्रीचक्रराजाख्यरथमारुह्य सत्तवरम् || ६५ || युधाय निर्यया देवी वीरसन्नाहसन्नता | तत्पृष्ठतः समारुह्य तिमिरस्तोमसम्प्रभम् || ६६ || त्रुरगं मारुतजवं निर्ययौ सा तिरस्कृतिः | विकर्षन्ती शक्तिसेनाममेयां सागरोपमाम् || ६७ || अथ सेनाद्वयमुखम्भूद्भीमं सुसङ्गतम् | युधवाद्यचित्ररवो नेमिघोषाऽतिमांसलः || ६८ || वीरास्फोटैर्हुङ्कृतैश्च गजमण्डलचीत्कृतैः | हयह्वेषितसंरावैवृर्वधेऽतितरां तदा || ६९ || प्.७३३) अथ शस्त्र प्रपातोऽभूश्चटश्चटरवोद्धतैः | लोहितानां महाऽसारवर्षणोऽतिभयङ्करः || ७० || हतोऽसि हंस्यसे शीं तिष्ठ मा विद्रुतिं त्यज | द्रुतं वीर्यं दर्श्य ते पऽऽय मेऽद्य पराक्रमम् || ७१ || एवं वचांसि बहुधा श्रुयन्ते तत्र सङ्गरे | शिथिलाङ्गाः शरैः केचित् केचित् परशुदारिताः || ७२ || शूलष्वन्येऽभिसम्प्रोताः परे खड्गैर्विपाटिताः | निष्पिष्टाः परिघैरन्ये चक्रैश्छिन्नगलाः परे || ७३ || तोमरैर्भेदिताः केचिद्विक्षताः प्रसपट्टिशैः | भिन्दिपालैः शकलिता गदाभिर्भिन्नमस्तकाः || ७४ || दैत्या अभूवन् समरे शक्तिभिर्गाढसंहताः | सरितः शोणितवहा ववुस्तत्र सहस्रशः || ७५ || एवं शक्तिभिरत्यन्तमर्दिता दैत्यवाहिनी | पलायिता क्रन्दमाना शक्तिशस्त्राऽतिवेधिता || ७६ || असहन्ती शक्तिसेना सम्मर्दबलवत्तरम् | जलाशयाच्छिन्नबन्धात्तोयानीव क्षयं गता || ७७ || तद्दृष्ट्वा विहतां सेनां दैत्यानां भण्डसूनवः | चतुर्बाहुमुखास्त्रिंशत्सङ्ख्याश्चित्रपराक्रमाः || ७८ || प्.७३४) भण्डतुल्यबलाः शस्त्रास्त्राऽभिज्ञा युद्धदुःसहाः | रथाऽरुढा शक्तिसेनां जघ्नुः सायकवृष्टिभिः || ७९ || तैः कलितमभूच्छक्तिसैन्यं सरतापनैः | शस्त्राऽस्त्रतेजो दैत्यानामसह्यं प्राप्य सर्वतः || ८० || इति श्रीमदितिहासोत्तमे त्रिपुरारहस्ये माहात्म्यखण्डे श्रीललिताचरित्रे सर्वसेनासमागमवर्णनं नाम द्विसप्ततितमोऽध्यायः || ५९७८ || प्.७३५) त्रिसप्ततिमोऽध्यायः महावीरभण्डपुत्रवधवर्णनम् एवं युद्धकथां श्रुत्वा प्राह कुम्भभवो मुनिः | हयाऽनन ! महाश्चर्यमाख्यानं सम्यगीरितम् || १ || गणनाथस्य कथितो गजाऽसुरसमागमः | युद्धं तयोः कथमभूत्तन्ममाऽचक्ष्व पृच्छतः || २ || इति पृष्ठः कुम्भभवमुनिना तुरगाऽननः | गणनाथमहायुद्धां प्रवक्तुमुपचक्रमे || ३३ || अगस्त्य शृणु वक्ष्यामि कथामत्यद्भुतां तव | गणनाथमहावीर्यसम्भृतां संयुतां रसैः || ४ || भण्डसृष्टेन दैत्येन युयोध स गणेश्वरः | मुहूर्तमात्रमभवत्तयोर्युद्धं सुदुःसहम् || ५ || अथ दैत्यः ससर्जाऽन्यान् दैत्यानात्मपराक्रमान् | तुल्यरूपांस्तुल्यजवांस्तुल्यसाहसविक्रमान् || ६ || ताननेकान् युध्यमानान् दृष्ट्वा क्रुद्धो गणेश्वरः | ससर्ज स्वात्मनस्तुल्यान् गणेशानपि कोटिशः || ७ || प्.७३६) तत्रैकैकेन दैत्येन प्रत्येकं गणनायकाः | युयुधुश्चित्रशस्त्रस्त्रैस्तदद्भुतमिवाऽभवत् || ८ || दैत्याः शक्तिगणाश्चापि तयोर्युद्धं महाद्भुतम् | ददृशुः प्रेक्षका भूत्वा युद्धसंरम्भविस्मृतेः || ९ || अथ ते गणनाथास्तु जघ्नुर्विक्रम्य हेतिभिः | कश्चिच्छूलाहतः कश्चिश्चक्रेण शकलीकृतः || १० || कश्चिद्गदाभग्नतुण्डः कश्चिद्द्न्तविदारितः | कश्चिन्निघृष्ट उरसा कश्चित्पादप्रपेषितः || ११ || कश्चित् कुम्भाऽहतिर्भिन्नकुम्भः प्राणान् जहौ युधि | एवं ते नाशिता दैत्या दैत्यसृष्टा गजाननैः || १२ || अथैकलः समभवत् पुनर्गजमहासुरः | युयोध बलवांस्तत्र गणेशेनाऽतिसाहसी || १३ || महागणेशोऽपि दृष्ट्व दैत्यं पूर्ववदेकलम् | सञ्झार गणपतीन् स्वाङ्गे निमिषमात्रतः || १४ || अथाऽभवन्महायुद्धं तयोर्विक्रमतोर्युधि | अनेकशस्त्राऽस्त्रगणैः सङ्कुलं सुभयङ्करम् || १५ || अथ सोऽपि महादैत्यो माययाऽभून्महोन्नतः | सहस्त्राऽस्यस्तद्द्विगुणभुजश्चित्राऽयुधैर्वृतः || १६ || प्.७३७) क्षणे क्षणे च श्स्त्राणां सहस्रं स ससर्ज ह | सृष्टं सृष्टं शस्त्रगणं नाशयद् गणनायकः || १७ || दृष्ट्वा दैत्यस्य मायां तां तां गणेशोऽतिरुषाऽन्वितः | चिच्छेद युगपत्तस्य धृतं शस्त्रसहस्रकम् || १८ || अथाऽभवद्गदायुद्धं गणेशगजदैत्ययोः | महत्या गदया नूनं निघ्नतोरितरेतरम् || १९ || तदा गणेशगदया ताडिता तस्य सा गदा | शकलीभूय पतिता ततो दैत्यो निरायुधः || २० || मुष्टिमुद्यम्यगणपं हन्तुमायान्महासुरः | दृष्ट्वाऽयान्तं दैत्यवरं गणेशः प्राक्षिपद्गदाम् | २१ || सा गदा प्राप्य तद्देहं नैषद्रुजमुदावहत् | गदाप्रतिहताऽङ्गेन पपात भुवि सा वृथा || २२ || अथ च्क्रं त्रिशूलञ्च परिघं शक्तिमेव च | क्षिप्तं क्षिप्तं वृथा भूमावपतद्देहसङ्गतः || २३ || उपलानां वृष्टिरिव गण्डशैल इवाऽभवत् | दृष्ट्वा दैत्यं सर्वशस्त्रैरजेयं स गणाधिपः || २४ || चिन्ताकुलः समभवत्तावन्मुष्ट्या जघान् सः | अथाऽभवत्तयोर्मुष्टियुद्धमत्यन्तदारुणम् || २५ || प्.७३८) मुष्टिसंहननोदञ्चदग्निवर्षणसंयुतम् | तं ततो बाहुबन्धेन बद्धा दैत्यं निपातयत् || २६ || निपात्य पादेनाऽक्रम्य हृदि दन्तेन दारयत् | एवं विदारितो दैत्यो जहौ प्राणांस्तदा रणे || २७ || हत्वैवमिभदैत्यं तं पुनर्भण्डासुरं प्रति | युधायाऽभ्याजगामाऽशु गणेशोऽद्भुतविक्रमः || २८ || तदाऽयान्तं गणपतिं दृष्ट्वा भण्डमहासुरः | चिन्तयल्ल्लितां देवीं भीतस्तस्य पराक्रमात् || २९ || मातस्त्वयाऽयं समरे हतो देहो विनश्यतु | इति पूरय मद्वाञ्छां प्रपन्नस्त्वत्पदाऽम्बुजम् || ३० || तद्विदित्वा भक्तवाञ्छापूरणाय महेश्वरी | सस्मार सिन्धुरमुखं चक्रराजरथस्थिता || ३१ || विदित्वा संस्मृतीं देव्या आजगाम गजाननः | प्रणम्य प्राह मातः किं स्मृतो युद्धविधौ स्थितः || ३२ || प्राह श्रुत्वा वचस्तस्य ललिता परमेश्वरी | वत्साऽलं युद्धविधिना तिष्ठ मत्पार्श्वतोऽधुना || ३३ || एता युद्धोत्सुका देव्यो युध्यन्त्वसुरसेनया | इत्याज्ञप्तो गणेशानो विरराम नियुद्धतः || ३४ || प्.७३९) अथ भण्डसुतैः शक्तिसेनां दृष्ट्वाऽतिविक्षताम् | तान् सयकैः किरन्ती सा बाला युद्धे समासदत् || ३५ || असङ्ख्यादैत्यसेनाभिर्यता दैत्येशसूनवः | अत्यद्भुतक्रियां युद्धे बालां वव्रूरणाऽजिरे || ३६ || कोटिशो दैत्यसुभ्टा विचित्राऽयुधवर्षणैः | बालां रथस्थां ववृषुर्गर्जन्तो युध्धदुर्मदाः || ३७ || अथ शक्तिगणं प्राह दण्डिनी परम्ं वचः | शृणुध्वं शक्त्यः सर्वा बालाम्बाज्ञां ब्रवीमि वः || ३८ || एषा यैर्युध्यति युधि न तेषु सहसा क्वचित् | प्रयोक्तव्यं शस्त्रगणं दण्ड्या सा मेऽन्यथा भवेत् || ३९ || प्रेक्षध्वमस्याः समरं न योद्धव्यं कथञ्चन | इति सङ्घोष्य सेनासु मन्त्रिण्या सहिता स्वयम् || ४० || पार्श्वं समाश्रितवती तस्याः समरवैभवे | अथ श्रुत्वा दण्डराज्ञ्याः शासनं मुदिता हि सा || ४१ || असङ्ख्यैर्दैत्यसुभटैरेकला युयुधेऽद्भुतम् | सिद्धर्षिदेवतामुख्याः पश्यन्त्याऽकाशमाश्रिताः || ४२ || युध्यन्तीं बहुभिश्चैकां कुमारीं विस्मिताऽभवन् | अथ दैत्योत्सृष्टशस्त्रवृन्दैराच्छादिताऽभवत् || ४३ || प्.७४०) बालसूर्योऽभ्रपऽलैरिव सा सर्वतो दिशम् | दृष्ट्वा छन्नां शस्त्रगणैर्विमताः शक्त्योऽभवत् || ४४ || ततः क्षणेनैव बाला प्रतिशस्त्राऽभिवर्षणैः | विनाश्य तां शस्त्रवृषिं भूयः सर्वान् जघान ह || ४५ || अथ तेषामसङ्ख्यानां युगपल्लघुविक्रमा | आयुधानि वाहनानि नाशयिश्चित्रविक्रमा || ४६ || भूयो गृहीतमात्राणि शस्त्राण्यपि समाच्छिनत् | अथ तीक्षणैः शरैर्दैत्यान्नाशयत् साऽतिवेगतः || ४७ || शराऽदानञ्च सन्धानं पूरणञ्च विसर्जनम् | न लक्ष्यतेऽतिनिपुणदृशा केनाऽपि सर्वथा || ४८ || किन्तु तस्या धनुर्मध्याद्भूविलाच्छलभा इव | प्रसरन्ति शरास्तीक्ष्णा दिक्ष्वन्तरविहीनतः || ४९ || सङ्घशो दैत्यमूर्धानः पतन्ति तृणराजतः | फलानीव सुपक्वान्.ऽऽचटमाअरवाः || ५० || केचिच्छिन्नकराऽङ्घ्यरूरुवक्षःकुक्षिगलाः परे | निरन्तरतया विद्धाः सहस्राक्ष इवाऽभवन् || ५१ || अन्ये च खण्डिता दैत्यास्थिलशः कीर्णदेहकाः | केचिद्वक्षसि संविद्धा हृतप्राणाः स्थिरं स्थिताः || ५२ || प्.७४१) धृतशस्त्राः प्रदृश्यन्ते लिखिताः सुभटा इव | केचिच्छराऽहतेर्वेगान्नीयन्ते गतजीवनाः || ५३ || युध्धकातरभावेन पलायनपरा इव | एवं तया मुहूर्तेन कोटिशो दैत्यपुङ्गवाः || ५४ || गताऽसवोऽभवन् पेतुर्विक्षतास्ते शतोत्तराः | न तत्र दैत्यः शूरोऽपि कश्चित् स्वात्माऽवने विभुः || ५५ || क्व युद्धं क्व च वा शस्त्रपातनं कर्तुमर्हति | न दैत्या युद्धमत्यन्तमेकाकिन्य विदुः क्वचित् || ५६ || कोटिशः शक्तिसेनानां युद्धं जानीयुरञ्जसा | शक्तिसेना नभःसंस्था देवाद्याश्च समन्ततः || ५७ || दृष्ट्वा बालाविक्रमं तमाश्चर्यं परमङ्गताः | अथैवं निघ्नतीं बालां दृष्ट्वा दैत्याश्चमूङ्गताः || ५८ || भीताः शस्त्राणी निक्षिप्य पलायनपराऽभवन् | हा हताःस्मो न चेयं वै योषिद्बाला कुमारिका || ५९ || प्रत्यक्षमन्तकः प्राप्त एवमस्मान् विहिंसितुम् | अद्य निःशेषितं सैन्यं दैत्यानां भवति क्षणात् || ६० || वदन्त एवं क्रोशन्तो दुद्रुवुः सर्वतो दिशम् | शस्त्रधारासुनिचिते मार्गमप्राप्य निर्गमे || ६१ || शरधाराशकलिताः पेतुदैत्यास्तु सङ्घशः | केच्छिरैः सुसंविद्धाः पतिताः ऽऽशवराशिषु || ६२ || प्.७४२) भीता निविश्य स्वात्मानमरक्षन्मृत्युभीतितः | एवं तदा दैत्यसैन्यं प्रायो नष्टं पलायितम् || ६३ || शिष्टञ्चाऽपि निशाम्याऽथ भण्डपुत्राः समाययुः | रथाः सिंवाहा महाचापधरा भृशम् || ६४ || क्रुधा एकप्रपातेन बालां वव्रुः समन्ततः | महामेघा इव श्यामा गर्जन्ती मृगराजवत् || ६५ || वर्षन्तः शरधाराभिर्बालां सूर्यमिवाऽम्बरे | तैरनेकैः कुमारी सा विष्णुतुल्यपराक्रमैः || ६६ || सङ्गता युधि दृष्टाऽभूल्लीलया तान् युयोध च | मन्त्रिणीदण्डिनीमुख्या दृष्ट्वा बालापराक्रमम् || ६७ || विष्मिताः श्रीपरादेव्यै समाचख्युर्महारणम् | देवि नूनं सा कुमारी न शेषयितुमर्हति || ६८ || भण्डं तद्भ्रातरौ वाऽ.पि पुत्रान् सेनागतानपि | लीलयैवाऽद्य निःशेषं करिष्यति न संशयः || ६९ || एवं युद्ध्वा क्षणं मन्दं भण्डपुत्रैः प्रतापनैः | तेषां वाहान् ध्वजं छत्रं युगपन्नाशयच्छरैः || ७० || तेषां सायकवृष्टिं तां विधूय प्रतिवृष्तिभिः | शरासनं क्रमात्तेषां चिच्छेद सुपतत्रिभिः || ७१ || प्.७४३) अथ ते रोषिताः खड्गगदाप्रमुखमायुधम् | परामृशुर्निहन्तुं तां यावत्तवदियं द्रुतम् || ७२ || आत्तमात्तं प्रचिच्छेद तदद्भुतमिवाऽभवत् | एवं निरायुधा दैत्या जातास्तस्याः पराक्रमम् || ७३ || अत्यद्भुतं मेनिरे ते चिन्ताञ्चाऽपुर्महत्तराम् | एवं बालमहाकालग्रस्तान् युधि निशाम्य वै || ७४ || विषङ्गश्च विशुक्रश्च महासिन्यपरीवृतौ | रक्षितुं तान् राजपुत्रानभ्याययतुराशु वै || ७५ || मा विभ्याऽगतावावां वदन्ताविति सा शिवा | ददृशे शखवर्षाणि कुर्वन्तौ कालमेघवत् || ७६ || दृष्त्वा बालाऽतिहर्षेण तां वृष्टिं शस्त्रसङ्कुलाम् | निवारयल्लीलयैव ततस्तां दैत्यवाहिनीम् || ७७ || क्ऽणेन वायव्याऽस्त्रेण महावायुर्घटनिव | नामशेषां कृतवती ततस्तावतिरोषितौ || ७८ || आयान्तावतिवेगेन गदाखड्गकरावुभौ दृष्ट्वा शरैर्वाहनेभान् युद्धेऽनाशयदञ्जसा || ७९ || अथैकेन पृथग्वक्षोदेशे बलवदाहतौ | मूर्च्छितौ पेततुर्भूमौ वज्राऽहतनगाविव || ८० || तदन्तरे भण्डपुत्राः शस्त्रहेतोः परावृताः | तानिवृत्तान् समालोक्य विरथानकरोत् क्षणात् || ८१ || प्.७४४) पादचारान्निहत्याऽसु जङ्घयोर्निशितैः शरैः | प्राहरे भण्डदायादाः शूराणां वः कथं त्विदम् || ८२ || दर्शनं युधि पृष्ठस्य योग्यं ब्रूत पलायताम् | शुत्वा कटुरसोदर्कं भाषितं तेऽतिमानिनः || ८३ || ब्रूयुर्मन्युज्वलन्नेत्रा निवृत्ताः सम्मुखे रणे | धिङ्मुग्धे बालिकां दृष्ट्वा दयमानस्वभावतः || ८४ || जीवस्यस्मान् समासाद्य मृत्युकल्पान् कथञ्चन | तत् पश्य सद्यस्त्वां कुर्मो विमदां तत् स्थरीभव || ८५ || इत्युक्त्वामुष्टिमुद्यम्य धावमानान् स्वसम्मुखे | प्रत्येकं निशितैर्भल्लैस्तच्छिरांसि चकर्तह || ८६ || पक्वतालफलानीव पेतुस्तन्मस्तकान्यथ | हाहाकारः समुदभूद् दैत्यानां वाहिनीमुखे || ८७ || ववर्ष बालां कुसुमैः सुगन्धिभिः सुरेश्वरः | जयशब्दो महानासीच्छक्तिसेनासु सर्वतः || ८८ || इति श्रीमदितिहासोत्तमे त्रिपुरारहस्ये माहात्मयखण्डे श्रीललिताचरित्रे भण्डपुत्रवधकरणवर्णनं त्रिसप्ततितमोऽध्यायः || ६०६६ || प्.७४५) चतुःसप्ततितमोऽध्यायः उभयसेनासमागमवर्णनम् एवम् हतेषु भण्डस्य पुत्रेषु समरोत्सुकाम् | बालां भूयः समालक्ष्य मन्त्रिणीदण्डनायिके || १ || ऊचतुर्देवि श्रीराज्ञीं दृष्ट्वा नत्वा निवेद्य च | अनुज्ञाता पुनर्युद्धं यास्यामः कर्तुमञ्जसा || २ || तावद्दैत्याः समायान्तु समराय सुदंशिताः | त्वमसाध्यं कृतवती नैतदस्मच्छकं क्वचित् || ३ || इत्युक्त्वा तां समादाय गत्वा श्रीमातृसन्निधिम् | आरुह्य चक्रराजाख्यरथं नत्वा पराम्बिकाम् || ४ || ऊचतुर्विक्रमं युद्धे बालाया अद्भुतं महत् | विजयञ्च ततः श्रुत्वा तुष्टा श्रीललिताम्बिका || ५ || आश्लिष्य बालां सुप्रीत्या पार्श्वे च सुनिवेशयत् | भण्डपुत्रान् हतान् दृष्ट्वा हा हेत्युच्चैर्विचुक्रुशुः || ६ || पलायिताश्च परितः शुष्यद्वक्त्रा हतप्रभाः | पुत्रनाशं निशम्याऽथ भण्डदैत्योऽतिदुःखितः || ७ || प्.७४६) पुनर्विमृश्य सद्बुद्ध्या धैर्यमालम्ब्य सत्वरम् | अहो मे विपुलो मोहः स्मृतिभ्रंशः समुद्गतः || ८ || किं शोचामि वृथैवाऽहं देव्या मेऽभिमतं कृतम् यथा प्रार्थितं मे तत्तथैव कृतं तथा || ९ || नूनं मदर्थं शोचेयुरेते तस्मान्ममाऽग्रतः | यान्तु पञ्चत्वमथ वै तया देव्या रणे हताः || १० || प्राप्नोमि तल्लोकगतिं परीवारेण संयुतः | इति मे प्राग्व्यवसितं प्रार्थिता च पराम्बिका || ११ || अथ सा भक्त्कामानां दोग्ध्रो कामप्रपूरणम् | चक्रे तत्र महामोहो वृथा किं मामुपागतः || १२ || तदलं मे विमोहेन देवि ! त्वां शरणागतः | तन्मेऽवशेषितं कामं पूर्याऽशु महेश्वरि ! || १३ || संहृत्य शिष्टां सेनां मे भ्रातृभ्यां सहितां ततः | मां सयोषिद्गणं शीघ्रं युद्धे शस्त्राग्निपावितम् || १४ || विधाय स्वपदाम्भोजसविधं नेतुमर्हसि | कदाऽहं चन्द्रचूडालं नेत्रत्रयसुशोभनम् || १५ || क्रोधारुणितनेत्रान्तसभ्रूकुटिलदर्शनम् | पश्यन् श्रीमातृवदनं दग्धस्तत्सायकाऽग्निना || १६ || प्.७४७) व्रजाम्यशोकममृतं स्थानं योगिसुदुर्लभम् | प्रार्थयन्निति तद्रूपं कोटिकन्दर्पसुन्दरम् || १७ || ध्यायन् श्रीललितादेव्या निर्विकल्पोऽभवत् क्षणम् | तावत्तत्राऽजग्मतुस्तौ दैत्यराजस्य ब्रातरौ || १८ || तं ददर्शतुरत्यन्तनिश्चेष्टं स्थाणुवत्स्थितम् | अमंसतुः पुत्रशोकभराक्रान्तं सुमूर्च्छितम् || १९ || समाधनवचस्तत्र प्रोचतुः कालसम्मितम् | तयोः शमपरैः शब्दैर्ध्येयान्निर्गतमानसः || २० || उन्मील्य नेत्रे पुरतो ददर्श भ्रातरौ स्थितौ | स्वरूपगोपनार्थं स ब्रात्रोः सम्मुखतः स्थितः || २१ || पुत्रान् शुशोच नितरां मनसा तौ हसंस्तदा | हा पुत्रा मां परित्यज्य पितरं दुःखसागरे || २२ || मज्ज्न्तं दीनमत्यन्तं क्व यातास्त्यक्त्सौहृदाः | मातरो वोऽतिवात्सल्यकातरा ईदृशीं दशाम् || २३ || श्रुत्वा कथं भवेयुस्ता विदीर्णहृदया इव | इत्यादि विलपन्तं तं दृष्ट्वा तौ भ्रातरौ तदा || २४ || श्रीदेवीमायया मुग्धौ दैत्येशं प्रोचतुर्वचः | अलं दैत्येश ! शोकेन धैर्यवीर्याऽपहारिणा || २५ || प्.७४८) शोचन्तं त्वां समालोक्याऽसङ्ख्यातभुवनेश्वरम् | ज्वरो नौ देहं करीषमिव पावकः || २६ || मुहूर्तं दैर्यमालम्ब्य राजंस्त्वं सुस्थिरो भवः | गत्वाऽवामेकपातेन तां हत्वा निशितैः शरिः || २७ || पुत्रघ्नीं ललिताऽख्यातां मारीं दैत्येष्विवाऽगताम् | जीवन्तीं वा मृतां वा.पि वद्ध्वा नेष्याव आशु वै || २८ || इत्युक्त्वा सशरं चापमादाय स्यन्दनाऽश्रयौ | युद्धार्थमभ्याययतुरतिवीर्यपराक्रमौ || २९ || द्विशताऽक्षौहिणीसेनापरीवारौ सुदंशितौ | पृथक् शक्तिमहासेनापार्श्वभागे प्रपेततुः || ३० || चक्रराजरथवरदक्षपार्श्वेऽतिवेगतः | शताऽक्षौहिणीसेनाभिर्विषङ्गः प्रापतद्बली || ३१ || विशुक्रश्चापि वामेन तथा न्यपतदञ्जसा | तृतीये युद्धदिवसे प्रातः सूर्योदयं प्रति || ३२ || अकस्माच्छक्तिसेनायाः पक्षयोः पतितौ यदा | तदाभवन्महाशब्दः शक्तिसेनासु पार्श्वयोः || ३३ || तदा श्रुत्वा युद्धशब्दं मन्त्रिणीदण्डनायिके | अभूतां शङ्कितेऽत्यन्तमूचतुः श्रीपराम्बिकाम् || ३४ || देवि दैत्यशक्तिसेनासमागममहाध्वनिः | श्रुयते भैरवतरो दैत्याः कपऽयोधिनः || ३५ || प्.७४९) युध्यन्त्यकाण्डे सन्नद्धा अकृत्वा संविदं पुरा | तद्याव आवामनुजानीहि शीघ्रं महेश्वरि || ३६ || अनुज्ञाते ततो नत्वा मन्त्रिणीदण्डनायिके | चेलतुः समरायाऽशु पृथक् शक्तिगणावृते || ३७ || देव्या दक्षिणपार्ऽऽश्वस्था दण्डिनी चण्डविक्रमा | निर्ययौ श्रीचक्रराजरथदक्षिणद्रारतः || ३८ || किरिचक्ररतह्ं पञ्चपर्वशोऽभिसमून्नतम् | महासिंहयुगं पार्श्वे सैरिभाग्ग्रं तथा पुरः || ३९ || योजितं भैरवो यत्र रथनेता स्वयं स्ह्तितह् | तत्पर्श्वे सिंहसंवाहरथारुढे विचेलतुः || ४० || स्वप्नेश्वरी तथा कालसङ्कर्षा युधसम्भ्रमा | बटुकैः कालिकावृन्दैर्वराहमुखशक्तिभिः || ४१ || असङ्ख्याभिः परिक्रान्ता निर्ययौ कदनाय सा | एवं चक्ररथद्वारादुत्तरस्माश्च मन्त्रिणी || ४२ || विनिर्गत्य गेयचक्ररथराजे महोन्नते | सप्तपर्वयुते वेदहरिदश्वप्रचालिते || ४३ || हसन्ती श्यामला तत्र रथनेत्र्यभवत् परा | शुकाद्या सारिकाद्या च श्यामला दक्षपार्श्वगा || ४४ || सङ्गीतसाहित्यपूर्वे श्यामले वामपार्श्वगे | लघुऽऽयामलिका पृठे चैवमेता रथाऽश्रयाः || ४५ || प्.७५०) परितो गेयचक्रात्मरथस्याऽशु विनिर्ययुः | मन्त्रिण्यङ्गससुद्भूताः श्यामलाः कोटिकोटिशः || ४६ || रथाश्रयाः प्रचेलुर्वै युद्धसम्भारसम्भृताः | सर्वाः षोडशवार्षिक्यस्तारुण्यश्रीनिषेविताः || ४७ || रक्तकौशेयवसना नवरत्नविभूषणा | कटाक्षमन्दहासाभ्यां मोहयन्त्योऽखिलं जगत् || ४८ || कापिशायनपानोद्यन्म्ददघुर्णितलोचनाः | काव्याऽलापरसाऽभिज्ञा गीतवाद्यविनोदिताः || ४९ || नर्मक्रीडापराश्चाऽतिहास्यलीलापरायणाः | मन्त्रनाथा वाहिनी सा सुशुभेऽतितरां तदा || ५० || तापिच्छवनमालेव विकसश्चारुमञ्जरी | अथाऽभवच्छक्तिसेनादैत्यसेनासमागमः || ५१ || उद्वेलयोः सागरयोरिव सङ्गमनं भुवि | अथ ध्वनद्युद्धवद्यहुङ्काराऽस्फोटनिऽस्वनः || ५२ || रथघओषतुरङ्गोश्चहेषागम्भीरमांसलः | सेनयोरुभयोस्तत्र बधिरीकृतदिङ्मुखः || ५३ || शक्तिसङ्घमहामेघनिर्मुक्तेषुप्रवर्षणैः | दैत्यसेनामुखतटं विदीर्णं शतधाऽभवत् || ५४ || प्.७५१) दैत्यसेनाभिन्नमुखद्वारेण विविशुर्द्रुतम् | दैत्यसेनाहृदं शक्तिसेनास्त्रोतः समन्ततः || ५५ || निविश्य दैत्यसेनां ताः शक्त्यो बलवत्तराः | ऽऽशस्त्राऽग्निभिर्दैत्यसेनावनं चक्रुर्हि भस्मसात् || ५६ || केचिच्छरैः सुनिचिताः केचित्परिघप्रोथिताः | अन्ये कृपाणिना च्छिन्ननिखिलाङ्गा गताऽसवः || ५७ || परे चक्रविकृत्ताऽङ्गाः परशुच्छिन्नकन्धराः | इतरे शूलसूत्रेषु प्रोता मणिगणा इव || ५८ || अपरे शक्तिप्रमुखैर्भिन्नमूर्धोदराऽभवन् | एवं विनाश्यमानायां सेनायां शक्तिसेनया || ५९ || दृष्ट्वा विशुक्रोह्यत्यन्तं रोषाग्निज्वलितेक्षणः | रथेनाऽभ्यदेरवच्छक्तिवाहिनीं शस्त्रवर्षणैः || ६० || जीमूत इव वर्षाउ धाराः शरमयास्ततः | शक्तिसेनाऽपि युयुधे विशुक्रे च बलीयसी || ६१ || अथ पुत्रा विऽऽउक्रस्य पितृतुल्यपराक्रमाः | जीमूतकायो देवारिः करम्भः शिखिभाषण || ६२ || निविश्य शक्तिसेनाऽन्तर्जघ्नुस्ता बलवत्तराः | विशुक्रात्मजसङ्खिन्नां निशाम्य शक्तिवाहिनीम् || ६३ || चतुर्दिक्षु काल्यमानां शुकादिश्यामलामुखाः | विशुक्रपुत्रानासेदुर्वर्पन्त्य इषुसन्ततिम् || ६४ || प्.७५२) तत्र जीमूतकायेन युयोध शुकश्यामला | चिरं युद्ध्वा शरैस्तत्र रथं सूतं शरासनम् || ६५ || चिच्छेद निमिषार्धेन ततः प्रकुपितोऽसुरः | जघान तीक्ष्णधारेण खड्गेन रथवाहनम् || ६६ || तस्या रथाश्वो निहतः प्रस्खलद्भिन्नमस्तकः | तावच्छुकश्यामलिका अर्धचन्द्रेणुणा जवात् || ६७ || अपातयच्छिरो देहात् पक्वतालफलं यथा | देवारिणा शारिकाख्या सङ्गता युद्धकर्मणि || ६८ || च्छिन्नध्वजरथाश्वं तं युध्यन्तं गदया दृढम् | स्वकीयगदयाऽप्लुत्य जघानाऽसुरमस्तके || ६९ || भिन्नमूध्ः निपतितो देवारिर्गतजीवनः | सङ्गीतश्यामला युद्धं करम्भेण चकार ह || ७० || युद्ध्वा चिरं तेन सह खड्गेन शिर आच्छिनत् | साहित्यऽऽयामला युध्ध्वा बलिनं शिखिभाषणम् || ७१ || शस्त्राऽस्त्रैस्त्रं विनिर्जित्य प्राक्षिपद्वक्षसि द्रुतम् | त्रिशूलं तेन दलितहृदयः प्राप तद्व्यसुः || ७२ || यावत्पुत्रा नियुध्यन्ति विशुक्रस्तावदाशु वै | छन्नरूपः ऽऽयामलाय रथपार्ष्णिं समासदत् || ७३ || तत्र चोरवदायान्तं गदाहस्तं महाबलम् | दृष्ट्वा लघुश्यामलाख्या सन्निधानं समागतम् || ७४ || प्.७५३) मन्त्रेश्या रथवर्यन्तमारुरुक्षन्तमञ्जसा | जघान मूर्घ्नि तरसा खड्गेनाऽतिबलीयसा || ७५ || खड्गप्रपाततस्तस्य मुकुटं शकलीकृतम् | विशुक्रो भ्रष्टमुकुटः क्रोधारुणितलोचनः || ७६ || गदामादाय वेगेन हन्तुं तामभिसंययौ | तावच्छरेण दैत्यस्य गदां चिच्छेद सप्तधा || ७७ || निरायुधो विशुक्रोऽपि मुष्टिना रथवाजिनाम् | तस्या जघान तावत् सा प्राहरन्मूर्घ्नि सायकैः || ७८ || सायकैर्विदलन्मूर्धा पपात भुवि मूर्छितः | ईशत्प्रज्ञस्तावदेनं ग्रहीतौं लघुश्यामला || ७९ || रथादवप्लुत्य शीघ्रं भाहुभ्यां तं परामृशत् | प्रतिबुद्धस्तावदसौ मत्वा स्वस्य हि बन्धनम् || ८० || मुष्टिनाऽभ्यहनद्देवीं साऽपीषत्कश्मलं ययौ | तावज् ज्ञात्वा रथस्थानाः शक्त्यो रिपुमन्तिके || ८१ || कोटिशस्तं समुत्पेतुर्वाहिनी शक्त्योऽपि च | तावन्मत्वा शक्तिगणं दुसहं दैत्यशेखरः || ८२ || उत्प्लुत्य स्वरथं प्राप्तो दैत्यसेनामुखस्थितम् | तत्र दृष्ट्वा म्र्टान् पुत्रान् शोकसंविग्नमानसः || ८३ || बिल्स्प्यस् किञ्चिदत्यन्तरोषारुणितलोचनः | प्रज्वलन् शक्तिसेनां तां विधमच्छरवर्षणैः || ८४ || दृश्त्वा विशुक्रं शक्तीनां सेनाप्राणाऽपहारिणम् | मन्त्रिणी सायकाऽसारैर्धनुर्जीमूतनिऽसृतैः || ८५ || ववर्ष नीलशैलोश्चशृङ्गं पर्जन्यवद्भृशम् | तीक्ष्णसायकधाराभिर्विशुक्रोऽत्यन्तविक्षतः || ८६ || देहक्षतेभ्योऽतितरामसृग्धारां मुमोच वै | नीलाद्रिर्वृष्टिधाराभिर्गैरिकारसवत्क्ष्णम् || ८७ || मन्त्रिण्या गाढसंविद्धो रोषात् प्रज्वलीताऽकृतिः | विचित्रशस्त्रशलभैराच्छादयत मन्त्रिणीम् || ८८ || विरेजे मन्त्रिणीच्छन्ना दैत्यशस्त्रमधुव्रतैः | तमालमञ्जरीवाऽतिमकरन्दसुबृंहिता || ८९ || क्षणेन दैत्यशस्त्राणि निवार्य शरवर्षणैः | आकार्णपूर्णभल्लेन धनुर्ज्यामाच्छिनद्द्रुतम्|| ९० || यावज्ज्यामपरां चापे निवेशयितुमीहते | तावत्तिक्ष्णपृषत्केन मुष्टिदेशे जघान तम् || ९१ || गाढबिद्धदैत्यमुष्टेर्दैत्यस्य धनुरापतत् | पतितं धनुरादातुं यावन्नम्रो महासुरः || ९२ || तावदन्येनाऽभिहनत् पत्रिणा मूर्घ्नी | स तावदिषुणा भिन्नमूर्धा गाढसुमूर्च्छया || ९३ || प्.७५५) अपतत् स्वरथोपस्थे वज्राहत इवाऽद्रिराट् | अथ क्षणेन मन्त्रिण्या नाशितं दैत्यवाहनम् || ९४ || सारथिश्छ्त्रमुकुटे शस्त्रसङ्घ्ं शरैः पृथक् | तावन्मूर्च्छाविनिर्मुक्तो ददर्शाऽहवसाधनम् || ९५ || साकल्येन विनश्टं तत् क्रुद्ध उत्प्लुत्य तां रुषा | शीर्ण रथाङ्गमादाय निहन्तुमुपसंययौ || ९६ || तावद्दक्षभुजेऽत्यन्तवेगाच्छरमपातयत् | शरेणाऽभिहताद्धस्ताद्रथङ्गं प्रापतत् क्षितौ || ९७ || ततो मुष्टिं समुद्यम्य रथ आप्लुत्य सत्वरम् | मन्त्रिणीहस्तगं चाप्रं भङ्क्तुं यावत् समाच्छिनत् || ९८ || तावत्तिक्ष्णाऽसिन कायाच्छिरस्तस्य निपतयत् | दृष्ट्वा विशुक्रं निहतं विद्रुता दैत्यवाहिनी || ९९ || परिशिष्टाऽतिवित्रस्ता शस्त्राण्युत्सृज्य सर्वतः | जयशब्दं शक्तिगणाश्चक्रुर्देवमुखा अपि || १०० || इति श्रीमदितिहासोत्तमे त्रिपुरारहस्ये माहात्म्यखण्डे ललितामाहात्म्ये विशुक्रवधवर्णनं नाम चतुःसप्ततितमोऽध्यायः || ६१६६ || प्.७५६) पञ्चसप्ततिमोऽध्यायः विषङ्गवधवर्णन्म् विषङ्गेनाऽपि वाराही सङ्गता समरे यदा | तदा दैत्यशक्तिचम्बोरभवद्भैरवो रणः || १ || शक्तीनां खड्गचक्राऽसिपरिघप्रासतोमरैः | बटुकानां त्रिशुलाद्यर्देत्या भूयोऽभिविक्षताः || २ || तिलशः छिन्नवर्ष्माणि जहुः प्राणान् रणाऽजिरे | दृष्त्वा दैत्यचमूं शक्तिगणैः प्रायो विनाशिताम् || ३ || क्रुद्धाऽभिदुद्रुवुः शक्तिचमुः पर्वतसन्निभाः | विषङ्गपुत्राः प्रोद्दण्डविक्रमा वीर्यवत्तरा || ४ || करालवक्त्रो विशिखो विभाण्डो विकटेक्षणः | इन्द्रशत्रुः सुराऽरातिर्महाकुक्षिर्मदोद्धतः || ५ || एतेऽष्तौ भीमबलिनो शक्तीर्जघ्नुः समन्ततः | तैर्हन्यमानां तां शक्तिवाहिनीमभिवीक्ष्य तु || ६ || अभ्याययुस्तान्नियोद्धुं जम्भिनी स्तम्भिनी तथा | अन्धिनी मोहिनी चैव भैरवः कालकर्षिणी || ७ || प्.७५७) स्वप्नेश्वरी च बटुक इत्यटौ सुविभीषणाः | करालवक्त्रिण युधि जम्भिनी सङ्गताऽभवत् || ८ || युद्ध्वा चिरं तथा साकं शस्त्रास्त्रैर्दैत्यपुङ्गवः | गदयाऽभिजधानाऽशु वराहं शक्तिवाहनम् || ९ || ताडितो जम्भिनीवाहो शूकरो भिन्नमस्तकः | ईषत् पपात पुरतो जानुभ्यामवनिङ्गतः || १० || तावत्क्रुद्धा जम्भनी च खड्गेन शिर आहरत् | विशिखः स्तम्भनीं प्राप्य युयोधाऽतिबली दृढम् || ११ || स्तम्भिनी हरिणाऽरुढा विशिखैर्विशिखं त्रिभिः | जघान तैर्मूघ्नि लग्नैर्विशिखोऽतिव्यराजत || १२ || त्रिशृङ्ग इव दैत्येन्द्रः सुस्राव बहुशोणितम् | सोऽपि क्रुद्धोऽतिवेगेन तीक्ष्णधारेण कर्णिना || १३ || धनुर्ज्यामाच्छिनद्भूयो विकीर्य निशितैः शरैः | तावत्क्रुद्धा स्तम्भिनी च गार्ध्र्पत्रेण् तेजिना || १४ || तद्वाहनोऽट्रमनयच्छित्त्वाऽन्तकपुरं प्रति | अथ तस्य क्षणेनैव निशितैर्विसिखैस्त्रिभिः || १५ || निषङ्गं मुकुटं चापं चिच्छेद युगपद्युधि | स छिन्नधन्वाऽतिरुषा त्रिशूलमतिभास्वरम् || १६ || प्.७५८) स्तम्भिनीं प्रतिचिक्षेप तावत् सा लघुविक्रमा | छित्त्वा त्रिशूलं भल्लेन शिरो दैत्यस्य पातयत || १७ || अन्धिन्या युयुधे तत्र बिभाण्डो बलगर्वितः | शस्त्रैरस्त्ररनेकैश्च कृतप्रतिकृतैररम् || १८ || अन्धिनी महिषाऽरुढा विभाण्डः खरवाहनः | चिरां युद्ध्वा तेन तत्र कर्णान्ताऽकृष्टपत्रिणा || १९ || जघान दैत्यमुरसि तथा विद्धो विभाण्डकः | पपात मूर्च्छितो गाढं छिन्नपक्ष इवाऽद्रिराट् || २० || अथ तद्वाहनः खरो पर्वताभोऽतिधूसरः | द्वाशब्दं भीषणं कृत्वा समुन्नम्य च बालधिम् || २१ || निविष्टः शक्तिसेनासु संस्तब्धाङ्गरुहो बली | काश्चित्प्रत्यक्पादघातैर्दशनैश्चाऽवधूननैः || २२ || अन्याः स्वगतिवेगेन खरः शक्तीर्निपातयत् | एवं शक्तीर्विनिघ्नन्तं खरं दृष्ट्वाऽन्धिनी तदा || २३ || शरेणाऽकर्णपूर्णेन जघानाऽतिरुषाऽन्विता | स विद्वस्तीक्ष्णबाणेन मूर्च्छितः प्रपतद्भुवि || २४ || तावन्मूर्च्छाविनिर्मुक्तो विभाण्डोऽत्यन्तरोषितः | वेगेन गदया तस्या वाहनं ताडयद्बली || २५ || अन्धिनीवाहमहिषस्ताडितो गदया भृशम् | विद्रुत्य मन्युज्वलितस्तं शृङ्गाभ्यां समाक्षिपत || प्.७५९) विभाण्डो महिषाऽक्षिप्त आकाशं प्राप्य वेगतः | परतो योजनाद्भूमौ पपात सुविमूर्च्छितः || २७ || तावदभ्याययौ तस्य वाहो रासभशेखरः | मुञ्चन् सुशीघ्रं क्वाशब्दं सघर्घरमहारवम् || २८ || आगत्य महिषं भूयः परावृत्य सुवेगतः | पाश्चात्यपादघातेन सन्ताड्य बलवत्तरम् || २९ || ददंश तं पुनः कण्ठे तावत् क्रुद्धः स सैरिभः | शृङ्गाभ्यां दारयत् कुक्षिं भूमावास्फाल्य वेगतः || ३० || निर्गताऽन्त्रः खरो मृत्युं प्राप निर्यातितेक्षणः | विमूर्च्छस्तावदभ्येत्य विभाण्डोऽभिहनत् पदा || ३१ || महिषं तावदिषुणाऽन्धिनी दैत्यस्य मस्तकम् | अपाहरदतिक्रोधात् कृत्तमूर्द्धाममार सः || ३२ || युयोध मोहिनी दैत्यं शस्त्रस्त्रैर्विकटेक्षणम् | मोहिनी गरुडारुढा गृघ्रस्थो विकटेक्षणः || ३३ || सुपर्णगृघ्रयोर्भीममासीइद्युद्धं नभोऽङ्गणे | सपक्षयोः पर्वतयोरिवाऽत्यन्तविचित्रितम् || ३४ || तदा सुपर्णपक्षाभ्यां प्रोथितो गृघ्रशेखरः | नखैस्तुण्डैर्दारिताण्गो ममार पतितोऽवनौ || ३५ || प्.७६०) विकटाक्षो हते वाहे क्रुद्धो युद्ध्वा चिरं तया | मोहिनीचक्रसम्च्छिन्नगलो मृत्युमुपागतः || ३६ || इन्द्रशत्रुः सर्पसंस्थो भैरवेणाऽभिसङ्गतः | स्ववाहेनाऽतिभीमेन युयोधाऽत्यन्तसाहसी || ३७ || भैरवः कालमेघाभः स्वसमाकारभैरवैः | कोटिसङ्ख्यागणयुतैरष्टभिः सेवितोऽनिशम् || ३८ || सर्वे त्रिशूलदण्डाढ्यास्त्रिणेत्राश्चन्द्रशेखराः | कालमेघनिभाः सर्पभूषणाः कृत्तिवाससः || ३९ || इन्द्रशत्रोश्चमूं भीमां दशाक्षौहिणीसम्मिताम् | निविश्य ते निमेषेण निःशेषाञ्चक्रुरोजसा || ४० || केचिच्छूलेषु सम्प्रोताः केचिद्दण्डैर्विदारिताः | केचिन्नखैः पाटिताण्गाः केचिन्मुष्टिभिराहताः || ४१ || दधुर्दैत्याऽन्त्रमालां ते बैरवाणां गणास्तदा | एवं दृष्ट्वा प्रनष्टां स्वामिन्द्रशत्रुश्चमूं रुषा || ४२ || गदया भैरवगणं मर्दयामास सर्वतः | एवं गणानर्द्यमानान् वीक्ष्य दैत्येन संयुगे || ४३ || मन्थानाद्यपराह्वाना असिताङ्गादिभैरवाः | इन्द्रशत्रुं पर्वताभं युयुधुः सर्पवाहनम् || ४४ || प्.७६१) तान् योधयामास दैत्यः सर्वानेको रणाऽजिरे | वज्रसंहनं तस्य शूलदण्डप्रपातनैः || ४५ || अक्षतं सर्वथा यद्वद्गण्डशैलः फलैर्हतः | तं दृष्ट्वा विरुजं दैत्यं भैरवाणां भयङ्करम् || ४६ || युयुधे तेन समरे भैरवाणामधीऽऽश्वरः | युद्ध्वा चिरमुत्पतन्तं गदया हन्तुमम्बरम् || ४७ || आविध्या हृदि शूलेन भुवि तं व्यसुमाक्षिपत् | युद्ध्वा सुराऽरातिरपि कालकर्ष्णिकाऽह्व्याम् || ४८ || काकसष्थो लुलायाऽधिरुढया सुचिरंअ बली | तच्छक्तिगणनिःशेषीकृतदैत्यमहागणः || ४९ || तदङ्कुशप्रहारेण भिन्नमूर्धा ममार ह | स्वप्नेश्या युयुधे दैत्यो महाकुक्षिर्वृकाश्रयः || ५० || रथाधिरुढया सेना नाशिता शक्तिसङ्घकैः | चिरं योधयतस्तस्य महाकुक्षेर्बलीयसः || ५१ || विदार्य कुक्षिं खड्गेन नाशयद्दत्यपुङ्गवम् | मदोद्धतोऽपि बटुकभैरवेऽ सुसङ्गतः || ५२ || बटुकैः स्वसमाकारैर्दशकोटिमितैस्तथा | महाकपालदण्दाढ्यैः सर्पभूषणसंयुतैः || ५३ || पञ्चहायनकैर्मत्तैर्दिग्वस्त्रैररुणेक्षणैः | तमस्तोमनिभैश्चन्द्रचूडैर्युक्तेन सर्वतः || ५४ || दशाक्षौहिणिकायुक्तो युयोधाऽतितरां बली | बटुकानां गणाः क्रुद्धा निविश्याऽसुरवाहिनीम् || ५५ || दण्डैर्निहित्य तरसा नाशं निन्युर्यथाऽशु नः | अथ क्रुद्धं दैत्यपतिं निपतन्तं गदाधरम् || ५६ || बटुकेशो जघानोश्चैर्मूर्घ्नि दण्डेन लीलया | दण्डाऽहत्या दलन्मूर्धा वमन् रक्तं सफेनिलम् || ५७ || पतित्वाऽशु विनिश्चेष्टो ममाराऽसुरशेखरः | एवं विषङ्गः पुत्रेषु नष्टेष्वत्यन्तदुःखितः || ५८ || क्रोधमाहारयत्तिव्रं विंशत्यक्षौहिणीयुतः | निपपातैकपातेन प्रलयाऽनिलवज्जवात् || ५९ || किरिचक्रोपरि तदा ध्वनद्वादित्रनिःस्वनः | शस्त्रधारां विमुञ्चन् वै कुर्वन् सतिमिरा दिशः || ६० || ज्वलद्वह्निमहाकूटे शलभानां गणा इव | अथ जम्भिनिमुख्याभिर्नाशिता क्षणमात्रतः || ६१ || विषङ्गसैन्यं शस्त्राग्निज्वालाभिः शलभानिव | केचित्त्रिशूलस्फुटितहृदया जीवितं जहुः || ६२ || परे दण्डविकीर्णाङ्गा अन्ये परिघप्रोथिताः | अपरे सायकैश्छन्ना ततोऽन्ये मुष्टिदारिताः || ६३ || प्.७६३) ख्ड्गच्छिन्नाङ्घ्रिबाहूरुकन्धराद्या अपीतरे | केचिच्छस्त्रौघसम्पातशकलीकृतदेहकाः || ६४ || एवं विनष्टे सैन्ये स्वे विषङ्गः क्रोधमूर्च्छितः | निहत्य गद्या शक्तिसेनां भित्त्वा ह्यशेषतः || ६५ || दण्डराज्ञीरथवहं महिषञ्च मृगाधिपौ | गदयैव हि सन्ताडय रथराजं समारुहत् || ६६ || आरोहन्तं रथं वेगाद्विषङ्गं वीक्ष्य सर्वतः | शक्तिसेनासु समभूद्धाहाऽकारमहाध्वनीः || ६७ || रथर्वस्थिताः शक्तीरपि सम्मर्द्य वेगतः | चतुर्थपर्वाऽन्तरालं प्राविशत् सत्वरं बली || ६८ || दण्डराज्ञपि तं दृष्ट्वा दैत्यमायन्तमन्तिकम् | अवरुह्य युयोधोश्चैर्मुसलेन स्वपर्वतः || ६९ || तत्राऽभवन्महायुद्धं दण्डिनीदैत्यराजयोः | शस्त्रैर्विचित्रैरस्त्रैश्च सर्वलोकभयङ्करम् || ७० || ज्ञात्वाऽजेयामस्त्रशस्त्रैर्दण्डिनीं दैत्यपुङ्गवः | मायां प्रादुश्चाकारोच्चैः सर्वलोकभयावहम् || ७१ || अन्धकारं पांशुवर्षमश्मवर्षं महारवम् | अग्निवर्षं रक्ताऽमेध्यादिवर्षणम् || ७२ || प्.७६४) मुण्डवृष्टिं महाभीमामथ दैत्यमहाचमूम् | सहस्रपादबाह्वास्यमात्मानं शतधाऽपि च || ७३ || तादृष्या मायया तस्य भीतास्ताः सर्वशक्त्यः | भीताः शक्तिः समालोक्य दण्डिनी शरवृष्टिभिः || ७४ || व्यनाशयन्मायिकांस्तानथ भूयोऽपि दैत्यराट् | मायां ससर्ज महतीं ददृशुः सर्वशक्त्यः || ७५ || चक्रजाररथं तत्र समायान्तं द्रुतं तथा | स्वयं वाहान्निहत्याऽशु रथं छित्त्वाऽप्यनेकधा || ७६ || जवेन देवीं ललितां केशपाशे परामृशत् | चुक्रुशुर्मायया तस्य हाहेत्युश्चैस्तु शक्त्यः || ७७ || तावच्छ्रीभैरवो देवीं बभाषे रथनायकः | अलं दैत्येषु ते देवि लीलया भीतिदानया || ७८ || पश्य शक्तीर्भयाऽक्रान्ताः शोचन्तीः सर्वतः शिवे | निर्मायाऽस्त्रेण दैतेयं विमायं नाशय द्रुतम् || ७९ || सन्ध्या समभ्येति पुरस्तस्यां माया दुरत्यया | रथनेतुर्वचः श्रुत्वा मत्वा युक्तञ्च दण्डिनी || ८० || निर्मायाऽस्त्रं समुत्सृज्य मायां तस्य व्यनाशयत् | वायुनेव च नीहारो नष्टा माया च सर्वतः || ८१ || तदा गदाधरो भूयो ददृशे सम्मुखागतम् | दृष्ट्वैव तं दण्डिनी साक्रुद्धा खड्गेन तच्छिरः || ८२ || प्.७६५) चकर्त निमिषार्धेन वज्रेण त्वाष्ट्रकं यथा | एवं तस्मिन् विनिहते विषङ्गे भीमविक्रमे || ८३ || देवदुन्दुभयो नेदुरपतत्पुष्पवर्षणम् | दिशो वितिमिरा जाताः सुप्रभश्च दिवाकरः || ८४ || इति श्रीमदितिहासोत्तमे त्रिपुरारहस्ये माहात्म्यखण्डे ललितामाहात्म्ये विषङ्गवधवर्णनं नाम पञ्चसप्ततितमोऽध्यायः || ६२५० || प्.७६६) षट्सप्ततितमोऽध्यायः भण्डद्रारा स्वेष्टप्राप्त्या सण्तोषभाववर्णनम् एवं विषङ्गे निहते जयशब्दो महानभूत् | मुदिताः शक्त्यः सर्वास्तुष्टुवुर्दण्डनायिकाम् ||१|| भ्रातरौ सपरीवारौ श्रुत्वा युधि निपातितौ | शोककातरतां प्राप मोहेनेषन्महासुरः || २ || विमृश्याऽथ शुचं हित्वा स्वमात्मानं हसन्निव | अहो मां किं वदामीह शोचन्तं मुक्तभावतः || ३ || यदर्थितं जगन्मात्रा चिरं तन्मे प्रपूरितम् | एवं सा पूरयेच्छेषमाशु नास्त्यत्र संशयः || ४ || तद्व्रजामि शेषगणैः श्रिमातुर्दृष्टिगोचरम् | विलम्बेन ममाऽत्राऽलं श्रेयो विघ्नैर्हि सङ्कुलम् || ५ || अहो लोके सर्वथैव एकान्तेनाऽभियाचितम् | दिशत्येव पराम्बा सा भावरूपा हि कामधुक् || ६ || एवं स्वान्तः समासीनां वाञ्छाऽधिकफलप्रदाम् | परमानन्दजननीं हित्वा दैवहतो जनः || ७ || प्.७६७) दुःखसाराऽल्पविषयप्रेप्सया भीमरूपया | नीयते व्यर्थमनिशं मृत्योर्भक्ष्योपसेकताम् || ८ || धन्योऽहं कृतकृत्योऽहं यच्छ्रीदेवीपदाम्बुजम् | समीक्षन् कश्मलममुं विमुच्य हतदेहकम् || ९ || विशोकं परमं स्थानं समुपैम्यविशङ्कितम् | इति सञ्चिन्त्य दैत्येन्द्रः स्वान्तरस्याऽभिगुप्तये || १० || भृत्वाऽत्यन्तं क्रुद्ध इव संयोज्याऽसुरवाहिनीम् | निऽह्शेषाम् तरसा युक्तस्तया युद्धाय दंशितः || ११ || रथमारुह्य साहस्रसिंहवाहं महोन्नतम् | श्वेतमुक्ताऽतपत्रेण वीज्यमानश्च चामरैः || १२ || युक्तः सेनेश्वरैः पञ्चाशत्सङ्ख्याकैर्बलोद्धतैः | नदद्वादित्रविपुलैरास्फोटाऽरवबृंहितैः || १३ || रथनेमिनदीघोषैर्ह्नेषितप्रायमांसलैः | रथवाहनसिहानां गर्त्जितैः पूरयन् जगत् || १४ || निर्ययौ जैत्रयात्रार्थं चालयन्निव मिएदिनीम् | अथाऽपऽऽयच्छक्तिसेना भण्डसेनामहार्णवम् || १५ || अपारमप्रधृष्यञ्च भीमं गम्भीरनिःस्वनम् | तत्र मन्त्रमहाराज्ञीं भण्डं युद्धाय सङ्गतम् || १६ || प्.७६८) आलक्षय श्रीमहाराज्ञीं नत्वा वृतं व्यजिज्ञपत् | देवि भण्डः स्वयं प्राप्तो योद्धुमत्यन्तसंयुतः || १७ || सर्वसेनासमायुक्तः सर्वसेनाधिपैरपि | जैत्रयात्रा भवत्याश्च युक्ताऽत्र यदि मन्यसे || १८ || विज्ञापितैवं मन्त्रिण्या युक्तं तश्चाप्यमंसत | अथाऽभवच्छक्तिसेना सन्नद्धा निमिषाऽर्द्धतः || १९ || अश्वारुढाऽश्वसेनाभिः सेनामुखमधिष्ठिताः | गजाऽनीकस्वामिनी सा तत्पश्चात् सम्पदीश्वरी || २० || ततो बाला रथाऽरुढा कुमारीगणसंवृताः | तदनु प्रचचालाऽजा चक्रराजमहारथः || २१ || नमपर्वसमायुक्तो ह्यणिमाद्याभिरावृतः | मुक्ताच्छत्रमहोन्नम्रः पद्मकेतुध्वजोच्छ्रयः || २२ || नवरत्नसमाकीर्ण इन्द्रियात्माऽश्वयोजितः | वाहयन्ती तं रथेन्द्रं महात्रिपुरसुन्दरी || २३ || चक्रेश्वरी विवेकात्मतोदहस्ता व्यराजतः | चक्रराजशताऽङ्गस्य वामदक्षिणभागयोः || २४ || किरिगेयचक्ररथौ व्यराजेतां महोन्नतौ | दण्डिनीमन्त्रिणीभ्यां तौ दंशिताभ्यामधिष्ठितौ || २५ || प्.७६९) स्वस्वसेनासमायुक्तौ युद्धसम्भारसम्भृतौ | तिरस्कृतिश्चक्रराजरथपृष्ठं समाश्रिता || २६ || तिमिरौघनिभाऽत्युश्चतुरङ्गममधिष्ठिता | उत्खातवेल्लदत्यन्तकरालकरवालिनी || २७ || स्वसमाकारशक्त्यौघमण्डलीकृतमण्डला | एवं श्रीललितादेवी सेनया सह निर्ययौ || २८ || युद्धाय कृतसन्नाहा संस्तुता विबुधेश्वरैः | सेनयोरुभयोरश्वरथेभपदचारिणाम् || ३० || पादवेगाभिसङ्घातप्रांशुपांशुसुसंहतिः | जनयद्गाढतिमिरं दार्शनैशमिव मही वा सैन्यमर्दिता || ३२ || क्लेशात् प्राप्ताऽतिकृशतां भीत्या नाथमुपेयुषी | तथा रजोमहासंघवेगोद्र्ध्वगतिहेतुतः || ३३ || भुम्यभावादधो वेगात् सेना यान्तीव लक्ष्यते | इत्यादि तर्कमापन्ना वैमानिकगणास्तदा || ३४ || प्.७७०) अथाऽभवन्महद्युद्धं सेनायोः शक्तिदैत्ययौः | नदत्सु युद्धवाद्येषु युक्तेष्वास्फोटगर्जनैः || ३५ || शरशक्त्यृष्टिशूलाऽसिपट्टासिप्रासतोमरैः | गदाचक्रभिन्दिपालपरिघाङ्कुशयष्टिभिः || ६६ || निरन्तरमभूद्व्याप्त्या प्रयुक्तैः सन्ययुग्मकम् | हताः स्मः सर्वथाऽस्माकं शोकः पुत्रादिनाशतः || ३७ || प्राप्तः किं जीवितेन स्याच्छत्रुभिर्निर्जिताऽत्मनाम् | विक्रम्य युधि जित्वेमाः शक्तिः प्राप्स्याम् आशिषम् || ३८ || अन्वथा निहता युद्धे वसामो नन्दने वने | इति निश्चित्य ते दैत्त्या युयुधुर्बलवत्तरम् || ३९ || शक्त्योऽप्येष दैत्यानामवधिः सर्वथा त्विमान् | हत्वा जयं परमकं प्राप्स्यामोऽद्यैव सर्वथा || ४० || इति मत्वाऽतिवेगेन युयुधुर्वीर्यवत्तराः | एवं नियुध्यमानेषु शक्तिभिर्दितिजेष्वथ || ४१ || परस्परं शस्त्रहताः पेतुर्विगतजीवनाः | देचिज्जालीकृताऽङ्गास्तु शरजालैर्गताऽसवः || ४२ || युद्धव्रतस्येव सिद्ध्या सहस्राक्षात्मतां ययुः | केषाञ्चित् खड्गघातेन शिरश्चटिति चोत्पतत् || ४३ || प्. ७७१) राहोः शिर इवाऽकाशे व्यात्ताऽस्यं ग्रसितुं रवेः | पेषिता मुद्गराघातैश्चक्रर्मध्ये विदारिता ः || ४४ || प्रोता दीर्घेषु भल्लेषु सङ्घाशस्तत्र केचन | शरैः शिरांसि कृत्तानि गगने यान्ति वेगतः || ४५ || प्रवृद्धकाकपक्षाणि चलत्पक्षिगणा इव | विकीर्णाङ्गैश्चिता युद्धे भूमिर्विरुरुचे तदा || ४६ || पटे विलिखितानीव प्रतिमाङ्गान्युपक्रमे | असृग्वहा ववौ तत्र चित्रकारप्रमादतः || ४७ || स्खलितो ह्यालक्तक इव क्वचिच्छोषं समागता | चित्रकारेण झटिति प्रमृष्ट इव भाषते || ४८ || शरविद्धा गतप्राणास्तस्थुः केचित् क्वचित् क्वचित् | समग्रलिखितानीव चित्रा.इ ददृशुर्ननु || ४९ || एवं मुहूर्तमात्रेण भण्डदैत्यमहाचमूः | ननाशाऽसद्य शक्तीनां सेनाग्निं शलभो यथा || ५० || अथ सेनाऽधिपास्तस्य क्रोधारुणितलोचनाः | शक्तिसेनां शस्त्रवर्षैरर्द्दयामासुरुश्चकैः || ५१ || दृष्ट्वा सेनाधिपैः सेनामर्दितामतिविह्वलाम् | मन्त्रिणी दण्डिनी चाऽश्वारुढा सम्पदधीश्वरी || ५२ || प्.७७२) परिवारशक्तियुक्ता युयुधुर्मन्युदीपिताः | ता युध्ध्वा सुचिरं दैत्यैः सिनाधीशैर्महाबलैः || ५३ || प्रसह्य नाशयामासुः सर्वान् सेनापतीन् हि ताः | वक्राक्षं वामनं तालं दीर्घनसं (घोणं?) सुबाहुकम् || ५४ || विद्युज्जिह्वञ्च समरे नाशयत्तुरगाश्रया | सम्पत्करी तालजङ्घं कुटिलाक्षं रणोद्धतम् || ५५ || निशठं शम्बरं क्रूरं चकार व्यसुमाहवे | जम्भनी क्रूरवदनं स्तम्भिनी सुचिकामुखम् || ५६ || अन्धिनी कण्ठककरं मृगवक्त्रञ्च मोहिनी | कालकेयं भैरवोऽपि व्याघ्रास्यं कालकर्षिणी || ५७ || स्वप्नेशी मुण्डमूर्धानं वटुको भण्डाभाषणम् | उम्लुकं करभाऽस्यञ्च महाकुक्षिं शिवारवम् || ५८ || शोणिताऽक्षम् तालकेतुं तालग्रवं महाहनुम् | गृघ्रवाहं काकमुखं दण्डिनी नाशयद्युधि || ५९ || शुकश्यामा शारिकाऽख्या सङ्गीता लघुपूर्विका | साहित्यशयामला चेति निकुम्भं कुम्भमस्तकम् || ६० || चक्राक्षं दीर्घदंष्ट्रञ्च नाशयामासुरुल्बणकम् | कटङ्कटं करञ्जाऽक्षं मुण्डं चण्डं कृकाऽननम् || ६१ || सालसीरं द्विशृङ्गञ्च शुनकं सूर्प्कर्णकम् | वक्रकुक्षिं वाममुखं कालकं कोटरं विटम् || ६२ || P.७७३) मन्त्रिणी नाशयामास बलादाक्रम्य दानवान् | एवं निःशेषतः सेनासेनपेषु हतेष्वथ || ६३ || भण्डो हृष्टमनाः प्राह सारथिं रथ आस्थितः | रथं प्रापय मे शीघ्रं सारथे शक्तिवाहिनीम् || ६४ || पश्याऽद्य मम वीर्यं त्वं विचित्रं रोमहर्षणम् | श्रुत्वा वाक्यं दैत्यपतेर्वाहयन् रथमाशु सः || ६५ || सन्दिहानो दैत्यपतिं पप्रच्छ प्रणतस्तदा | दैत्येश्वर ! त्वयाऽज्ञ्प्तः किञ्चित्प्रष्टुं समीहितम् || ६६ || तद्देहि प्रणताय त्वं सन्दिहानोऽस्मि सर्वथा | इति पृष्टेन चाज्ञप्तो प्राह दैत्येन सारथिः || ६७ || दैत्येश्वरैतां शक्तीनां सेनां मन्येऽपराजयाम् | विशुक्राद्या यया युद्धे हता लीलाविलासतः || ६८ || अथ त्वामभिपश्यामि हतभ्रातृसुतादिकम् | हृष्टाऽन्तरम् शोकलेशाऽस्पृष्टं प्रव्रजितं यथा || ६९ || बालया सह ते युद्धे पूर्वं समभिलक्षिता | भक्तिर्देव्यामतितरां तन्मे ब्रूहि यथातथम् || ७० || प्.७७४) एवं पराभवं दुःखगेतावतिभयङ्करे | न शोकं नाऽपि भीतिं वा लक्षये तव लेशतः || ७१ || इति भूयः सुपृच्छन्तं दैत्यं तं चिरसेविनम् | प्राह भण्डः स्मयन् किञ्चित्च्छृणु दैत्येत्युपाक्रमन् || ७२ || एषा या ललिता देवी सा परात्परमा शिवा | एतया निहतो युद्धे प्राप्स्याम्यत्युत्तमम् फलम् || ७३ || तल्लोकं शोकरहितमभयं सर्वतः सुखम् | एमं लोकं सशोकं वै सभयं दुःखमात्रकम् || ७४ || मायया मोहितो जन्तुर्मन्यतेऽत्युत्तमं मुधा | तत्राऽप्यासुरलोको वै राजसोऽतिभयङ्करः || ७५ || इमं वरं यो मनुते समुग्धपशुकः स्मृतः | अहं श्रीपद्मसंस्थानो दूतो माणिक्यशेखरः || ७६ || स्वकर्मपाकवशत एतां प्राप्तोऽवरां दशाम् | तथाऽपि कृपया देव्या मां स्मृतिर्नो जहाति वै || ७७ || एषा सर्वेश्वरी देवी ब्रह्मादिजननी परा | एतया निहता युद्धे भ्रातरो मे सुता अपि || ७८ || शस्त्राग्निपावितास्तस्या लोकं प्राप्ताः परात्परम् | मया सह त्वमप्याशु तल्लोकं प्राप्य भ्रातृभिः || ७९ || प्.७७५ ) पुत्रैः समेष्यसि पुनस्ततो यास्यमृताङ्गतिम् | इति श्रुत्वा भण्डवचो विष्मितोऽभूत् ससारथिः || ८० || संश्लाध्य दैत्यराजं तं जहौ शोकं स्वहृद्गतम् | दृष्ट्वा श्रीललितामग्रे नमश्चक्रे सुभक्तितः || ८१ || इति श्रीत्रिपुरारहस्ये माहात्म्यखण्डे ललितामाहात्म्ये ललिताभण्डसमागमे दैत्यराजभण्डद्वारा श्रीदेवीभक्तिरहस्यप्रकटनं नामषट्सप्ततितमोऽध्यायः || ६३३१ || प्.७७६) सप्तसप्ततितमोऽध्यायः भण्डासुरवधवर्णनम् अथ युद्धे सम्पदीशीमश्वारुढाङ्~च दण्डिनीम् | मन्त्रिणीञ्च समासाद्य युद्धकौशलमुल्वणम् || १ || प्रदर्श्य ताः सुसन्तोष्य क्रमात् प्रोवाच सङ्गरे | देव्यो वो युद्धचातुर्यविक्रमैस्तोषितोऽस्म्यहम् || २ || योद्धुमुत्कण्ठितं चित्तं स्वामिन्या च इमं क्षणम् यूयं समीक्षकाः सर्वास्तया मे युद्धकर्मणि || ३ || ममैष लज्जितो बाहुर्युद्धे चेटीगणैः सह | तस्या पदं विनिर्जित्य युद्धे वोऽभिजयम्यनु || ४ || तन्मे प्रयाचतोऽस्त्वेवं इति तस्य वचस्तदा | निशम्य देव्यो मत्वा चाऽजेयं स्वीयपराक्रमैः || ५ || उचितञ्च महादेव्या दैत्येशस्य पराजयम् | ददुर्मार्गं नियुद्धाय महाराज्ञ्याऽसुरस्य विअ || ६ || अथ श्रीचक्रराजाख्यं रथमासाद्य सङ्गरे | समारभद्भण्डदैत्यो युद्धमत्यद्भूतं तदा || ७ || प्.७७७) तत्र शक्तिमहासैन्यम भूद्युद्धसमीक्षकम् वैमानिकैर्देवगणैः सिद्धैरॄषिगणैस्तथा || ८ || प्रेक्षणायाऽगतैः सर्वं व्याप्तमासीन्नभस्तदा | भण्ड आसाद्य ललितां पुरो दृष्ट्वाऽतिहर्षितः || ९ || मनसाऽभिनमश्चक्रे भवत्य तदनुसत्वरम् | विव्याध पञ्चभिर्बाणैस्तदद्भुतमिवाऽभवत् || १० || तत्र द्वयं सुकुसुमनिचयं पादयोः पतत् | तृतीयं कण्ठदेशेऽभून्मालिका फुल्लपाङ्कजी || ११ || ततः परं मूर्ध्न्यपतत्पुष्.पवर्षणरूपतः | अन्त्यं रत्नमयं मूर्घ्नि भूषणं मुकुटे स्थितम् || १२ || एवं तद्विहितां पूजां दृष्ट्वा देव्यतिहर्षिता | देवादयोऽपि तद्दृष्ट्वा शङ्कितास्तत्र सर्वथा || १३ || नारदाद्भण्डदैत्यस्य श्रुत्वा भक्ताऽग्रगण्यताम् | देवेशोऽतितरां तत्र विष्मयं समपद्यत || १४ || अथाऽभवन्महद्युद्धं ललिताभण्डदैत्ययोः | चित्रशस्त्रास्त्रनिचयव्याप्ताऽकाशमहोदरम् || १५ || भण्डदैत्योऽपि वीर्येण निजेन परमेश्वरीम् | सन्तोषयितुमुद्युक्तो युयोध परमाऽस्त्रवित् || १६ || प्.७७८) प्रणम्य मनसा देवीं सम्मुखं समुपागतम् | गूढाऽपदानवचनैरधिक्षेप्तुं प्रचक्रमे || १७ || ललिते शृणु मे वाक्यं त्वं नटीव विभासि मे | मृषाऽचाररता नित्यं स्त्रैणं पुरुषमास्रिता || १८ || स्त्रीरूपधारिणीव त्वं स्त्रीस्वभावविवर्जिता | न स्त्रियं मन्ये न पुमांसमपि क्वचित् || १९ || लोकविद्विष्टचारित्रा लज्जाशङ्कादिवर्जिता | न त्वं सत्कुलसम्भूता कुलहीनेव भासि मे || २० || लोकनिन्दितमार्गस्थैः पुरुषैरविवेकिभिः | अपि त्वमभिमृष्टाऽसि सर्वथेति विभासि मे || २१ || अहो मे प्राक्कृतं ह्ये वं यत्त्वामेवंविधामपि | अनर्हां दर्शने नूनं पश्यामि पुरतः स्थिताम् || २२ || शृणु स्त्येन वक्ष्यामि यद्यथाऽस्ति तथाऽस्तु तत् | मद्दृष्टिगोचरीभूता सम्प्रति त्वं कथञ्चन || २३ || मृषाऽचारञ्च मायाञ्च त्यक्त्वा मयि स्थिरीभव | आसादिता मया सद्यः पृष्ठं न प्रदर्शय || २४ || नाऽपि मां हि समक्षस्थं वञ्चयित्वा कथञ्चन | शक्यं ह्यदृश्यतां यातुं तस्मात्त्वं सुस्थिरीभव || २५ || प्.७७९) विदित्वा मदभिप्रायसेकान्तं सुव्यवस्थितम् | दृष्ट्वा मदीयवीर्यञ्च संसाधय निजं व्रतम् || २६ || शुत्वा निगूढवाक्यं तत् प्रसन्ना ललिताऽम्बिका | शृणु दैत्येश्वर वचो यदुक्तं ते तथैव तत् || २७ || साधयामि तवाऽभीष्टं त्याजयामि मदादिकम् | न हि मे दृष्टिविषयीभूय भूयो भवेत् क्वचित् || २८ || युद्धश्रद्धादिसंशेषः तत् स्थिरीभव सर्वथा | इत्युक्त्वा शरवर्षेण ववर्ष दैत्यभूपतिम् || २९ || प्रतिवर्षं ववर्षाऽथ सोऽपि दैत्योऽतिवेगतः | शस्त्रप्रयोगविज्ञानसंश्लाहनपुरःसरम् || ३० || अभूत्तयोर्महद्युद्धं तुमुलम् लोमहर्षणम् | एवं नियुध्य सुचिरं दैत्योऽस्त्राणि ससर्ज ह || ३१ || आग्नेयं वारुणं सौम्यं कौवेरं पार्वतं तथा | पार्जन्यमैन्द्रं वायव्यंब्राह्मं कौमारमेव च || ३२ || अस्त्राण्येवंविधान्याशु ललिता परमेश्वरी | प्रत्यस्त्रैर्नाशयामास तुहिनं दिनकृद्यथा || ३३ || तथा नूतनसृष्टानि प्रत्यस्त्रैर्नाशयत् क्षणात् | ससर्जाऽथ भण्डदैत्यो मधुं कैटभमेव च || ३४ || प्.७८०) सोमकञ्च हिरण्याक्षं हिरण्यकशिपुं तथा | बलिमर्जुननामानं हैहयं रावणं तथा || ३५ || कुम्भकर्णं मुरं ग्राहं कंसं द्विविदमेव च | एवमादीन् विष्णुशत्रून् सर्वान् लोकप्रणाशनान् || ३६ || ते सृष्टा भण्डदैत्येन तत्स्वभावपराक्रमाः | उद्युक्ता लोकनाशार्थं तमोवृत्तिपरायणाः || ३७ || ललितेश्याऽपि नाशाय तेषां करनखात् पृथक् | नारायणाऽवताराणां ससर्ज दशक्ऽम् तदा || ३८ || नाशितास्ते क्षणेनैव सृष्टैस्तैर्विष्णुमूर्तिभिः | अथ भूयोऽन्धकं मृत्यूं कामं त्रिपुरमेव च || ३९ || महादेवरिपूनेवं निर्ममेऽसुरशेखरः | तान् दृष्ट्वा श्रीपरा देवी फालनेत्राद्विसर्जयत् || ४० || महादेवं देवदेवं तेन ते नाशमाययुः | अथ दैत्यमहासेनामसङ्ख्यातां भयावहाम् || ४१ || उद्भावयन्निमेषेण शक्तिभिर्या पुरा हता | विषङ्गश्च विशुक्रश्च चतुर्बाहुमुखाः सुताः || ४२ || करङ्ककुटिलाक्षाद्या नष्टां सृष्टिमजो यथा | अथ ते युयुधुः शक्तिसेनाभिरतिमषिताः || ४३ || तद्दृष्ट्वा विष्मिताः सर्वे भण्डसामर्थ्यमद्भुतम् | भीताश्चाऽथ किं भवेदै इति देवाश्च शक्त्यः || ४४ || प्.७८१) तदाऽभवन्महद्युद्धं भूयश्चोपक्रमं यथा | हतं हतं तत्र दैत्यो भूयो भूयः ससर्ज ह || ४५ || तद्दृष्त्वाऽत्यन्तवित्रस्ताः शक्त्यो देवता अपि | तदा श्रीललितादेवीं तुष्टुवुर्विधिमुख्यकाः || ४६ || मन्त्रिणी च महादेवीमुपब्रज्य प्रणम्य च | कृताञ्जलिर्मधुरया प्रार्थयामास वै गिरा || ४७ || देवि दैत्यस्य विभवं मन्येऽहं सुभयावहम् | पश्य शक्तिगणं सर्वं शुष्यद्वक्त्रं समाकुलम् || ४८ || युध्यन्तीनामविश्रान्त्या चाऽत्यगात् प्रहरद्वयम् | हतं हतं शक्तिगणैर्भूयः सृजति वैक्षणात् || ४९ || चतुर्बाहुमुखास्तस्य सुता युधि निपातिताः | कुमार्या सप्तकृत्वस्ते भूयो युध्यन्ति सम्प्रति || ५० || विषङ्गो दशधा तद्वद्विशुक्रो नवधाऽपि च | हतः पुनः सृष्ट एव भण्डदैत्येन युध्यति || ५१ || करङ्ककुटिलाक्षाद्या अप्येवं बहुधा हताः | युध्यन्त्येव पुनः सृष्टा नेतः साध्यमिदं हि नः || ५२ || भीताः श्रान्ताः सर्वतश्च पश्य शक्तीर्हतप्रभाः | रक्ष सर्वं लोकमिमं नोपेक्षां कर्तुमर्हसि || ५३ || प्.७८२) इति सम्प्रार्थिता देवी स्मयित्वेष्दुवाच ताम् | मा भैः पश्य क्षणेणैव नाशयाम्यसुरेश्वरम् || ५४ || इत्युक्त्वा कार्मुके शीघ्रं शरमेकं सुयोजयत् | तत्राऽवाह्य पाशुपतमस्त्रं लोकभयङ्करम् || ५५ || मुमोचाऽसुरसेनायामस्त्रं तन्निमिषार्धतः | भस्मीचकार दैत्यानां सेनां सागरसम्मिताम् || ५६ || भूयः शरं कार्मुके स्वे निवेशयदतिप्रभम् | तदा दिशोऽभितो ज्वालामालालीढाभवन् क्षणात् || ५७ || चकम्पे भूः भिताः सागरा भीः समाविशत् | चराचरं जगज्जालं पेतुरुल्काः सहस्रशः || ५८ || भण्डासुरं मृगाद्याश्चाऽपसव्यमभिसंययुः | तावद्दृष्ट्वा विनष्टां स्वां सेनां सागरसन्निभाम् || ५९ || दध्यौ श्रीललितापादपङ्कजं निश्चलाऽन्तरः | ध्येयमात्रात्मतां यावत् प्राप्तो भण्डमहासुरः || ६० || तावच्छ्रीललितादेवी कामेशाऽस्त्रेण योजितम् | शरं मुमोच भण्डाय स शरोऽतिभयङ्करः || ६१ || प्रलयानलवत् ज्वालां मुञ्चन् विष्वङ्महाप्रभः | चराचरं जगज्जालं दहन्निव निमेषतः || ६२ || प्.७८३) मुष्णंश्चक्षूंषि सर्वेषां तृणं दावानलो यथा | भण्डासुरञ्च सरथं नगरं तस्य शून्यकम् || ६३ || सस्त्रीस्थविरबालञ्च सस्थानप्राणिमण्डलम् | भस्मशेषीकरोत्तत्र तदद्भुतमिवाऽभवत् || ६४ || ब्रह्माविष्णुमुखास्तत्र भण्डं वा तस्य वाहिनीम् | नगरम् वा प्रहतस्य दैत्यार्भकमपि क्वचित् || ६५ || अदृष्ट्वाअ विष्मयं प्राप्ता जयशब्दमवाऽसृजुः | अभिजघ्नुः शक्तिगणा विआदित्राणि सहस्रशः || ६६ || विनेदुर्देववाद्यानि जगुर्गन्धर्वनायकाः | लास्यं चक्रुर्देववारा उर्वश्याद्याः सुहर्षिताः || ६७ || स्तोत्राणि पेठुऋर्षयो सिद्धा जेपुः परां शिवाम् | दध्युर्मुनिगणा रूपं प्रणेमुरितरे जनाः || ६८ || ववृषुः पुष्.पनिकरान् प्रफुल्लानतिसौरभान् | बलाहकाः सौम्यरूपा गर्जन्तोऽत्यन्तमन्थरम् || ६९ || सुगन्धतोयबिन्दूंश्च यक्षकर्द्दममिश्रितान् | मारुताः सौगन्ध्ययुतो ववुरानन्दनस्पृशः || ७० || दिवानाथः सुप्रभोऽभून्नीयतः सागरोऽपि च | सन्मनांसीव तोयानि समासन् सरिदादिषु || ७१ || प्.७८४) अभूज्जगत् पुनः सृष्टं प्रलयान्त इवोल्लसत् | निराकुलमसङ्कीर्णं तदा भण्डाऽसुरे हते || ७२ || एवं दैत्यं हतं दृष्ट्वा भण्डाख्यं लोककण्टकम् | देवा महर्षयः सिद्धाः सर्वे देवीमुपाययुः || ७३ || इति श्रीमदितिहासोत्तमे त्रिपुरारहस्ये माहात्म्यखण्डे श्रीललिताचरित्रे भण्डासुरवधवर्णनं नाम सप्तसप्ततितमोऽध्यायः || ६४०४ || प्.७८५) अस्टसप्ततितमोऽध्यायः श्रीललितास्तुतिपूर्वकं मेरुशृङ्गे प्रतिश्रीचक्रोपरि तदभिषेचनवर्णनम् उपेत्य देवप्रमुखाः सर्वे तां ललितां पराम् | हर्षनिर्भरितस्वान्तास्तुष्टुवुर्विविधैः स्तवः || १ || श्री ललिता स्तुतिः जय जय ललिताऽम्ब ! त्वत्पदाऽम्भोजसेवा फलमिह भजतां किं किन्न दद्यादभीष्टम् | विबुधविटपिमुख्यान् कामदान् स्वस्वभावानपि वितरति भूयः संश्रितेभ्योऽतिशीघ्रम् || २ || वयमिह विपदार्त्ता भण्डदैत्यप्रतापाऽनलजटिलकरालज्वालया दग्धपक्षाः | अपरिमितभयाब्धौ यन्निमग्नाः समेता झटिति ननु तयैव प्रोद्धता व्योममार्गाः || ३ || प्.७८६) प्रणतजननितान्तस्वान्तसन्तापहन्त्री श्रितजनदुरिताऽलिप्रौडमायानियन्त्री | स्थिरचरनिखिलोद्यत्प्राणिनां जीवतन्त्री तव पदनलिनीयं प्रैधते लोकयन्त्री || ४ || तव जननि विलासः सर्वलोकाऽवभासः कुत इह तव भूयाद्दैत्ययुद्धे प्रयासः | भवतु सततमस्मन्मानसे नीरजस्के विशदविकचवृत्तौ वासिते वासनाभिः || ५ || (ननु विदितमिदं यद् देहभाजां त्वमेव शरणमभिमतानां श्रेयसां शुद्धहेतुः ) चिरजडमिलितानां यो विवेकैकहेतुर्भवति चरणहंसस्तावको ब्रह्मवाहः || ६ || इति स्तुत्वा दण्डवत्ते प्रणता विधिमुख्यकाः | भूयो भूयोऽपि विविधैः स्तवैस्तुष्टुवुरम्बिकाम् || ७ || तावद्ब्रह्माण्डकोटिभ्यो ब्रह्माद्याः कारणेश्वराः | आजग्मुर्भारतीमुख्यशक्तियुक्ता घटोद्भव ! || ८ || ते पाणिसम्पुटोत्तंसाः प्रणता भक्तिनिर्भराः | समीडललितामीड्यां प्राहुबर्द्धकराऽम्बुजाः || ९ || प्.७८७) देवेशि ! भण्डदैत्यस्थ वधादद्य सुरक्षितम् | ब्रह्माण्डानां शतं पञ्च चैषां स ह्यधिपोऽभवत् || १० || प्रोक्तेष्वण्डेषु शक्राद्या बद्धाः केचित् पलायिताः | लोकाऽधिपत्यं सर्वत्र दैत्यैरेव चकार सः || ११ || प्रवर्तिता दैत्यवेदा दैत्ययज्ञाश्च सर्वतः | न क्वचिद्दैवयज्ञो वा ब्रह्मयज्ञोऽपि शङ्करि ! || १२ || प्रवृत्तोऽभूद्ब्राह्मणादुअ भण्डे राज्यं प्रशासति | तदद्य निहते दैत्ये त्वया युधि महेश्वरि || १३ || पलायिता दैत्यगणा लोकपालाश्च संस्थिताः | स्वस्वाऽधिकारकृत्येषु जातं सर्वं निराकुलम् || १४ || एवं वदत्सु देवेषु तत्राऽगत्य च विश्वकृत् | देवीं विधिमुखांश्चाऽपि प्रणम्य रचिताऽञ्जलिः || १५ || पितामहाऽहमाज्ञप्तस्त्वया यन्मेरुमूर्धनि | देव्याः श्रीपुरनिर्माणे तत्तथा रचितं मया || १६ || द्रष्टुमर्हसि तच्छाघ्रम् देव्य देवैश्च संयुतः | एवं त्वष्ट्रा प्रार्थितोऽजो देव्यै वृत्तं व्यजिज्ञपत् || १७ || प्रार्थिता देवदेवेशैर्ललिता परमेश्वरी | शक्तिसेना देवगणैर्युता तत्र ययौ द्रुतम् || १८ || ददृशुस्तत्पुरं चारुतरं त्वष्टृविनिर्मितम् | महाश्रीपुरराजस्य प्रतिबिम्बविवार्पितम् || १९ || प्.७८८) विस्मिताः सर्व एवैते देवाः शक्तिगणास्तथा | अथ तत्र निवसने देवाः श्रीललिताम्बिकाम् || २० || प्रार्थयामासुरत्यन्तं प्रणताः सर्वभावतः | तत्सम्मतिं समादाय बुद्धीशप्रमुखास्तदा || २१ || राज्याऽभिषेकसामग्रीं कल्पयामासुरुत्तमाम् | प्रकल्प्य सर्बसम्भारान् शुभलग्नमुहूर्तके || २२ || ब्रह्मा मुनिगणोपेत आभिषेचनिकं विधिम् | चकाराऽगमदृष्टेन मार्गेणोत्तमकल्पतः || २३ || वृन्दारका देवगणा मारुतो वसवोऽगनय | गन्ध्र्वा देवदूताश्च दिक्पाला यक्षगुह्यकाः || २४ || यातुधानाः किंपुरुषाः किन्नरा उरगा अपि | विद्याघ्राः सिद्धमुनय ऋषयः पितरोऽसुराः || २५ || ब्रह्मरुद्रहरीणाञ्च कोटयोऽण्डान्तरस्थिताः | सदाशिवेश्वरौ चाऽपि श्रीकण्ठोऽनन्त एव च || २६ || सङ्गतास्तत्र ललितामहाराज्याऽभिषेचने | परिचेरुस्तत्र देवीं ललिताऽम्बां समन्ततः || २७ || ब्रह्माणीकमलागौरीकोटयो भक्तिभावनाः | उपचारैः | पृथगभूतैः पूजयामासुरादरात् || २८ || एवं कृत स्वस्त्ययनां मङ्गलाचारसंश्रयाम् | नदत्सु शुभवाद्येषु मूर्च्छयत्सु सुमूर्च्छानाम् || २९ || अवरोहाऽरोहगतिलयश्रुतिसमीरणैः | गन्धर्वेषु प्रनृत्यत्सु देववेश्यासु सर्वतः || ३० || प्.७८९) जपत्सु मुनिवृन्देषु ऋषिषु प्रपठत्सु च | स्तुवत्सु विविधेषूच्चैः प्रेक्षत्सु प्राणिषूद्यमैः || ३१ || विधिरारोहयद्देवीं महासिंहासने शुभे | अथ मन्त्रप्रपूताऽद्भिर्नवरत्नविचित्रितैः || ३२ || कलशैः सम्भृतैश्चाऽपि नदीसागरसम्भवैः | अभ्यषिञ्चल्लोकधाता वशिष्ठप्रमुधैर्वृतः || ३३ || अभिषिच्य महादेवीमनर्ध्याऽभरणोज्ज्वलाम् | विचित्रदिव्यवसनां श्रीचक्राऽधिविराजिताम् || ३४ || पञ्चब्रह्माकारमञ्चशोभिनीं ललिताम्बिकाम् | पूजयामासुरमरा विविधैः सुसमर्हणैः || ३५ || विधिविष्णुमहेशाद्याः पृथग्भक्तिसमाहिताः | स्तुत्वा विचित्रस्तवनैः प्रणेमुर्भुवि दण्डवत् || ३६ || एवं श्रीललिता देवी तत्र श्रीपुरशेखरे | सिंहासनेऽभिषिक्ता सा महाश्रीपुरवत्तदा || ३७ || मन्त्रिणीप्रमुखानां स्वस्थानानि प्रदिशत् पृथक् | एवं घटोद्भव मुने ! मेरुशृङ्गे महोन्नते || ३८ || समास्ते श्रीपुरे ब्रह्ममुखशासनतत्परा | देवशिल्पिस्वचातुर्यसर्वसारविनिर्मितम् || ३९ || प्.७९०) नगरं श्रीमहादेव्या भूषणं छत्रपादुके | प्रार्थिता विधिमुख्यैः सा स्वीकृत्य करुणावशात् || ४० || चिदानन्दघनाऽपीत्थमास्ते लीलावपुर्धरा | इति श्रुत्वा हयग्रीवात् कथां परमपावनीम् || ४१ || अगस्त्यः सन्तुष्टमनाः पप्रच्छाऽतिविशङ्कितः | हयग्रीव दयासिन्धो ! मेरावस्मिन् त्वयोदितम् || ४२ || नगरं श्रीमहादेव्यास्तन्मे चित्रं विभाति वै | न मे ह्यविदितं स्थानं ब्रह्माण्डान्तर्भवेत् क्वचित् || ४३ || तत्राऽपि मेरावज्ञातं मया न स्यात् क्वचित् स्थलम् | मेरुर्भुवनचित्रस्य भित्तिवत्परिकल्पितः || ४४ || सन्त्यूद्र्ध्वं सप्तभुवनान्यधः सप्ततलानि वै | मेरुमूर्घ्नि ब्रह्मविष्णुशिवधामानि सन्ति वै || ४५ || तत्र मे नाऽस्त्यविदितो देशोऽपि द्वयङ्गुलात्मकः | तत् कथं वर्णितं तत्र श्रीपुरं मे समीरय || ४६ || इति पृष्टः कुम्भजेन ह्यास्यः प्राह हर्षितः | शृणु कुम्भजः ! वक्ष्यामि रहस्यं ह्येतदुत्तमम् || ४७ || न हि तद्भवनं सर्वैर्द्रष्टुं शक्यं कथञ्चन् | ये तु श्रीत्रिपुरां शक्तिं विधिना समुपासते || ४८ || तेषा प्रप्यं दृश्यमपि नाऽन्येषां तु कदाचन | तत्ते माहात्म्यसंश्रुत्या भक्तिर्हृदि समुद्गता || ४९ || प्.७९१) प्राप्तायां तु पराभक्तौ नाऽप्राप्यं विद्यते | प्राप्ते रत्नाकरे यद्वद्भवेन्नो रत्नवाञ्चिता || ५० || तदियं ते सती भार्या लोपामुद्रा परा प्रिया | तस्या दीक्षां समादाय चोपास्य विधिवत्पराम् || ५१ || सिद्धस्तद् द्रक्षसि पुरं नान्यथा तु कदाचन | एतत्ते कुम्भज ! प्रोक्तं ललिताया महाद्भुतम् || ५२ || विभवं शृण्वतां पुंसां सर्वपापप्रणाशनम् | कलौ मलीमसहृदां जनानां दुर्धियामिदम् || ५३ || माहात्म्यं त्रिपुरेशान्यास्त्यक्त्वा नाऽन्यत्परायणम् | वैदिकैः कर्मभिर्भूयो निराशीर्भिः कृतैर्ववेत् || ५४ || उपासनेषु श्रद्धाऽन्यदेवताविषया ततः | विष्णौ शिवे शक्तिषु च सर्वान्ते परिपाकतः || ५५ || त्रिपुरामूर्तिसेवायां श्रद्धा भवति शाश्वती | एतदाराधनेनैव विदित्वा स्वाऽत्मरूपीम् || ५६ || चिदानन्दाऽद्वयमयीं सर्वलोकमहेश्वरीम् | अभिव्यक्तपरैश्वर्यो न पुनर्भवमृच्छति || ५७ || एवं स्वात्मपदप्राप्तौ सोपानं प्रथमन्त्विदम् | श्रवणं श्रीपराशक्तिमाहात्म्यविभवोन्नतेः || ५८ || तस्मादादौ सर्वथैव श्रोतव्यं श्रेय इच्छता | एतत् पापप्रशमनं सर्वाभीष्टफलावहम् || ५९ || प्.७९२) भक्तिमुत्पाद्य तरसा मोचयेत् परमाद्भयात् | इत्युक्त्वा कुम्भजमुनिपूजितोऽश्वाननो भृशम् || ६० || आपृच्छय निरगात् स्वीयामभीष्टां दिशमीश्वरः | इति ते कथिता राम ललितायाः कथा शुभा || ६१ || इति श्रिमदितिहासोत्तमे त्रिपुरारहस्ये माहात्म्यखण्डे दत्तात्रेयपरशुरामसंवादे श्रीललितामाहात्म्ये श्रीपुरे श्रीललिताभिषेकवर्णनं नामाष्टसप्ततितमोऽध्यायः || ६४६५ || प्.७९३) एकोनाशीतितमोऽध्यायः श्रीदत्तभार्गवसम्बादे आगमस्वरूपवर्णनम् एवं श्रीललितादेव्या माहात्म्यं सर्वतोऽधिकम् | जमदग्निसुतः श्रुत्वा हर्षाऽमृतानिषेचितः || १ || भक्तिवारिधिनिर्मग्नो रोमाञ्चोदयपीवरः | निरन्तरस्रवद्धर्षनेत्रवारिपरिप्लुतः || २ || विसंज्ञ इव सम्भूतः क्षणमासवमत्तवत् | बभाषे गद्गदश्रुत्या भूयो विरचिताऽञ्जलिः || ३ || भगवन्नहमत्यन्तं पावितो भवताऽधुना | पराकथातीर्थवारिधारानिवहसेचनैः || ४ || उद्धृतो दययाऽपारसंसारजलधेर्ननु | नमस्ते श्रीगुरो नाथ दुःखध्वान्तदिनाधिप ! || ५ || नमस्ये तं मुनिं शांतं संवर्तमकुतोभयम् | यो मे मार्ग निरदिशदन्धस्य भ्रमतो यथा || ६ || अद्य यावदहं लोके व्यर्थं कालमुपावहम् | शून्यकूपे भेक इव न स्वार्थमविदं क्वचित् || ७ || प्.७९४) धन्योऽहं कृतकृत्योऽहं भवश्चरणसंश्रयात् | मोक्षलक्ष्मीमभिप्रेप्सुरभवं सर्वथा ननु || ८ || भगवन्मे संशयोऽत्र महान् हृदि समाहितः | तत् पृच्छामि भवन्तं यद्वक्तुंज् तन्मे समर्हसि || ९ || जानाम्यनुग्रहोऽत्यन्तं मयि ते करुणानिधेः | नाऽवक्त्व्यं मयि भवेच्छिष्ये कारुणिकस्य ते || १० || कथं कुम्भोद्भवमुनिः सर्वशास्त्रविशारदः | नोपासीत्तं पराशक्तिं सर्वलोकमहेश्वरीम् || ११ || येनाऽदृश्यमभून्मेरौ श्रीदेव्या नगरोत्तमम् | कुतो व वेदनिरते न हि स्यात्तस्य दर्शनम् || १२ || भूयः कथं तेन दृष्टं तत्पुरं तद्ब्रवीहि मे | इत्यापृष्टो जामदग्न्यं प्राह दत्तगुरुर्मुनिः || १३ || शृणु राम प्रवक्ष्यामि रहस्यं ह्ये तदुत्तमम् न ह्यत्र केवलं शास्त्रं प्रयोजकमुपेयते || १४ || जनानां प्राकसमभ्यस्तवासनावासितात्मनाम् | वासनानां शतं चित्ते सञ्चितं प्राणिनां पृथक् || १५ || प्राप्योद्बोधं प्रसरति सत्सङ्गस्तस्य बोधकः | यावद्यत्सङ्गमाप्नोति तावत् तत् स्यान्न चाऽन्यथा || १६ || प्.७९५) हयग्रीवं समागम्य त्रिपुरावैभवश्रुतेः | सञ्जातत्रिपुराभक्तिः पत्न्या दीक्षां समाददे || १७ || यावद्दीक्षां न विन्देत त्रिपुरोपासकोऽपि सन् | न तावन्मोक्षसौधस्य सोपानाऽरोहणक्षमः || १८ || विनोपनयनं यद्वद्द्विजानां सर्वकर्मसु | न योग्यता तथाऽत्रापि विना दीक्षां भृगूद्बह || १९ || अप्राप्य सद्गुरोर्दीक्षामज्ञात्वा गुरूपद्धतिम् | स्वबुद्ध्या तु कृतं कर्म विधिना च समन्वितम् || २० || तथाऽपि साधकं शीघ्रं नाशयत्येव सर्वथा | सेवितारं यथा हन्ति चाऽपक्वन्तु रसायनम् || २१ || मन्त्रं मन्त्रविधानञ्च स्वबुद्ध्यैव गुरुं विना | यः समासादयेत् स हि देवताद्रोहमाप्नुयात् || २२ || नेह लोकः परो वा.पि विद्यते देवताद्रुहाम् | अज्ञो द्रोहकृतं दोषं नाशयेन्मानवः कथम् || २३ || लोकदृष्टन्याय एष आज्ञाभङ्गकरं नरम् | योजयन्त्येव भूपाला महादण्डैः पृथग्विधैः || २४ || नोपेक्षन्ते सर्वथैव नरमाज्ञाऽपकारिणम् | वेदवादैरेव न हि भवेदत्राऽधिकारिता || २५ || प्.७९६) उपासनाऽधिकारार्थं द्विजानां वैदिकक्रमः | पुरुषार्थो वेदविधौ सर्वथा न हि विद्यते || २६ || यदि वेदविदां पुंसां मृषाफलाऽनुसन्धिनाम् | अणुमात्राऽत्मभूतानां पुरुषार्थाऽभिमानिनाम् || २७ || पुरुषार्थः परः स्याच्येत् स्थाणूनां कुतो भवेत् | वैदिका ह्यचलम्मन्याः फलं धूमसमुद्भवम् || २८ || क्व दृष्टं चलभूतेन ह्यचलं फलसम्मतम् | मितेषु दुःखभूतेषु फलेषु सुखबुद्धयः || २९ || फलस्वरूपाऽनभिज्ञा ह्यफले फलशंसिनः | प्रवर्तितो गुणमयो वेदो धात्रा जगत्कृतिः || ३० || जगद्यात्राप्रवृद्ध्यर्थं सुराणामभितृप्तये | मर्तुकामस्य विषवत् कामिनां कामनामयः || ३१ || परश्च भागः सङ्गूढो वेदे यस्तं विदुर्न ते | धात्रैव गोपनात्तस्य गुप्तभावेषु मोहिताः || ३२ || नयन्ति तमन्यथैव व्यासो नारायणः स्वयम् | जीवेषु दयया सम्यक् चित्ताऽरोहोपयोग्यया || ३३ || तमुपबृंहयद् भूयो परमार्थैकसाधनम् | अतोऽत्र त्यक्तकामानामधिकारो विधीयते || ३४ || प्.७९७) सन्न्यासिनोऽपि चिच्छक्तेरूपासनमभीप्सितम् | अज्ञानाम्नोहतो वाऽपि विद्योपास्तिं त्यजेत्तु यः || ३५ || स विशेदन्धतामिस्रं न तस्याऽस्ति पुनर्गतिः | सन्न्यासिना तु त्यक्तव्यं सर्वं बन्धात्मना स्थितम् || ३६ || इदं मोक्षात्मकं राम श्रीविद्योपासनन्तु यत् | न (हि) त्यक्तुं समुचितं ब्राह्मण्यमिव वै यतेः || ३७ || महापराधस्त्यागो वै स्यादुपास्तेर्भयावहः | तामिस्रमन्धतामिस्रं कुम्भीपाकमवीचिकम् || ३८ || प्रपद्यन्ते हि ते भूयो ह्यपराधपरा जनाः | दण्डराज्ञ्या समाज्ञप्ताः शक्त्योऽतिविभीषणाः || ३९ || सङ्कर्षिणी कर्षिणी च कालसङ्कर्षिणी तथा | उपास्तिमार्गसरुजानपराधपरान् जनान् || ४० || योजयन्त्युक्तकुःखेषु स्थानेषु परमातृकाः | उपासनपरो मर्त्यः कैवल्यं पदमश्नुते || ४१ || कर्मिणस्तान्त्रिकस्याऽपि या भवेद्गतिरुत्तमा | वैदिकोपासकस्यैषा सर्वथा न हि विद्यते || ४२ || यतो हि वैदिकं कर्म सर्वथा हि बहिर्मुखम् | अनीश्वरं पौरुषं स्यादतः पशुफलोचितम् || ४३ || प्.७९८) तान्त्रिकन्त्वैश्वरं कर्म ज्ञानोपासनमिश्रितम् | मोचयत्याशु संसिद्ध्या श्रद्धाभक्तिसुबृंहितम् || ४४ || यथोक्तकर्मणा चित्तशुद्धिमासाद्य विद्यया | प्राप्यतेऽत्रैव शिवता प्रबुद्धैः पौरुषेण हि || ४५ || अबुधा अपि मुच्यन्ते कर्म कृत्वा यथाक्रमात् | नाऽधिकारो विना दीक्षां कर्मणि ज्ञानसाधने || ४६ || दीक्षावन्तस्तु देहान्ते प्राप्य लोकं परात्परम् | सदाशिवेन ते सम्यक् प्रबुद्धाः शिवरुपिणः || ४७ || कर्मिणोऽप्यप्रबुद्धा ये ते भवन्ति भृगूद्वह ! | तस्मान्न वेदशास्त्राद्यैः शुष्कैः सद्गतिराप्यते || ४८ || विना श्रीत्रिपुरासेवां प्रवृत्तिर्वा कथं सती | न साधनं फलं वाऽपि प्रवृत्तिर्वा.पि भार्गव ! || ४९ || विना श्रीत्रिपुरेशान्याः कृपया सम्भविष्यति | आराध्य शिवविष्णवादीनपि यत् प्राप्यते फलम् || ५९ || तश्चाऽपि तस्याः कृपया भवतीति विनिश्चयः | पूजनं सर्वदेवानां पराशक्तेः प्रपूजनम् || ५१ || शक्तिं विना न पूजाया ग्रहणं सम्भवेत् क्वचित् | तस्मात् पूजा तु शक्तेः स्यात् सर्वत्र विहिता जनैः || ५२ || प्.७९९) फलप्रदानशक्तिन्तु विचार्याऽदौ विचक्षणाः | पूजयन्ति पृथक् देवं फलं विन्दन्ति तत्तथा || ५३ || लोकेऽप्यशक्तः कुत्राऽपि न पूज्यः स्यात्तु भार्गव | आश्रयत्वाच्छिवमृते शक्तिर्नैव तु विद्यते || ५४ || इति चेन्निजसत्तात्मशक्तिहीनः शिवस्तथा | प्रकाशशक्तिहीनो वै रविः कुत्र कदा भावेत् || ५५ || यथा तथा चितिं शक्तिमृते स्याद्वि शिवः कथम् | चितिशक्त्या परित्यक्तं तृणं वाऽपि कथं भवेत् || ५६ || सत्यां चिति ह्यस्मि सर्वमन्यथा न हि किञ्चन | यदस्ति तश्चितिरिति जानीहि भृगुनन्दन || ५७ || एतच्छाक्तं हि विज्ञानं मत्तोऽन्यन्न हि विद्यते | एवं बुद्ध्या तु यत् किञ्चित् तृणञ्च त्रिपुरात्मकम् || ५८ || संज्ञायामेव लोकेऽस्मिन् विवदन्ति मर्नीषिणः | तस्मात्त्यजाऽत्र सन्देहमेतत्सर्वत्र वै समम् || ५९ || वाङ्निरुक्त्यै प्रवृत्ता वै विशेषाऽलम्बनं गता | निर्विशेषन्तु तद्रूपमखण्डैकचिदात्मकम् || ६० || विशेषज्ञओ भवेद्यावत्तवन्न स्याद्धि तत्परः | वेदा विशेषबहुला गूहयन्त्यविशेषकम् || ६१ || प्.८००) अतोऽगस्त्यस्तत्पुरं तु नाऽपश्यद्वैदिकोऽपि सन् | वेदार्थःपरमो यस्तु त्रिपुरैव हि सा भवेत् || ६२ || अतस्त्रैपुरसंसिद्धौ साधनं वेद उच्यते | वेदार्थस्यैव व्यसनं पुराणं व्यास ऊचिवान् || ६३ || वेदो ह्यागमभागः स्यात् शब्दराशिस्तथाऽगमः | तस्या मूर्त्तिरतः सर्वं प्रवृत्तं संश्रयात् || ६४ || त्रैवर्णिकाऽधिकारेण वेदरूपः प्रवर्तते | दयया परमेशानः सर्वानुद्धर्तुमिच्छया || ६५ || वेद आगमसंज्ञानं विभावयदनुत्तमम् | आगमः परमेशस्य विमर्श इति निश्चयः || ६६ || क्रमेण ब्रह्ममुख्यानां मुखादुद्भवयत्तु तम् | अपारो ह्यागमाऽम्भोधिः सर्वलोकेषु सङ्गतः || ६७ || कालेन मन्दधिषणान् कृपणानभिलक्ष्य तु | ऋषिभिस्तमागमाब्धिं मथित्वा प्राज्यया धिया || ६८ || सारसंग्रहरूपात्मतन्त्राऽमृतमनुत्तमम् | देशभेदविभेदेन पृथगेव विभावितम् || ६९ || तत्र द्विजानां वेदोक्तकर्मभिः संस्कृतात्मनाम् | श्रौतकर्ममुखेनैव तान्त्रिके ह्यधिकारिता || ७० || प्.८०१) शूद्रादीनान्तु कैवल्याद्भवेत्तन्त्राधिकारिता | वेद एव हि तन्त्रं स्यात्तन्त्रं वेदः प्रकीर्तितम् || ७१ || नाऽनयोर्विद्यते भेदो लेशांशेनाऽपि कुट्रचित् | तथा हि वेदभागेषु तन्त्रभागः प्रदृश्यते || ७२ || यत्र मन्त्रयन्त्रपूजाविधानं सुस्फुटं स्थितम् | एवंविधो वेदभागो यतस्तन्मूर्घ्नि संस्थितः || ७३ || तन्त्रसङ्केतसंयुक्तस्ततस्तन्त्रं समुत्तमम् | तन्त्रेष्वपि वेदभागा मन्त्रब्राह्मणभेदिताः || ७४ || दृश्यन्ते कर्मविधिषु तस्मात्तन्त्रं समुत्तमम् | एवं पुराणादिषु च तन्त्रभागः प्रदृश्यते || ७५ || तथा तन्त्रेषु सर्गादिलक्षर्णोऽशः प्रदृश्यते | स पुराणप्रभागः स्यादेवं जानीहि भार्गव ! || ७६ || तस्माच्छ्रीत्रिपुराख्यायाः सहजाऽमर्शसम्भवः | आगमाब्धिस्ततो वेदांस्तन्त्राणि च विभावय || ७७ || नियतिर्या हि तच्छक्तिस्तया सर्व व्यवस्थितम् | अतोऽगस्त्यस्तन्त्रदीक्षारहितो वैदिकोऽपि सन् || ७८ || नाऽपश्यत्तत्पुरं तत्र मेरौ नियतियन्त्रितः | अथ श्रुत्वा महादेव्या माहात्म्यं सर्बतोऽधिकम् || ७९ || प्.८०२) भक्तियुक्तः प्राप्य दीक्षां तान्त्रिकीं क्रमसंयुताम् | पत्न्या उपास्य त्रिपुरां तत्र श्रीनाथमण्डलो || ८० || स्थानं प्राप्य प्रियायुक्तः परमानन्दनिर्भरः | एवं तेन समाक्रान्तं दृष्टञ्च स्थानमुत्तमम् || ८१ || इति श्रीमदितिहासोत्तमे त्रिपुरारहस्ये माहात्म्यखण्डे आगमस्वरूपनिर्णयो नामैकोनाऽशीतितमोऽध्यायः || ६५४६ || प्.८०३) अशीतितमोऽध्यायः उपासकमुख्यधर्मवर्णनम् एवं श्रुत्वा कथां रामो दत्तात्रेयनिरुपिताम् | भूयः प्राह प्रसन्नात्मा प्रणम्य रचिताऽञ्जलिः || १ || भगवन्नाथ यत्प्रोक्तं श्रुतं तदमृतोपमम् | अभवं मुक्तसन्देहः किञ्चित् पृच्छामि वै पुनः || २ || एवं दीक्षां समासाद्य त्रिपुराऽराधनोद्यतः | कुर्वन्नित्यक्रियां केन विशेषेण हि कर्मणा || ३ || शीघ्रं महाफलं प्रेयाद्राजा चाऽकिञ्चनोऽपि च | तन्मे समाचक्ष्व गुरो कृपया मयि सेवके || ४ || इति दत्तगुरुः पृष्टः प्राह तद्भक्तिहर्षितः | शृणु राम महागुह्यं त्रिपुराप्रीतिकारकम् || ५ || शिवो यथाऽभिषेकेन प्रणामैर्दिनकृद्यथा | नैवेदैस्तु गणेशानोऽलङ्काराद्धरिरेव च || ६ || प्.८०४) पूजनेन विशेषैस्तु विधिना प्रीयते तथा | पराशक्तिर्महेशानी तत्र सर्वोत्तमं शृणु || ७ || प्रासादमुन्नतं चित्रं निर्माय निजशक्तितः | तत्र श्रीचक्रराजं वा मूर्तिं वाऽपि सुलक्षणाम् || ८ || सस्थाप्य विधिना तत्र स्वयं वाऽन्येन वाऽन्वहम् | पूजयेत् पञ्चकालं वा चतुस्त्रिर्द्व्येककालकम् || ९ || उषः प्रातर्मध्यदिने प्रदोषे चाऽर्धयामके | नित्यं वा द्वित्र्येककालं पञ्चकालञ्च पर्वसु || १० || उत्सवोऽपि प्रकर्त्व्यो महापर्वसु सर्वथा | रथेन वाहनैर्यानैरुत्सवप्रतिमां बहिः || ११ || परिक्राम्याऽगमोक्तेन नृत्यमङ्गलगायनैः | एवं यः कुरुते लोके स वसेच्छ्रीपुराऽन्तरे || १२ || नीलवप्राऽन्तरालेषु सर्वभोगोपसम्भृतः | असमर्थोऽन्यविहिते स्थापयेश्चक्रनायकम् || १३ || चक्रस्थापनतुल्यं नो विद्यते त्रिपुराप्रियम् | न तस्य पुनरावृत्तिः सायुज्यं विन्दते क्रमात् || १४ || श्रीच्क्रस्थापनादेव फलानन्त्यं समीरितम् | यत्र स्यात् स्थावरं यन्त्रं निवसंस्तत्समीपतः || १५ || उपासको हेममये वप्रे निवसति धुवम् | उपासकस्तु जानीयात्तत्क्षेत्रं सर्वतोऽधिकम् || १६ || प्.८०५) तत्राप्यशक्तो विभवानुरोधाच्छुभपर्वसु | पूजयेत् स्थावरं च्क्रं मूर्तिं वा भक्तिपूर्वकम् || १७ || चरयन्त्रादिपूजायाः स्थिरयन्त्रादिपूजनम् | फलं समावहेल्लक्षगुणं राम ! न संशयः || १८ || यन्त्रे सावृतिमम्बान्तु विधानेन प्रपूजयेत् | तत्त्त्स्थाने भावयन् वै महाफलसमाप्तये || १९ || यथा सूर्यस्य किरणाः सर्वतः समवस्थिताः | सूर्याऽत्मभूतास्तस्यांऽसाः सर्वलोकप्रसादकाः || २० || शीताऽन्धकाररोगादिनाशकाः प्राणिनस्तथा | त्रिपुरायाः पराशक्तेः परिवाराख्यदेवताः || २१ || लोकवाञ्छार्थदानाय नियुक्तास्तु तयैवः ताः | तस्यांऽशभूताः सर्वा वै तस्मात् पूज्या यथाविधी || २२ || किरणानां पिण्डमयो यथा सूर्यो नभःस्थितः | तथैवऽवृतिशक्तीनामैक्यात्मा त्रिपुरा मता || २३ || बिन्दुचक्रे समासीना देवदेवमहेश्वरी | अशक्तः पूजयेद्भतया यथाम्ति यथाक्रमम् | २४ || परिवारपिण्डमयीं सामान्यैर्द्रव्यवैभवैः | यथाकथञ्चिद्वा पूज्या स्थावरे परमेश्वरी || २५ || प्.८०६) यस्तु प्राप्य स्थावरन्तु चक्राद्यं न प्रपूजयेत् | तमात्मघ्नं विजानीयात् सर्वलोकविनिन्दितम् || २६ || अशक्तो गन्धकुसुमफलाऽक्षतजलैस्तथा | दक्षिणाताम्बूलदीपप्रणामपरिवर्तनैः ? || २७ || सर्वैरेकद्व्यादिभिर्वा शक्त्या तां तत्र पूजयेत् | सहस्राद्यैर्नामभिस्तु यश्चक्रादौ प्रपूजयेत् || २८ || सकृत् सम्पूज्य च नरो नारी वा सर्वपातकैः | मुच्यते नाऽस्ति सन्देह इत्याह भगवान् शिवः || २९ || अथ लक्षप्रपूजादिविधानं शृणु वच्मि ते | विशेषपर्वसु तथा शुक्रवारेऽपि वाऽरभेत् || ३० || सङ्कल्प्य पूज्य गणपं स्वस्ति विप्रैर्हि वचयेत् | ततः सम्पूज्य विधिना चाऽवृत्यन्तं महेश्वरीम् || ३१ || पूजयेत् सावृत्तिं देवीमुपचारैस्तु पञ्चभिः | तत्र पुष्पोपचारस्य स्थाने पूजां समाचरेत् || ३२ || सहस्राद्यैर्नामभिस्तु ततो धूपादिपूजनम् | समापयेद्यथावत्त प्रत्यहञ्चैवमर्चयेत् || ३३ || समस.ख्याविधानेन प्रत्यहं पूजयेत् क्रमात् | एकजातीयकैः पुष्पैः यत्रैव पूजयेत् पराम् || ३४ || स्वयं वा पुत्रपत्न्याद्यैर्ब्राह्मणद्वारतोऽपि वा | अन्ते तु सर्वतोभद्रे नवयोनिसमायुते || ३५ || कलशं सुप्रतिष्ठाप्य सौवर्णादिसमुद्भवम् | अलङ्कृतं सूत्रवस्त्रैर्मध्ये तण्दुलपुञ्जके || ३६ || अलङ्कृतं धूपितञ्च निधाय मनुमुश्चरन् | तमष्टगन्धतोयेन पूरयेत् पञ्चरत्नकम् || ३७ || निक्षिप्य तस्मिन् तद्वत् क्रमादाच्छाद्य पञ्चपल्लवैः (?) सतण्डुलं फलं पूर्ण पात्रञ्चाऽपि मुखे न्यसेत् || ३८ || तत्र प्रैत्कृतीं देव्याः सर्वाऽवयवशोभिताम् | विन्यस्य तस्यामावाह्य पूजनन्तु समाचरेत् || ३९ || तत्राऽदौ सर्वतोभद्रदेवताः क्रमतो यजेत् | दशदिक्षु च दिक्पालान् शृङ्खलासु चतुर्षु च || ४० || धर्मादीन्मध्यभवने श्वेतेऽधर्मादिकान् यजेत् | रक्तार्ऽधभवने पूर्वात् प्रादक्षिण्येन पूजयेत् || ४१ || असिताङ्गादिमिथुनं मेखलासु गुणत्रयम् | एवं सम्पूज्य कलशे पीठपूजनपूर्वकम् || ४२ || विधीनाऽवाह्य त्रिपुरां पूजयेदुपचारकैः | तत्तत्पुष्.पादिकं स्वर्णभवं वा रजतोद्भवम् || ४३ || माषाद्वा कर्षतो वाऽपि कुर्यादन्यूनमुत्तमम् | तदर्ध पादमपि वा कृत्वा तन्नवसङ्ख्यकम् || ४४ || पूजयेदुपचारेषु नामभिर्वशिनीमुखैः | मध्ये च त्रिपुरां रात्रौ पूजयेश्चक्रनायकम् || ४५ || कलशस्य पश्चिमतः सर्वतोभद्रमण्डले | स्वयं वा पूजयेदाचार्येण वा क्रमवेदिना || ४६ || पूजयित्वा यथाशास्त्रं कुमारीं बटुकं तथा | गुरुं सुवासिनीञ्चापि ब्राह्मणादीनपि क्रमात् || ४७ || उद्वासरहितां पूजां समाप्याऽखिलसंवृतः | कथाभिर्गायनैर्नृत्यैः कुर्याज्जागरणं निशि || ४८ || परेद्युः कृतकृत्योऽथ पूजयेश्चक्रनायकम् | पूजाङ्गहोमतः पश्चादग्निं संसाध्य शास्त्रतः || ४९ || यथावत्तत्र जुहुयात्तत्तत्पुष्पैः सहस्रकम् | पूजां समाप्य चोद्धास्य कलशं वस्त्रसंयुतम् || ५० || दक्षिणाप्रतिमायुक्तं सुवासिन्यै निवेदयेत् | ब्राह्मणानां षोडषकं सुवासिन्यष्टकं तथा || ५१ || बटुकाश्च कुमारींश्च वित्तशाठ्याद्विवर्जितः | भोजयेद्भक्ष्यभोज्याद्यैर्दक्षिणाद्यैश्च तोषयेत् || ५२ || एवं पूजनमात्रेण सर्वपापैर्विमुच्यते | प्रसन्ना त्रिपुरेशानी वाञ्छितार्थप्रदा भवेत् || ५३ || प्.८०९) सर्वसौभाग्यसंयुक्तो वंशपुत्रैर्युतस्तथा | पितॄप्रोद्धरते सर्वनन्ते मोक्षं समश्नुते || ५४ || राज्यप्राप्तिस्तु कमलैः करवीरैर्महच्छ्रियम् | जपापुष्.पैः सन्ततिं वै जातीपुष्.पैर्गृहादिकम् || ५५ || योनिपुष्पैर्वंशवृद्धिं वकुलैः सौमनस्यताम् | किंशुकैरोगनिहतिं कुटजैः शत्रुनाशनम् || ५६ || एवमन्यैः सुगन्धाढ्यैः पुष्पैः पत्रैश्च भार्गव | पूजयित्वा विधानेन महाफलमवाप्नुयात् || ५७ || फलैर्धान्यैरर्चयेश्च प्रोक्तमार्गानुसारतः | लक्षवर्तिप्रदीपैर्वा पूजयेत्त्रिपुराऽम्बिकाम् || ५८ || समर्थस्तत्र वर्त्तिभ्यां दीपानेव प्रकल्पयेत् | दशकेन शतेनाऽपि सहस्त्रेणाऽपि वा तथा || ५९ || पञ्चाशद्दशसाहस्रैः सहस्रशतमेव वा | एकैकञ्च घृताऽपूर्णमर्पयेदेकनामभिः || ६० || सहस्रनामभिर्देव्याः शतनामभिरेवबा | दशाऽवर्तनकैर्वापि चैकावर्तनकेन वा || ६१ || तथा पञ्चशताऽवृत्त्या दीपं देव्यै समर्पयेत् | अन्ते स्वर्णेन रौप्येण नवकं वर्त्तियुग्मकम् || ६२ || प्.८१०) कृत्वा ताम्रमये दीपे घृतवर्तिसमूज्ज्वले | निवेदयेत्तु कलशे पायसेन हुनेत्तथा || ६३ || श्रीसूक्तेनाऽभिषेकं वै कुर्याच्छ्रीचक्रनायके | आवृत्तीनां लक्षकेन सहस्रेण शतेन वा || ६४ || स्वयं वा ब्राह्मणैर्वापि क्षिरैरिक्षुरसैर्घृतैः | मधुभिर्वा फलरसैर्दधिभिर्वा सुगन्धिभिः || ६५ || तोयैस्तीर्थोद्भवैर्वापि राम पूर्वोक्तवर्त्मना | अन्ते दशांऽशतो बन्हौ पायसेन हूनेत् क्रमात् || ६६ || प्रत्युऋचं श्रीसूक्तकस्य पूर्वत्तु समापयेत् | रुद्राभिषेकतो वाऽपि महाफलमुदीरितम् || ६७ || एवं भार्गव ! सम्प्रोक्तं धनिनां शुभसाधनम् | अधनैस्तु शरीरेण कर्तव्यं शुभसाधनम् || ६८ || समर्थस्तीर्थयात्रान्तु कृत्वा श्रेयः समावहेत् | अथ वा देवतास्थाने परिचर्यां समाचरे तु || ६९ || उपास्तितत्परान् वाऽपि सेवेत् विगतस्पृहः | अतिमूढस्य चैतावदेव कृत्यमुदीरितम् || ७० || मेधावी प्रजपात्पाठात् कथादीनां प्रवाचनात् | देवताशास्त्रपठनात् पाठनाच्छ्रेय आप्नुयात् || ७१ || योग्येषु देवतोपास्तिशास्त्रं यः सम्यगीरयेत् | स देहान्ते वैद्रुमे तु प्राकारे निवसेश्चिरम् || ७२ || प्.८११) चित्राणि यो लिखेद्देव्याः प्रासादेषु सुभक्तितः | निवसेद्वासन्तवप्रे चिरमानन्दिताऽन्तरः || ७३ || सम्मार्ज्य शीततोयैश्च सेचयेत् यश्च मन्दिरम् | अभिर्षञ्चेत्तथा शीततोयैरपि सुवासितैः || ७४ || निवसेश्चान्द्रवप्रान्तः स सन्तापविवर्जितः | यस्तु रात्रौ दीपिकाभिः प्रकाशयति मन्दिरम् || ७५ || निवसेत् सूर्यवप्रान्तः प्राप्य भोगान् यथेप्सितान् | एवमत्र यथा यो यः सेवां कुर्यात्तु मन्दिरे || ७६ || स देहान्ते श्रीपुरे तु स्थानं प्राप्नोति तादृशम् | उपासकेभ्यो दानानि कृत्वाऽपि स्थानमाप्नुयात् || ७७ || यः पुस्तकं देवताया दद्याद्योग्याय भक्तितः | स सिद्धवप्रवस्तिं प्राप्नुयात् सुसुखावहाम् || ७८ यस्तु पूजोपकरणं प्रदद्यात् साधकोत्तमे | स वसेद्दिक्पतीनां हि वप्रे सौख्यमवाप्नुयात् || ७९ || एवं यद्यत् प्रदद्याद्वै भक्त्योपासनसत्तमे | तत्तत्तुल्यनिवसतिं प्राप्नुयान्नाऽत्र संशयः || ८० || अथ ते संप्रवक्ष्यामि दानानामुत्तमं परम् | श्रीच्क्राजदानन्तु महाफलविधायकम् || ८१ || प्.८१२) सुअर्वणि समभ्यर्च्य चक्रराजं यथाविधि | पूजान्ते त्रिपुरापूजापरं विप्रं सुलक्षणम् || ८२ || सपत्नीकं समभ्यर्च्य विशेषद्रव्यसाधनैः | वस्त्रैराभरणैः गन्धपुष्पादिभिः क्रमात् || ८३ || सपीठं सोपकरणं साधनद्रव्यसंयुतम् | सामान्याऽर्घोदकं हस्ते विप्रस्य समवासृजेत् || ८४ || ततो विप्रस्तु तां पूजामुद्वासप्रमुखाञ्चरेत् | भोजयेदावृतिमितान् ब्राह्मणान् सुविधानतःह् || ८५ || सुवासिनीर्भोजयेत्तु नित्याषोडशनामभिः | यथाशक्त्या वाऽपि विप्रान् भोजयेत्तु प्रयत्नतः || ८६ || अथ वा भोजयेन्नित्यानामभिस्तु सुवासिनीः | षोडश ब्रह्मणांश्चापि द्वादशाऽराध्य भोजयेत् || ८७ || एवं दद्याद्यस्तु दानं चक्रराजस्य भक्तितः | तस्य प्रीता महादेवी स्वसायुज्यं प्रयच्छति || ८८ || सर्वतीर्थेषु स स्नातः तेन सर्वं व्रतं कृतम् | सर्वं दानं तेन दत्तं तेन यज्ञास्तथा कृताः || ८९ || तपस्तेन सुतप्तं वै पठिता निखिलागमाः | त्रिपुराऽपि च तत्कर्मसकृशं नाऽस्ति वै फलम् || ९० || इति मत्वा स्वसायुज्यं तस्मै शीघ्र. प्रयच्छति | यतः सर्वजगद्रूपप्रतिमं राम चक्रकम् || ९१ || प्.८१३) प्ऽतस्तेन जगद्दत्तं न दत्तं किं कथं भवेत् | यदि कामनया कुर्याद्यं यं काममभीप्सति || ९२ || तं तं प्राप्नोति सहसा मोक्षञ्चाऽन्ते समाप्नुयात् | एवन्तु स्थावरं यन्त्रमग्रे हारसमन्वितम् || ९३ || महादानयुतञ्चाऽपि दद्याद्विप्राय यः पुमान् | तस्य पुण्यमनन्तोऽपि न शक्तः कथने क्वचित् || ९४ || मूर्ति वापि नार्मदं वा शिवनाममथाऽपि वा | शालिग्रामं कुण्डलिनीमेव दद्यात्तु भक्तितः || ९५ || श्रीपुरे तु चिरं स्थित्वा मुच्येद्देहाऽवसानके | मन्दिरं चक्रराजादेर्जीर्णं कुर्यान्नवन्तु यः || ९६ || तत्पुण्यं स्याच्छतगुण नवमन्दिरनिर्मितेः | पूजां वाऽपि चिरोच्छिन्नां प्रवर्तयति यः पुनः || ९७ || धनभूमिप्रदानेन तस्याऽपि शतधा फलम् | सर्वगुह्यतमं भूयः शृणु वक्ष्यामि भार्गव ! || ९८ || यस्तु भक्तेषु योग्येषु सम्प्रदायं समादिशेत् | धनमानाद्यपेक्षः सन् क्रमदीक्षादिरीतितः || ९९ || तस्याऽनन्तफलं राम ! कस्तद्वर्णयुतुं क्षमः | यथेच्छं निवसेन्नाथमण्डलेऽन्ते विमुच्यते || १०० || प्.८१४) यस्तु योग्यं सम्प्रदायं प्रार्थयन्तमुपासने | कामान्मोहात् प्रमादाद्वा वैराग्याद्वा निषेधति || १०१ || यश्च द्रव्यादिलोभेनाऽनर्हे शास्त्रं प्रयोजयेत् | तयोर्न विद्यते लोकः प्राप्स्यतो ह्यधमाङ्गतिम् || १०२ || तस्माद्यः सम्प्रदायं भक्तानां वैन निरूपयेत् | विद्यालोभयुतो मौर्ख्यात् सोऽपि यात्यधमां गतिम् || १०३ || तस्मात् स्वशिष्यमन्यं वा युक्तं भक्तिसमन्वितम् | सम्प्रदायं विजिज्ञासुं न निशिध्येत् कथञ्चन || १०४ || एतन्महाफलं राम नैतत्तुल्यन्तु किञ्चन | अन्यद्दानमनात्माख्यमपि बन्धकरम् भवेत् || १०५ || एतदात्मप्रदानं वै यद्विद्याद्विद्यादाने विशेषतः | विद्यालिखितदानेन चाऽपि तत्फलम् स्यादनन्तकम् || १०६ || यस्त्वशक्तो बुद्धिमान्द्याद्विद्यादाने विशेषतः | विद्यालिखितदानेन चाऽपि तत्फलमाप्नुयात् || १०७ || एदमत्यन्तसंगुप्तं प्रीत्या तव निरुपितम् | एवं महाफलप्राप्तिस्त्रिपुरोपासनाविधौ || १०८ || एष भार्गव ते प्रोक्तस्त्रिपुराया रहस्यके | माहात्म्यवैभवो यस्य श्रवणाद्भक्तिमान् भवेत् || १०९ || प्.८१५) देवर्षे ! संश्रुतं कश्चित् सावधानेन चेतसा | एष माहात्म्यखण्डो वै त्रिपुराया रहस्यके || ११० || यः शृणोति स सर्वेभ्यः पापेभ्यः प्रविमुच्यते | परमं साधनं ह्येतदात्मबन्धविमुक्तये || १११ || यतो भक्तिर्हि मोक्षस्य जनयित्रि निगद्यते | सा माहात्मयश्रुतिमृते यतो न भवति क्वचित् || ११२ || तस्मात् पराख्यसौधस्य सोपानं प्रथमं ननु | माहत्म्यश्रवणं लोके मोक्षद्वारमिदं स्मृतम् || ११३ || महिमानमसंश्रुत्य कथं भक्तिर्भवेदिह | भक्या विना परं श्रेयः कथं स्याद्देवता परा || ११४ || मोक्षस्य साधनं सर्वं विना भक्या न किञ्चन | यथा तरुण्याः सौन्दर्य विनसंसर्वथा तथा || ११५ || भुवं विना यथा बीजं नाङ्कुरं प्रतिरोहयेत् | तथा भक्तिं विना ज्ञानं फलं न जनयेत् क्वचित् || ११६ || अभक्त्स्य न कर्मास्ति नोषास्तिर्नो विवेकिता | तस्माद्भक्तिविहीनस्य न क्वचित् स्याद् धृतिः क्वचित् || ११७ || माहात्म्यसंश्रुतिस्तस्या मूलं यस्माश्च नारद ! | तस्मादेतं संशृणुयात् खण्डं माहात्म्यसंज्ञितम् || ११८ || प्.८१६) शृण्वतां पठताञ्चाऽपि महापापप्रणाशनम् | पठितव्यं नित्यमेतदध्यायं श्लोकमेव वा || ११९ || प्रसादं त्रिपुराशक्तेर्वाञ्छता सर्वथा शुभम् | एतदायुष्यजननं सौमङ्गल्यविवर्धनम् || १२० || अध्नो धन्वान् भूयादपुत्रा पुत्रिणी भवेत् | यद्यत्समीहितं तत्तत्प्राप्यतेऽस्य हि संश्रुतेः || १२१ || विद्याप्रदं विलिखितं पूजितं प्रेप्सितप्रदम् | विचारितं ज्ञानभक्तिवैराग्यादिप्रदं नृनाम् || १२२ || सर्वाऽगमाब्धिमथनाद्यद्भक्तयमृतमाप्यतु | अमृताः शिवमुख्याः स्युः सा माता त्रिपुरैव हृईम् || १२३ || इति श्रीमदितिहासोत्तमे त्रिपुरारहस्ये माहात्म्यखण्डे उपासकमुख्यधर्मवर्णनं नामाऽशीतितमोऽध्यायः || ६६६९ || त्रिपुराम्बार्पितमस्तु | ओंम् तत् सत् || समाप्तमिदं त्रिपुरारहस्ये माहात्म्यखण्डम् | श्रीविद्यायै सादरानुरोधः जाग्रद्बोधसुधामयूखनिचयैराप्लाब्य सर्वादिशो यस्याः काऽपि कलाकलङ्करहिता षट्चक्रमाक्रामति | दैन्यध्वान्तविदारणैकचतुरा वाचंपरां तन्वती सा नित्या भुवनेश्वरी विहरतां हंसीव मन्मानसे || त्रिपुरा-रहस्यकम् देवानां त्रितयं हुतभुजां शक्तित्रयंत्रिस्वरा स्त्रैलिक्यं त्रिपदी त्रिपुष्करमथो त्रिब्रह्म वर्णास्रयः | यत्किञ्चिञ्जगतित्रिधानियमितं वस्तुत्रिवर्गादिकं तत्सर्वं त्रिपुरेति नाम भगवत्यन्वेति ते तत्त्वतः || (लघ्वाचार्यकृतलघुस्तवः ) सिन्दूरारुणविग्रहांत्रिनयनां माणिक्यमौलिस्फुरत्तारानायकशेखरांस्मितमुखीमापीनवक्षोरुहाम् | पाणिभ्यामलिपूर्णरत्नचषकं रक्तोत्पलंविभ्रतीं सौम्यांरत्नघटस्थरक्तचरणां ध्यायेत्परामम्बिकाम् || श्रीविद्याभावनम् ध्यायेत्पद्मासनस्थांविकसितवदनां पद्मपत्रायताक्षीं हेमामांपीतवस्त्रां करकलितलसद्धेमपद्मांवराङ्गीम् | सर्वालङ्कारयुक्तां सततममयदांक्तिगम्यांभवानीं श्रीविद्यांशान्तमूर्त्तिसकलसुरनुतां सर्वसम्पत्प्रदात्रीम् || सलोमास्थिस्वैरं पललमपि मार्ञ्जारमसिते परं चोष्ट्रं मेषं नरमहिषयोश्छागमपि वा | बलिं ते पूजायामपि वितरतां मर्त्यवसतां सतां सिद्धिः सर्वा प्रतिपदमपूर्वा प्रभवति | (कर्पुरस्तवश्लोकः) त्रिपुरासमर्चनम् आनन्दजन्म भवनं भवनं श्रुतीनां चैतन्यमात्रतनुमम्ब ! तवाऽश्रयामि | ब्रह्मेशविष्णुभिरूपासितपादपद्मां सौभाग्यजन्मवसतिं त्रिपुरे ! यथावत् | हृईंकारमाहात्म्यम् हृओं हृओमिति /प्रतिदिनं जपतां तवाख्यां किं नाम दुर्लभमिह त्रिपुराभिधाने | मालाकिरीटमदवारणमाननीयांस्तान्सेवते मधुमता स्वयमेव लक्ष्मीः || ########### END OF FILE #######